अध्यायः 044

उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन तम् प्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् ॥ 1 ॥ अर्जुनेनोत्तरम् प्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् ॥ 2 ॥ तथोत्तरस्य सारथीकरणपूर्वकं रथारोहणेन रणायाभियानम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-044-001
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् । KK04-04-044-001a
अहं भूमिञ्जयो नाम प्रणतोस्मि धनञ्जय ॥ KK04-04-044-001c
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय । KK04-04-044-002a
लोहिताक्ष महाबाहो नागराजवरोपम ॥ KK04-04-044-002c
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम । KK04-04-044-003a
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ॥ KK04-04-044-003c
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् । KK04-04-044-004a
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ॥ KK04-04-044-004c
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ॥ KK04-04-044-005ac
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् । KK04-04-044-006a
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ॥ KK04-04-044-006c
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे । KK04-04-044-007a
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ॥ KK04-04-044-007c
प्रतिज्ञा मम सम्पूर्णा तव सारथ्यकारणात् । KK04-04-044-008a
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ॥ KK04-04-044-008c
आस्थाय विपुलं वीर रथं सारथिना मया । KK04-04-044-009a
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ॥ KK04-04-044-009c
अर्जुन उवाच KK04-04-044-010
प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव । KK04-04-044-010a
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ KK04-04-044-010c
स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह । KK04-04-044-011a
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ॥ KK04-04-044-011c
गाण्डीवं देवदत्तं च शरान्कनकभूषणान् । KK04-04-044-012a
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे । KK04-04-044-012c
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥ KK04-04-044-012e
अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् । KK04-04-044-013a
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ॥ KK04-04-044-013c
सङ्कल्पागाधपरिधं बाहुप्राकारतोरणम् । KK04-04-044-014a
त्रिदण्डतूणसम्बाधं नैकध्वजसमाकुलम् ॥ KK04-04-044-014c
ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः । KK04-04-044-015a
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् । KK04-04-044-015c
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ KK04-04-044-015e
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना । KK04-04-044-016a
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥ KK04-04-044-016c
उत्तर उवाच KK04-04-044-017
बहुना किं प्रलापेन शृणु मे परमं वचः । KK04-04-044-017a
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ॥ KK04-04-044-017c
यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि । KK04-04-044-018a
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि । KK04-04-044-018c
केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ॥ KK04-04-044-018e
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् । KK04-04-044-019a
निश्चयं नाधिगच्छामि नावगच्छामि किञ्चन ॥ KK04-04-044-019c
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च । KK04-04-044-020a
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ॥ KK04-04-044-020c
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् । KK04-04-044-021a
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥ KK04-04-044-021c
अर्जुन उवाच KK04-04-044-022
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् । KK04-04-044-022a
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ KK04-04-044-022c
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः । KK04-04-044-023a
उर्वशीशापसम्भूतं क्लैब्यं समुपसंस्थितम् ॥ KK04-04-044-023c
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् । KK04-04-044-024a
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ॥ KK04-04-044-024c
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ । KK04-04-044-025a
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे ॥ KK04-04-044-025c
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया । KK04-04-044-026a
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ॥ KK04-04-044-026c
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै । KK04-04-044-027a
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ॥ KK04-04-044-027c
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा । KK04-04-044-028a
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ॥ KK04-04-044-028c
तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ । KK04-04-044-029a
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥ KK04-04-044-029c
उत्तर उवाच KK04-04-044-030
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा । KK04-04-044-030a
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ॥ KK04-04-044-030c
सहायवानस्मि रणे युद्ध्येयममरैरपि । KK04-04-044-031a
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥ KK04-04-044-031c
अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुनिर्बहण । KK04-04-044-032a
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ॥ KK04-04-044-032c
दारुको वासुदेवस्य यथा शक्रस्य मातलिः । KK04-04-044-033a
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥ KK04-04-044-033c
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः । KK04-04-044-034a
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ॥ KK04-04-044-034c
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदम्पदम् । KK04-04-044-035a
दक्षिणां यो धुरं वोढा सुग्रीवेण समो हयः ॥ KK04-04-044-035c
योऽयं हयो धुर्यवरो वामां वहति शोभनः । KK04-04-044-036a
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ KK04-04-044-036c
योऽयं वहति वै पार्ष्णि दक्षिणामञ्चितोद्यतः । KK04-04-044-037a
बलाहकादभिमतस्तेजसा वीर्यवत्तरः ॥ KK04-04-044-037c
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः । KK04-04-044-038a
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ॥ KK04-04-044-038c
त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् । KK04-04-044-039a
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम । KK04-04-044-039c
सर्वशत्रुभिरायातो देवराज इवासुरैः ॥ KK04-04-044-039e
वैशम्पायन उवाच KK04-04-044-040
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः । KK04-04-044-040a
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ॥ KK04-04-044-040c
ततो विमुच्य बाहुभ्यां शङ्खचूडानि पाण्डवः । KK04-04-044-041a
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ॥ KK04-04-044-041c
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले । KK04-04-044-042a
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ॥ KK04-04-044-042c
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः । KK04-04-044-043a
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥ KK04-04-044-043c
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् । KK04-04-044-044a
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ॥ KK04-04-044-044c
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना । KK04-04-044-045a
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ॥ KK04-04-044-045c
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनोऽभवत् । KK04-04-044-046a
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ KK04-04-044-046c
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः । KK04-04-044-047a
यथा शैलस्य महतः शैलानाक्षिप्य जघ्नुषः ॥ KK04-04-044-047c
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् । KK04-04-044-048a
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ॥ KK04-04-044-048c
तं शब्दं कुरवो राजन्विस्फोटमशनेरिव । KK04-04-044-049a
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ॥ KK04-04-044-049c
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि । KK04-04-044-050a
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ॥ KK04-04-044-050c
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् । KK04-04-044-051a
शत्रून्वीरांश्च सन्तर्ज्य निग्रहस्थो रथे स्थितः ॥ KK04-04-044-051c
उत्तर उवाच KK04-04-044-052
एकस्त्वं पाण्डवश्रेष्ठ बहूनेतान्महारथान् । KK04-04-044-052a
कथं जेष्यसि सङ्ग्रामे सर्वशस्त्रास्त्रपारगान् ॥ KK04-04-044-052c
असहायोऽसि कोन्तेय ससहायाश्च कौरवाः । KK04-04-044-053a
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥ KK04-04-044-053c
वैशम्पायन उवाच KK04-04-044-054
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥ KK04-04-044-054ac
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः । KK04-04-044-055a
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ KK04-04-044-055c
तथा प्रतिभये तस्मिन्देवदानवसङ्कुले । KK04-04-044-056a
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ॥ KK04-04-044-056c
निवातकवचैः सार्धं पौलोमैश्च महाबलैः । KK04-04-044-057a
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ॥ KK04-04-044-057c
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे । KK04-04-044-058a
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥ KK04-04-044-058c
उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् । KK04-04-044-059a
वरुणं पावकं चैव कृपं कृष्णं च माधवम् । KK04-04-044-059c
पिनाकपाणिनं चैव कथमेतान्न योधये ॥ KK04-04-044-059e
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥ ॥ KK04-04-044-060ac

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः ॥ 44 ॥