अध्यायः 053

इन्द्रेण सुदर्शननामनि कामगामिनि प्रासादे देवगणसमारोपणपूर्वकमर्जुनकुरुरणावलोकनाय गगनाङ्कणावतरणम् ॥ 1 ॥ वैशम्पायन उवाच KK04-04-053-001
ततः सुदर्शनं नाम प्रासादं हरिवाहनः । KK04-04-053-001a
सर्वान्देवान्समारोप्य प्रययौ यत्र पाण्डवः ॥ KK04-04-053-001c
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् । KK04-04-053-002a
तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा ॥ KK04-04-053-002c
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः । KK04-04-053-003a
तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च ॥ KK04-04-053-003c
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत । KK04-04-053-004a
मणिरत्नविचित्राणि नानारूपाणि भागशः । KK04-04-053-004c
आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च ॥ KK04-04-053-004e
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च । KK04-04-053-005a
तथा धातुर्विधातुश्च मित्रस्य धनदस्य च । KK04-04-053-005c
रुद्रस्य विष्णोः सवितुस्त्रिदशानां तथैव च ॥ KK04-04-053-005e
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः । KK04-04-053-006a
दिव्यपुष्पाभिसंवीतास्तत्र चित्राणि भेजिरे ॥ KK04-04-053-006c
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते । KK04-04-053-007a
दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे ॥ KK04-04-053-007c
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः । KK04-04-053-008a
ऋतवः पुष्पमादाय समतिष्ठन्त भारत ॥ KK04-04-053-008c
प्रजानां पतयः सप्त सप्त चैव महर्षयः । KK04-04-053-009a
तत्र देवर्षयश्चैव देवराजं दिवौकसः । KK04-04-053-009c
इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः ॥ KK04-04-053-009e
न पङ्को न रजस्तत्र प्रविवेश कथञ्चन । KK04-04-053-010a
आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत् ॥ KK04-04-053-010c
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति । KK04-04-053-011a
आकाशं च दिशः सर्वा दर्शनीयमदृश्यत ॥ KK04-04-053-011c
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् । KK04-04-053-012a
अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम् ॥ KK04-04-053-012c
तत्र राजर्षयश्चैव समारुह्य दिवौकसः । KK04-04-053-013a
श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः ॥ KK04-04-053-013c
नृगो ययातिर्नहुषो मान्धाता भरतः कुरुः । KK04-04-053-014a
अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः ॥ KK04-04-053-014c
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा । KK04-04-053-015a
दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा ॥ KK04-04-053-015c
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा । KK04-04-053-016a
भगीरथश्च राजर्षिः सर्वे च जनमेजय ॥ KK04-04-053-016c
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः । KK04-04-053-017a
छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः ॥ KK04-04-053-017c
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः । KK04-04-053-018a
कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः ॥ KK04-04-053-018c
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः । KK04-04-053-019a
दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा ॥ KK04-04-053-019c
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः । KK04-04-053-020a
आसंस्तत्र समारूढाः सङ्ग्रामं तं दिदृक्षवः ॥ KK04-04-053-020c
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः । KK04-04-053-021a
एकस्य च बहूनां च युद्धं द्रष्टुं व्यवस्थिताः ॥ KK04-04-053-021c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥