अध्यायः 051
कर्णकृतद्रोणकृपाधिक्षेपसङ्क्रुद्धमश्वत्थामानम् प्रति भीष्मेण द्रोणादिप्रशंसनपूर्वकम् परिसान्त्वनम् ॥ 1 ॥ दुर्योधनेन भीष्मकर्णाभ्यां सह कृपद्रोणक्षमापनम् ॥ 2 ॥
वैशम्पायन उवाच KK04-04-051-001
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् । KK04-04-051-001a
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ KK04-04-051-001c
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति । KK04-04-051-002a
आचार्यपुत्रः सहजं निश्चितं साधु भाषते ॥ KK04-04-051-002c
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति । KK04-04-051-003a
आचार्यो नावमन्तव्यः पुरुषेण विजानता । KK04-04-051-003c
देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ॥ KK04-04-051-003e
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः । KK04-04-051-004a
कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ KK04-04-051-004c
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः । KK04-04-051-005a
तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः ॥ KK04-04-051-005c
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् । KK04-04-051-006a
नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः ॥ KK04-04-051-006c
वैशम्पायन उवाच KK04-04-051-007
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह । KK04-04-051-007a
प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः ॥ KK04-04-051-007c
कर्णो हि यदवोचत्त्वां तेजस्सञ्जननाय तत् । KK04-04-051-008a
आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ KK04-04-051-008c
नायं कालो विरोधस्य कौन्तेये समुपस्थिते । KK04-04-051-009a
क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ KK04-04-051-009c
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा । KK04-04-051-010a
यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते । KK04-04-051-010c
एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ KK04-04-051-010e
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते । KK04-04-051-011a
नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम । KK04-04-051-011c
अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः ॥ KK04-04-051-011e
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् । KK04-04-051-012a
जामदग्न्यमृते राजन्को द्रोणादधिको भवेत् ॥ KK04-04-051-012c
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ KK04-04-051-013ac
आचार्यपुत्रः क्षमतां नायं कालो विभेदने । KK04-04-051-014a
सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम् ॥ KK04-04-051-014c
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः । KK04-04-051-015a
मुख्यो भेदो हि तेषां तु पापिष्ठो विदुषां मतः ॥ KK04-04-051-015c
अश्वत्थामोवाच KK04-04-051-016
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ । KK04-04-051-016a
किन्तु रोषपरीतेन गुरुणा भाषिता गुणाः ॥ KK04-04-051-016c
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि । KK04-04-051-017a
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥ KK04-04-051-017c
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् । KK04-04-051-018a
अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम् ॥ KK04-04-051-018c
वैशम्पायन उवाच KK04-04-051-019
ततो दुर्योधनो द्रोणं क्षमयामास भारत । KK04-04-051-019a
सह कर्णेन भीष्मेण कृपं चैव महाबलम् ॥ KK04-04-051-019c
द्रोण उवाच KK04-04-051-020
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् । KK04-04-051-020a
तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ KK04-04-051-020c
यथा दुर्योधनं पार्थो नोपसर्पति सङ्गरे । KK04-04-051-021a
साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ KK04-04-051-021c
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः । KK04-04-051-022a
धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति ॥ KK04-04-051-022c
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथञ्चन । KK04-04-051-023a
न च सेनां पराजय्यात्तथा नीतिर्विधीयताम् ॥ KK04-04-051-023c
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् । KK04-04-051-024a
तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥ ॥ KK04-04-051-024c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
4-51-21 यथा दुर्योधनो राजा न गच्छेत्काञ्चिदापदमिति ट. थ. पाठः । यथा नायशसा युक्तो धार्तराष्ट्रः कथञ्चनेति ध. पाठः ॥ 21 ॥ ॥ एकपञ्चाशोऽध्यायः ॥ 51 ॥