अध्यायः 055

अर्जुनेन सेनामध्ये सुयोधनानवलोकनेन तस्य गवामादानेन गमनसम्भावनया रथेन गवाग्रम् प्रत्यभियानम् ॥ 1 ॥ भीष्मेण पार्थभावविज्ञानात्सेनया सह तमनुधावनम् ॥ 2 ॥ गवान्तिकमुपगतवताऽर्जुनेन तद्रक्षिणां बाणगणैरभिहननेन गवां विनिवर्तनम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-055-001
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् । KK04-04-055-001a
नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम् ॥ KK04-04-055-001c
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् । KK04-04-055-002a
इषुपातमात्रे सेनायाः स्थापयाश्वानरिन्दम । KK04-04-055-002c
यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम् ॥ KK04-04-055-002a
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् । KK04-04-055-003a
परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् ॥ KK04-04-055-003c
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् । KK04-04-055-004a
यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः ॥ KK04-04-055-004c
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् । KK04-04-055-005a
सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि ॥ KK04-04-055-005c
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः । KK04-04-055-006a
तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः ॥ KK04-04-055-006c
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् । KK04-04-055-007a
असभ्यानां च वक्तारं कुरूणां किल किल्विषम् ॥ KK04-04-055-007c
राजानं नेह पश्यामि निरामिषमिदं बलम् । KK04-04-055-008a
अभिद्रवे ह राजानं व्यक्तमित्यत्र निर्भयः ॥ KK04-04-055-008c
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम् । KK04-04-055-009a
कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ ॥ KK04-04-055-009c
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः । KK04-04-055-010a
दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः ॥ KK04-04-055-010c
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः । KK04-04-055-011a
दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः ॥ KK04-04-055-011c
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः । KK04-04-055-012a
सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः ॥ KK04-04-055-012c
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति । KK04-04-055-013a
उत्सृज्यैतद्रथानीकं याहि यत्र सुयोधनः ॥ KK04-04-055-013c
तं हत्वा सन्निवर्तिष्ये गाः स आदाय गच्छति । KK04-04-055-014a
गवाग्रमभितो याहि यत्र राजा भविष्यति ॥ KK04-04-055-014c
वैशम्पायन उवाच KK04-04-055-015
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः । KK04-04-055-015a
संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ॥ KK04-04-055-015c
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परन्तपः । KK04-04-055-016a
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । KK04-04-055-016c
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः । KK04-04-055-017a
एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन् ॥ KK04-04-055-017c
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च । KK04-04-055-018a
मृगं सिंह इवादातुमीक्षते पाकशासनिः ॥ KK04-04-055-018c
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति । KK04-04-055-019a
तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः ॥ KK04-04-055-019c
न ह्येनमभिसङ्क्रुद्धमेको युद्ध्येत संयुगे । KK04-04-055-020a
अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात् । KK04-04-055-020c
आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात् ॥ KK04-04-055-020e
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा । KK04-04-055-021a
दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति ॥ KK04-04-055-021c
वैशम्पायन उवाच KK04-04-055-022
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः । KK04-04-055-022a
अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे ॥ KK04-04-055-022c
विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत् । KK04-04-055-023a
इषुपातमात्रे सेनायाः स्थापयाश्वानरिन्दम ॥ KK04-04-055-023c
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे । KK04-04-055-024a
याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च ॥ KK04-04-055-024c
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् । KK04-04-055-025a
गच्छन्ति सत्वरा गावः सगोपाः परिमोचय ॥ KK04-04-055-025c
तत्र गत्वा पशून्वीर सगोपान्परिमोचय । KK04-04-055-026a
अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर ॥ KK04-04-055-026c
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् । KK04-04-055-027a
पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः ॥ KK04-04-055-027c
वैशम्पायन उवाच KK04-04-055-028
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः । KK04-04-055-028a
निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचान्तकसन्निभान् ॥ KK04-04-055-028c
शलभैरिव चाकाशं धाराभिरिव पर्वतम् । KK04-04-055-029a
निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना ॥ KK04-04-055-029c
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः । KK04-04-055-030a
गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः ॥ KK04-04-055-030c
सा चापि बहुला सेना पार्थबाणाभिपीडिता । KK04-04-055-031a
नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा ॥ KK04-04-055-031c
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः । KK04-04-055-032a
पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः ॥ KK04-04-055-032c
तेषां नैवापयाने च नाभियाने भवन्मतिः । KK04-04-055-033a
शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः ॥ KK04-04-055-033c
चन्द्रावदातं सामुद्रं कुरुसैन्यभयङ्करम् । KK04-04-055-034a
ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् । KK04-04-055-034c
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् ॥ KK04-04-055-034e
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । KK04-04-055-035a
शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् । KK04-04-055-035c
वियद्गतानां देवानां मानुषाणां रवेण च ॥ KK04-04-055-035e
ऊर्ध्वं पुच्छं विधून्वाना हेषमाणाः समन्ततः । KK04-04-055-036a
गावः सवत्साः सन्त्रस्ता निवृत्ता दक्षिणां दिशम् ॥ KK04-04-055-036c
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा । KK04-04-055-037a
गोपालांश्चोदयामास गावश्चोदयतेति च ॥ KK04-04-055-037c
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः । KK04-04-055-038a
गवामग्रं समीक्षस्व गाश्चैवाशु निवर्तय ॥ KK04-04-055-038c
यावदेते निवर्तन्ते कुरवो जवमास्थिताः । KK04-04-055-039a
याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज ॥ KK04-04-055-039c
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम् ॥ KK04-04-055-040ac
वैशम्पायन उवाच KK04-04-055-041
ते लाभमिव मन्वानाः कुरवोऽर्जुनमाहवे । KK04-04-055-041a
दृष्ट्वा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ॥ KK04-04-055-041c
हस्त्यश्वपरिवारेण महताऽभिविराजता । KK04-04-055-042a
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ॥ KK04-04-055-042c
तान्यनीकान्यशोभन्त कुरूणामाततायिनाम् । KK04-04-055-043a
संसर्पन्त इवाकाशे विद्युत्वन्तो बलाहकाः ॥ KK04-04-055-043c
तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च । KK04-04-055-044a
पार्थोऽपि वायुवद्घोरं सैन्याग्रं व्यधुनोच्छरैः ॥ KK04-04-055-044c
तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण । KK04-04-055-045a
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ॥ KK04-04-055-045c
गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा । KK04-04-055-046a
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम् ॥ ॥ KK04-04-055-046c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥