अध्यायः 050
कृपेण स्वगर्हणममृष्यता कर्णेन तदुपालम्भः ॥ 1 ॥ तदसहिष्णुनाऽश्वत्थाम्ना समर्मोद्घाटनं कर्णदुर्योधनोपालम्भः ॥ 2 ॥
वैशम्पायन उवाच KK04-04-050-001
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधाम्पतिः । KK04-04-050-001a
पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम् ॥ KK04-04-050-001c
कर्ण उवाच KK04-04-050-002
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ । KK04-04-050-002a
भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ॥ KK04-04-050-002c
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च । KK04-04-050-003a
अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा ॥ KK04-04-050-003c
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः । KK04-04-050-004a
भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ ॥ KK04-04-050-004c
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च । KK04-04-050-005a
आमन्त्रणानि भुङ्क्ष्वाद्य माऽस्मान्युद्धेन भीषय ॥ KK04-04-050-005c
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् । KK04-04-050-006a
किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे ॥ KK04-04-050-006c
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः । KK04-04-050-007a
कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम् ॥ KK04-04-050-007c
तानहं निहनिष्यामि भवता गम्यतां गृहम् । KK04-04-050-008a
किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम् ॥ KK04-04-050-008c
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् । KK04-04-050-009a
उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च ॥ KK04-04-050-009c
न च तावज्जिता गावो न च सीमान्तरं गताः । KK04-04-050-010a
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ KK04-04-050-010c
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः । KK04-04-050-011a
तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः ॥ KK04-04-050-011c
सङ्ग्रामान्विपुलाञ्जित्वा लब्ध्वा च विपुलं धनम् । KK04-04-050-012a
विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः ॥ KK04-04-050-012c
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः । KK04-04-050-013a
तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ KK04-04-050-013c
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः । KK04-04-050-014a
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ KK04-04-050-014c
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा । KK04-04-050-015a
क्षत्रियो धनमाहृत्य यजेतैव न याजयेत् ॥ KK04-04-050-015c
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत् ॥ KK04-04-050-016ac
शूद्रः शुश्रूषणं कुर्यात्त्रिषु वर्णेषु नित्यशः । KK04-04-050-017a
वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः ॥ KK04-04-050-017c
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् । KK04-04-050-018a
प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि ॥ KK04-04-050-018c
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः । KK04-04-050-019a
केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु ॥ KK04-04-050-019c
वैशम्पायन उवाच KK04-04-050-020
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसदि । KK04-04-050-020a
अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत् ॥ KK04-04-050-020c
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति । KK04-04-050-021a
तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः ॥ KK04-04-050-021c
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः । KK04-04-050-022a
निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ KK04-04-050-022c
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् । KK04-04-050-023a
नकुलं सहदेवं वा धनं येषां त्वया हृतम् ॥ KK04-04-050-023c
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः । KK04-04-050-024a
इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं पुरा ॥ KK04-04-050-024c
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया । KK04-04-050-025a
एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला ॥ KK04-04-050-025c
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा । KK04-04-050-026a
क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत् ॥ KK04-04-050-026c
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे । KK04-04-050-027a
अन्येषामपि सत्वानामपि कीटपिपीलिकैः ॥ KK04-04-050-027c
द्रौपद्याः सम्परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति । KK04-04-050-028a
क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ॥ KK04-04-050-028c
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि । KK04-04-050-029a
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ KK04-04-050-029c
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः । KK04-04-050-030a
भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता ॥ KK04-04-050-030c
यं यमेकोपि सङ्क्रुद्धः सङ्ग्रामे निपतिष्यति । KK04-04-050-031a
वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति ॥ KK04-04-050-031c
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् । KK04-04-050-032a
वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ KK04-04-050-032c
देवं दैवेन युद्ध्येत मानुषेण च मानुषम् । KK04-04-050-033a
अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान् ॥ KK04-04-050-033c
पुत्रादनवमः शिष्य इति धर्मविदो विदुः । KK04-04-050-034a
एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ KK04-04-050-034c
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः । KK04-04-050-035a
यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ॥ KK04-04-050-035c
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः । KK04-04-050-036a
दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह ॥ KK04-04-050-036c
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च । KK04-04-050-037a
ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवम् ॥ KK04-04-050-037c
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः । KK04-04-050-038a
नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः ॥ KK04-04-050-038c
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः । KK04-04-050-039a
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ॥ KK04-04-050-039c
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः । KK04-04-050-040a
तथा युद्धस्व सङ्ग्रामे सौबलेन सुरक्षितः ॥ KK04-04-050-040c
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् । KK04-04-050-041a
मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवाम्पदम् ॥ ॥ KK04-04-050-041c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
4-50-14 यदुक्तं ब्राह्मणानां भोजनादावेव कौशलं न युद्ध इति तत्र तवापि वैश्यत्वान्न युद्धे सामर्थ्यमस्तीति दर्शयिष्यन्वर्णानां कर्माणि विभजते चातुर्वर्ण्यस्येत्यादिना ॥ 14 ॥ 4-50-22 वैतंसिको व्याधः ॥ 22 ॥ 4-50-26 अनृतं द्यूतं कुर्वता धार्तराष्ट्रेण धर्मस्य मूलं कृत्तं छिन्नम् । तत्र तदा विदुरः किमब्रवीत् क्षयमूलं द्यूतमिति तत्स्मरेति शेषः ॥ 26 ॥ 4-50-37 चकारात् त्रेतापि समुच्चीयते । कृतादयो द्यूतशास्त्रप्रसिद्धाः पाशकाः ॥ 37 ॥ ॥ पञ्चाशोऽध्यायः ॥ 50 ॥