अध्यायः 049
कृपेणार्जुनचरित्रप्रशंसनपूर्वकं कर्णगर्हणम् ॥ 1 ॥ तथा स्वेषु एकैकेनार्जुनस्य दुर्जयत्वकथनपूर्वकं सम्भूयाभियाननिर्धारणम् ॥ 2 ॥
वैशम्पायन उवाच KK04-04-049-001
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः । KK04-04-049-001a
आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत् ॥ KK04-04-049-001c
सदैव तव राधेय युद्धे क्रूरतरा मतिः । KK04-04-049-002a
नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे ॥ KK04-04-049-002c
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः । KK04-04-049-003a
तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः ॥ KK04-04-049-003c
देशकालेन संयुक्तं युद्धं विजयदं भवेत् । KK04-04-049-004a
हीनकालं तदेवेह अनर्थायोपकल्पते ॥ KK04-04-049-004c
देशे काले च विक्रान्तं कल्याणाय विधीयते । KK04-04-049-005a
आनुकूल्येन कार्याणामुत्तरं तु विधीयते ॥ KK04-04-049-005c
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः । KK04-04-049-006a
परिचिन्त्य तु पार्थेन सन्निपातो न नः क्षमः ॥ KK04-04-049-006c
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् । KK04-04-049-007a
एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ KK04-04-049-007c
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् । KK04-04-049-008a
एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ॥ KK04-04-049-008c
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् । KK04-04-049-009a
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत ॥ KK04-04-049-009c
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः । KK04-04-049-010a
एको गन्धर्वराजानं चित्रसेनमरिन्दमः । KK04-04-049-010c
विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥ KK04-04-049-010e
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे । KK04-04-049-011a
आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा ॥ KK04-04-049-011c
तथा निवातकवचाः कालकेयाश्च दानवाः । KK04-04-049-012a
दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ KK04-04-049-012c
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा । KK04-04-049-013a
एकैकेन यथा तेषां भूमिपाला वशे कृताः ॥ KK04-04-049-013c
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति । KK04-04-049-014a
यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ KK04-04-049-014c
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् । KK04-04-049-015a
अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ KK04-04-049-015c
अथवा कुञ्जरं मत्तमेकमेकचरं वने । KK04-04-049-016a
निरङ्कुशं समारुह्य नगरं यातुमिच्छसि ॥ KK04-04-049-016c
समिद्धं पावकं चापि घृतमेदोवसाहुतम् । KK04-04-049-017a
घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि ॥ KK04-04-049-017c
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् । KK04-04-049-018a
समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम् ॥ KK04-04-049-018c
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः । KK04-04-049-019a
तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ KK04-04-049-019c
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश । KK04-04-049-020a
सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ KK04-04-049-020c
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् । KK04-04-049-021a
अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ KK04-04-049-021c
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् । KK04-04-049-022a
सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम् ॥ KK04-04-049-022c
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः । KK04-04-049-023a
युद्धायावस्थितं पार्थमागतं पाकशासनिम् ॥ KK04-04-049-023c
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः । KK04-04-049-024a
षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः ॥ KK04-04-049-024c
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् । KK04-04-049-025a
सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ KK04-04-049-025c
न ह्यसङ्गत्य समरे पार्थं जेष्यामहे वयम् । KK04-04-049-026a
सङ्गत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ॥ ॥ KK04-04-049-026c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
4-49-6 भारं हीति । यथा रथकारेण दिव्योऽयं मया निर्मितो रथः सुदृढाङ्गः अनेन त्वं देवानपि सर्वथा जेष्यसीत्युक्ते तद्वचसि भारं दत्त्वा देशकालानुकूल्यमनपेक्ष्यैव न व्यवस्यन्ति । योद्धुमेति शेषः । एवं त्वद्वचसि भारं दत्त्वा देशाद्यानुकूल्यमनवेक्ष्य कथमस्माभिर्योद्धव्यम् । तवतु वचनं रथकारवचनवदर्शशून्यमिति भावः ॥ 6 ॥ 4-49-10 एकः संयमिनीं जित्वा इति धo पाठः ॥ 10 ॥ ॥ एकोनपञ्चाशोऽध्यायः ॥ 49 ॥