अध्यायः 054

सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरम् प्रति तत्पदवीमनु रथयापनचोदना ॥ 1 ॥ तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ॥ 2 ॥ द्रोणेन तत्कौशलश्लाघनम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-054-001
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः । KK04-04-054-001a
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥ KK04-04-054-001c
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् । KK04-04-054-002a
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ KK04-04-054-002c
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः । KK04-04-054-003a
सेनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥ KK04-04-054-003c
राजानं नात्र पश्यामि रथानीके व्यवस्थितम् । KK04-04-054-004a
दक्षिणं पक्षमादाय कुरवो यान्त्युदङ्मुखाः ॥ KK04-04-054-004c
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् । KK04-04-054-005a
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥ KK04-04-054-005c
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय । KK04-04-054-006a
यावदेते निवर्तन्ते कुरवो जवमास्थिताः । KK04-04-054-006c
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥ KK04-04-054-006e
वैशम्पायन उवाच KK04-04-054-007
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः । KK04-04-054-007a
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥ KK04-04-054-007c
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् । KK04-04-054-008a
द्वाभ्यां द्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥ KK04-04-054-008c
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् । KK04-04-054-009a
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ॥ KK04-04-054-009c
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् । KK04-04-054-010a
न कश्चिद्योद्धुमिच्छेत न च गुप्तं स्वजीवितम् । KK04-04-054-010c
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥ KK04-04-054-010e
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते । KK04-04-054-011a
मेघः सविद्युत्स्तनितो रोरवीति च वानरः ॥ KK04-04-054-011c
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥ KK04-04-054-012ac
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् । KK04-04-054-013a
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥ KK04-04-054-013c
दारयन्निव तेजस्वी वसुधां वासवात्मजः । KK04-04-054-014a
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः । KK04-04-054-014c
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥ KK04-04-054-014e
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ । KK04-04-054-015a
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥ KK04-04-054-015c
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः । KK04-04-054-016a
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥ KK04-04-054-016c
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । KK04-04-054-017a
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥ KK04-04-054-017c
निरुष्य च वने वासं कृत्वा कर्म सुदुष्करम् । KK04-04-054-018a
अभिवादयते पार्थः पूजयन्मामरिन्दमः ॥ KK04-04-054-018c
अमर्षेण हि सम्पूर्णो दुःखेन प्रतिबोधितः । KK04-04-054-019a
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥ KK04-04-054-019c
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च । KK04-04-054-020a
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥ KK04-04-054-020c
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी । KK04-04-054-021a
खड्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ॥ KK04-04-054-021c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥