अध्यायः 052

भीष्मेण दुर्योधनम् प्रति हेतूपन्यासपूर्वकं युधिष्ठिरम् प्रति श्रुतवनवासादिकालस्य परिसमाप्तिकथनम् ॥ 1 ॥ भीष्मेणार्जुनपराक्रमप्रशंसनपूर्वकम् पाण्डवैः सह सन्धिविधानेपि दुर्योधनेन तत्प्रतिषेधनम् ॥ 2 ॥ भीष्मेण द्रोणवचनाद्गोभिः सह दुर्योधनस्य प्रस्थापनपूर्वकं सेनाया व्यूहीकरणेन समराभियानम् ॥ 3 ॥ भीष्म उवाच KK04-04-052-001
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च । KK04-04-052-001a
अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥ KK04-04-052-001c
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि । KK04-04-052-002a
एवं कालविभागेन कालचक्रं प्रवर्तते ॥ KK04-04-052-002c
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् । KK04-04-052-003a
पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ ॥ KK04-04-052-003c
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः । KK04-04-052-004a
त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥ KK04-04-052-004c
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः ॥ KK04-04-052-005ac
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् । KK04-04-052-006a
एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥ KK04-04-052-006c
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः । KK04-04-052-007a
येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥ KK04-04-052-007c
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि । KK04-04-052-008a
स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः ॥ KK04-04-052-008c
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् । KK04-04-052-009a
न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः ॥ KK04-04-052-009c
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः । KK04-04-052-010a
धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥ KK04-04-052-010c
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् । KK04-04-052-011a
वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन ॥ KK04-04-052-011c
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः । KK04-04-052-012a
अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः ॥ KK04-04-052-012c
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम् ॥ KK04-04-052-013ac
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् । KK04-04-052-014a
तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम् ॥ KK04-04-052-014c
न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव । KK04-04-052-015a
एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥ KK04-04-052-015c
सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ । KK04-04-052-016a
अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥ KK04-04-052-016c
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् । KK04-04-052-017a
क्रियतामाशु राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥ KK04-04-052-017c
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः । KK04-04-052-018a
भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे । KK04-04-052-018c
तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे ॥ KK04-04-052-018e
दुर्योधन उवाच KK04-04-052-019
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह । KK04-04-052-019a
ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो । KK04-04-052-019c
युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम् ॥ KK04-04-052-019e
वैशम्पायन उवाच KK04-04-052-020
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च । KK04-04-052-020a
प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्चाह द्विजोत्तमः ॥ KK04-04-052-020c
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम् । KK04-04-052-021a
कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि ॥ KK04-04-052-021c
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते । KK04-04-052-022a
सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन ॥ KK04-04-052-022c
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु । KK04-04-052-023a
ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु । KK04-04-052-023c
वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम् ॥ KK04-04-052-023e
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा । KK04-04-052-024a
प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम् ॥ KK04-04-052-024c
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति । KK04-04-052-025a
मत्स्यं वा पुनरायातमथवापि शतक्रतुम् । KK04-04-052-025c
अहमावारयिष्यामि वेलेव मकरालयम् ॥ KK04-04-052-025e
वैशम्पायन उवाच KK04-04-052-026
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना । KK04-04-052-026a
तथाहि कृतवान्राजा कौरवाणामनन्तरम् ॥ KK04-04-052-026c
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् । KK04-04-052-027a
सेनामुख्यान्व्यवस्थाप्य व्यूहितुं सम्प्रचक्रमे ॥ KK04-04-052-027c
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान् । KK04-04-052-028a
आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः । KK04-04-052-028c
कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥ KK04-04-052-028e
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः । KK04-04-052-029a
शकुनिः सौबलश्चैव दुःसहश्च महाबलः । KK04-04-052-029c
द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः ॥ KK04-04-052-029e
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः । KK04-04-052-030a
अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥ KK04-04-052-030c
सर्वे महारथाः शूरा महेष्वासा महाबलाः । KK04-04-052-031a
युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि ॥ KK04-04-052-031c
वैशम्पायन उवाच KK04-04-052-032
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः । KK04-04-052-032a
वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम् ॥ KK04-04-052-032c
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः । KK04-04-052-033a
सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत ॥ ॥ KK04-04-052-033c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥

4-52-18 तस्माद्यद्धोचितं कर्मेति ध. पाठः ॥ 18 ॥ 4-52-32 पद्मगर्भमिति थ. पाठः ॥ 32 ॥ ॥ द्विपञ्चाशोऽध्यायः ॥ 52 ॥