अध्यायः 046
द्रोणेनार्जुनशङ्खनादादिना तस्यार्जुनत्वनिर्धारणेन दुर्योधनम् प्रति तन्निवेदनपूर्वकं दुर्निमित्तप्रदर्शनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-046-001
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः । KK04-04-046-001a
राजानं चाह सम्प्रेक्ष्य दुर्योधनमरिन्दमः ॥ KK04-04-046-001c
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते । KK04-04-046-002a
कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः ॥ KK04-04-046-002c
औत्पातिकमिदं राजन्निमित्तं भवतीह नः । KK04-04-046-003a
न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप ॥ KK04-04-046-003c
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः । KK04-04-046-004a
अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः ॥ KK04-04-046-004c
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च । KK04-04-046-005a
शकुनाश्चापसव्याश्च वेदयन्ति महाभयम् ॥ KK04-04-046-005c
गोमायुरेष सैन्यानां रुदन्मध्येन धावति । KK04-04-046-006a
चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम् ॥ KK04-04-046-006c
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये ॥ KK04-04-046-007ac
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः । KK04-04-046-008a
विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । KK04-04-046-008c
सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः ॥ KK04-04-046-008e
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः । KK04-04-046-009a
न च सूर्यः प्रतपति महद्वेदयते भयम् ॥ KK04-04-046-009c
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः । KK04-04-046-010a
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति ॥ KK04-04-046-010c
विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः । KK04-04-046-011a
दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः ॥ KK04-04-046-011c
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः । KK04-04-046-012a
वादित्रोद्घुष्टघोषाश्च न च गाढं स्वनन्ति च । KK04-04-046-012c
ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम् ॥ KK04-04-046-012e
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः । KK04-04-046-013a
श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात् ॥ KK04-04-046-013c
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् । KK04-04-046-014a
वानरस्य रथे दिव्यो निस्वनः श्रूयते महान् ॥ KK04-04-046-014c
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ । KK04-04-046-015a
सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात् ॥ KK04-04-046-015c
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम् । KK04-04-046-016a
गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः । KK04-04-046-016c
प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि ॥ KK04-04-046-016e
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः । KK04-04-046-017a
मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति ॥ KK04-04-046-017c
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि । KK04-04-046-018a
दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुनम् ॥ ॥ KK04-04-046-018c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥