अध्यायः 047
द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णीम्भूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-047-001
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत् । KK04-04-047-001a
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥ KK04-04-047-001c
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत् । KK04-04-047-002a
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥ KK04-04-047-002c
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् । KK04-04-047-003a
वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ KK04-04-047-003c
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः । KK04-04-047-004a
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः ॥ KK04-04-047-004c
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः । KK04-04-047-005a
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ KK04-04-047-005c
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् । KK04-04-047-006a
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥ KK04-04-047-006c
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः । KK04-04-047-007a
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ KK04-04-047-007c
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् । KK04-04-047-008a
यदि बीभत्सुरायातः किन्तु कृत्यमतः परम् ॥ KK04-04-047-008c
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् । KK04-04-047-009a
विप्रकारैर्हि मात्स्येन सुशर्मा बाधितः पुरा ॥ KK04-04-047-009c
तेषां भयाभिपन्नानां त्रस्तानां त्राणमिच्छताम् । KK04-04-047-010a
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥ KK04-04-047-010c
प्रथमं तैर्ग्रहीतव्यं मात्स्यानां गोधनं महत् । KK04-04-047-011a
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥ KK04-04-047-011c
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति । KK04-04-047-012a
इमा गावो ग्रहीतव्या याते मत्स्ये गवाम्पदम् ॥ KK04-04-047-012c
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये । KK04-04-047-013a
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥ KK04-04-047-013c
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः । KK04-04-047-014a
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन सङ्गतिम् ॥ KK04-04-047-014c
अथवा तानुपादाय मात्स्यो जानपदैः सह । KK04-04-047-015a
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥ KK04-04-047-015c
तेषामेको महावीर्यः कश्चिदेव पुरःसरः । KK04-04-047-016a
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥ KK04-04-047-016c
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः । KK04-04-047-017a
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ KK04-04-047-017c
अथ कस्मात्स्थिता ह्येते रथेषु रथिसत्तमाः । KK04-04-047-018a
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च । KK04-04-047-018c
सम्भ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥ KK04-04-047-018e
नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् । KK04-04-047-019a
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥ KK04-04-047-019c
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा । KK04-04-047-020a
यमेन वाऽपि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ॥ KK04-04-047-020c
शरैरभिप्रणुन्नानां भग्नानां गहने वने । KK04-04-047-021a
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ KK04-04-047-021c
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् । KK04-04-047-022a
जानामि च मतं तेषामतस्त्रासयतीव नः ॥ KK04-04-047-022c
अर्जुने चापि सम्प्रीतिमधिकामुपलक्षये । KK04-04-047-023a
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति । KK04-04-047-023c
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ KK04-04-047-023e
अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता । KK04-04-047-024a
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ KK04-04-047-024c
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे । KK04-04-047-025a
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ KK04-04-047-025c
सदा च वायवो वान्ति नित्यं वर्षति वासवः । KK04-04-047-026a
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ KK04-04-047-026c
भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान् । KK04-04-047-027a
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥ KK04-04-047-027c
यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः । KK04-04-047-028a
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥ KK04-04-047-028c
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते । KK04-04-047-029a
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥ KK04-04-047-029c
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः । KK04-04-047-030a
नैते महाहवे घोरे सम्प्रष्टव्याः कथञ्चन ॥ KK04-04-047-030c
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च । KK04-04-047-031a
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥ KK04-04-047-031c
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि । KK04-04-047-032a
इष्वस्त्रे चापसन्धाने पण्डितास्तत्र शोभनाः ॥ KK04-04-047-032c
परेषां विवरज्ञाने मनुष्याचरितेषु च । KK04-04-047-033a
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ KK04-04-047-033c
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः । KK04-04-047-034a
विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ KK04-04-047-034c
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् । KK04-04-047-035a
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥ ॥ KK04-04-047-035c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
4-47-11 सप्तम्याश्चापराह्णे त्विति नवम्याम् पुनरस्माभिरिति च थ. पाठः ॥ ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥