अध्यायः 048

कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ॥ 1 ॥ कर्ण उवाच KK04-04-048-001
सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये । KK04-04-048-001a
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ KK04-04-048-001c
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरन्दरः । KK04-04-048-002a
वासुदेवेन सहितो यदि बीभत्सुरागतः । KK04-04-048-002c
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥ KK04-04-048-002e
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया । KK04-04-048-003a
छादयन्तु शराः सूर्यं पार्थस्यायुर्निरोधकाः ॥ KK04-04-048-003c
मम चापप्रमुक्तानां शराणां नतपर्वणाम् । KK04-04-048-004a
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥ KK04-04-048-004c
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् । KK04-04-048-005a
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥ KK04-04-048-005c
एकैकं चतुरः पञ्च क्वचित्षष्टिं क्वचिच्छतम् । KK04-04-048-006a
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥ KK04-04-048-006c
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः । KK04-04-048-007a
खद्योतैरिव सम्पृक्तमन्तरिक्षं विराजताम् ॥ KK04-04-048-007c
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया । KK04-04-048-008a
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ KK04-04-048-008c
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् । KK04-04-048-009a
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ KK04-04-048-009c
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् । KK04-04-048-010a
स्थितं सङ्ग्रामशिरसि पार्थमेकाकिनं किमु ॥ KK04-04-048-010c
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च । KK04-04-048-011a
जातस्नेहश्च युद्धस्य मयि सन्दर्शयिष्यति ॥ KK04-04-048-011c
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव । KK04-04-048-012a
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥ KK04-04-048-012c
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः । KK04-04-048-013a
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥ KK04-04-048-013c
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम् । KK04-04-048-014a
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥ KK04-04-048-014c
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् । KK04-04-048-015a
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥ KK04-04-048-015c
अन्तरा सम्पतद्भिस्तु गृध्रपत्रैः शिलाशितैः । KK04-04-048-016a
शलभानामिवाकाशे छाया सम्प्रति दृश्यताम् ॥ KK04-04-048-016c
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः । KK04-04-048-017a
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥ KK04-04-048-017c
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव । KK04-04-048-018a
पततां पततां घोषः पततां पततामिव ॥ KK04-04-048-018c
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् । KK04-04-048-019a
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥ KK04-04-048-019c
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम् । KK04-04-048-020a
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ KK04-04-048-020c
शरजालमहाज्वालमसिशक्तिगदेन्धनम् । KK04-04-048-021a
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥ KK04-04-048-021c
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् । KK04-04-048-022a
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥ KK04-04-048-022c
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः । KK04-04-048-023a
सम्मूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥ KK04-04-048-023c
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् । KK04-04-048-024a
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥ KK04-04-048-024c
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः । KK04-04-048-025a
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् । KK04-04-048-025c
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ KK04-04-048-025e
जामदग्न्यान्मया लब्धं दिव्यास्त्रमृषिसत्तमात् । KK04-04-048-026a
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ KK04-04-048-026c
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया । KK04-04-048-027a
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ KK04-04-048-027c
कामं गच्छन्तु कुरवो गाः प्रगृह्य परन्तपाः । KK04-04-048-028a
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ॥ KK04-04-048-028c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

4-48-18 बर्हिणां बर्हिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानाम् । राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः । पततां पतताम् एकैकस्य शरस्य पृष्ठे पृष्ठे निपतता शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण सम्बन्धः । यद्वा बर्हिणां बर्हवताम् उत्पन्नबर्हाणामित्यर्थः । बर्हिणां मयूराणामिव पततां पततां पुङ्खानुपुङ्खतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया । सर्वैः श्रूयतामिति भावः । बर्हिबर्हिणवाजानामिति ट. थ. ध. पाठः ॥ 18 ॥ ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥