अध्यायः 045
अर्जुनेन युद्धप्रस्थानसमये उत्तररथात्सिंहध्वजस्यावरोपणपूर्वकं स्वध्यानसन्निहितस्य हनुमद्ध्वजस्य रथे स्थापनम् ॥ 1 ॥ तथा स्वशङ्खादिशब्दश्रवणवित्रस्तस्योत्तरस्य समाश्वासनपूर्वकं रणायाभियानम् ॥ 2 ॥
वैशम्पायन उवाच KK04-04-045-001
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् । KK04-04-045-001a
आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥ KK04-04-045-001c
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च । KK04-04-045-002a
प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे ॥ KK04-04-045-002c
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् । KK04-04-045-003a
दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा । KK04-04-045-003c
मनसा चिन्तयामास प्रसादं पावकस्य च ॥ KK04-04-045-003e
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत् । KK04-04-045-004a
रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः ॥ KK04-04-045-004c
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम् । KK04-04-045-005a
खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम् ॥ KK04-04-045-005c
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः । KK04-04-045-006a
बद्धासिः सतलत्राणः प्रगृहीतशरासनः । KK04-04-045-006c
ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ KK04-04-045-006e
सैन्याभ्याशं स सम्प्राप्य गृहीत्वा शङ्खमुत्तमम् । KK04-04-045-007a
स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः । KK04-04-045-007c
शशाङ्करूपं बीभत्सुः प्राध्मापयदरिन्दमः ॥ KK04-04-045-007e
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः । KK04-04-045-008a
उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम् ॥ KK04-04-045-008c
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम् । KK04-04-045-009a
अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम् ॥ KK04-04-045-009c
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव । KK04-04-045-010a
मरुद्भिर्दशभिश्चैव प्राध्मापयदरिन्दमः ] ॥ KK04-04-045-010c
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत् ॥ KK04-04-045-011ac
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । KK04-04-045-012a
वानरस्य निनादेन रथनेमिस्वनेन च । KK04-04-045-012c
जङ्गमस्य भयं घोरमकरोत्पाकशासनिः ॥ KK04-04-045-012e
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ । KK04-04-045-013a
उत्तरश्चापि सन्त्रस्थो रथोपस्थ उपाविशत् ॥ KK04-04-045-013c
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परन्तपः । KK04-04-045-014a
अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे ॥ KK04-04-045-014c
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् । KK04-04-045-015a
उत्तरं सम्परिष्वज्य समाश्वासयदर्जुनः ॥ KK04-04-045-015c
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप । KK04-04-045-016a
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ KK04-04-045-016c
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः । KK04-04-045-017a
कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः ॥ KK04-04-045-017c
स त्वं कथमिवानेन शङ्खशब्देन भीषितः । KK04-04-045-018a
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ KK04-04-045-018c
उत्तर उवाच KK04-04-045-019
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः । KK04-04-045-019a
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः ॥ KK04-04-045-019c
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः । KK04-04-045-020a
ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् । KK04-04-045-020c
धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित् ॥ KK04-04-045-020e
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च । KK04-04-045-021a
अमानुषाणां शब्देन भूतानां निस्वनेन च । KK04-04-045-021c
रथनेमिप्रणादेन मनो मे मुह्यते भृशम् ॥ KK04-04-045-021e
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च । KK04-04-045-022a
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे । KK04-04-045-022c
गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ KK04-04-045-022e
वैशम्पायन उवाच KK04-04-045-023
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः । KK04-04-045-023a
स मूढचेता वैराटिरर्जुनं समुदैक्षत ॥ KK04-04-045-023c
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत् ॥ KK04-04-045-024ac
स्थिरो भव महाबाहो सञ्ज्ञां चात्मानमानय । KK04-04-045-025a
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च । KK04-04-045-025c
दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ KK04-04-045-025e
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः । KK04-04-045-026a
ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान् । KK04-04-045-026c
गुहा गिरीणां च तदा दिशः शैलांस्तथैव च ॥ KK04-04-045-026e
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत् । KK04-04-045-027a
उत्तरश्चापि संलीनो रथोपस्थ उपाविशत् । KK04-04-045-027c
तं समाश्वासयामास पुनरेव धनञ्जयः ॥ KK04-04-045-027e
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च । KK04-04-045-028a
गाण्डीवस्य च शब्देन पृथिवी समकम्पत ॥ ॥ KK04-04-045-028c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥ KK04-04-3 इमे कुण्डलिताः । श्लोकाः ध. पुस्तक एव वर्तन्ते ॥