अध्यायः 043

अर्जुनेनोत्तरम् प्रति स्वस्यार्जुनत्वकथनपूर्वकं कङ्कादीनां युधिष्ठिरादित्वकथनम् ॥ 1 ॥ तत्प्रत्ययार्थं स्वनामदशककथनपूर्वकं तन्निर्वचनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-04-043-001
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत । KK04-04-043-001a
विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम् ॥ KK04-04-043-001c
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् । KK04-04-043-002a
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ KK04-04-043-002c
क्वनु ते पाण्डवाः शूराः सङ्ग्रामेष्वपराजिताः । KK04-04-043-003a
येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च ॥ KK04-04-043-003c
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः । KK04-04-043-004a
क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः ॥ KK04-04-043-004c
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः । KK04-04-043-005a
धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान् ॥ KK04-04-043-005c
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत् । KK04-04-043-006a
सत्यार्जवक्षमाधारो घृणी धर्मपरायणः ॥ KK04-04-043-006c
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम । KK04-04-043-007a
नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे ॥ KK04-04-043-007c
सर्व एव महात्मानः सर्वामित्रविनाशनाः । KK04-04-043-008a
राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः ॥ KK04-04-043-008c
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता । KK04-04-043-009a
जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने ॥ KK04-04-043-009c
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः ॥ KK04-04-043-010ac
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः । KK04-04-043-011a
क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले ॥ KK04-04-043-011c
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम् । KK04-04-043-012a
कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने ॥ KK04-04-043-012c
वैशम्पायन उवाच KK04-04-043-013
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः । KK04-04-043-013a
उवाच राजपुत्रं तमुत्तरं शृणु मे वचः ॥ KK04-04-043-013c
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् । KK04-04-043-014a
नात्र भेतव्यमद्यापि राजपुत्र यथातथा ॥ KK04-04-043-014c
वयं ते पाण्डवा नाम वनवासस्य पारगाः । KK04-04-043-015a
अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः । KK04-04-043-015c
तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर ॥ KK04-04-043-015c
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः । KK04-04-043-016a
भीमसेनस्तु वललः पितुस्ते रसपाचकः । KK04-04-043-016c
अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः ॥ KK04-04-043-016e
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः । KK04-04-043-017a
भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे ॥ KK04-04-043-017c
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः । KK04-04-043-018a
पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह ॥ KK04-04-043-018c
उत्तर उवाच KK04-04-043-019
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च । KK04-04-043-019a
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ KK04-04-043-019c
अर्जुन उवाच KK04-04-043-020
अहं तर्हि तवाचक्षे दश नामानि तानि मे । KK04-04-043-020a
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते । KK04-04-043-020c
ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि ॥ KK04-04-043-020e
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः । KK04-04-043-021a
बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः । KK04-04-043-021c
एतानि मम नामानि स्थापितानि सुरोत्तमैः ॥ KK04-04-043-021c
उत्तर उवाच KK04-04-043-022
गुणतो दश नामानि समवेतानि पाण्डवे । KK04-04-043-022a
चरन्ति लोके ख्यातानि विदितानि ममानघ ॥ KK04-04-043-022c
केनासि विजयो नाम केनासि श्वेतवाहनः । KK04-04-043-023a
सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च ॥ KK04-04-043-023c
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे । KK04-04-043-024a
धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले ॥ KK04-04-043-024c
श्रुता मे तस्य वीरस्य केवला नामहेतवः । KK04-04-043-025a
इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि । KK04-04-043-025c
अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले ॥ KK04-04-043-025e
अर्जुन उवाच KK04-04-043-026
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः । KK04-04-043-026a
मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम् ॥ KK04-04-043-026c
अभिप्रयामि सङ्ग्रामे यदाऽहं युद्धदुर्मदान् । KK04-04-043-027a
अजित्वा न निवर्तेयं तेन वै विजयं विदुः ॥ KK04-04-043-027c
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः । KK04-04-043-028a
शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः ॥ KK04-04-043-028c
किरीटं सूर्यसङ्काशं भ्राजते मे शिरोगतम् । KK04-04-043-029a
रणमध्ये रथस्थस्य सूर्यपावकसन्निभम् ॥ KK04-04-043-029c
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम् । KK04-04-043-030a
इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम् ॥ KK04-04-043-030c
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन । KK04-04-043-031a
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ KK04-04-043-031c
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे । KK04-04-043-032a
भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ । KK04-04-043-032c
तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः ॥ KK04-04-043-032e
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः । KK04-04-043-033a
शुद्धत्वाद्रूपवत्त्वाच्च तेन मामार्जुनं विदुः ॥ KK04-04-043-033c
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा । KK04-04-043-034a
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ KK04-04-043-034c
यो ममाङ्गे व्रणं कुर्याद्भ्रातुर्ज्येष्ठस्य पश्यतः । KK04-04-043-035a
युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन । KK04-04-043-035c
पराभवमहं तस्य कुले कुर्यां न संशयः ॥ KK04-04-043-035e
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः । KK04-04-043-036a
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥ KK04-04-043-036c
माता मम पृथा नाम तेन मां पार्थमब्रुवन् ॥ KK04-04-043-037ac
देवदानवगन्धर्वपिशाचोरगराक्षसान् । KK04-04-043-038a
अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम् ॥ KK04-04-043-038c
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना । KK04-04-043-039a
[ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ ॥ KK04-04-043-039c
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ । KK04-04-043-040a
दृष्ट्वा तौ वरदौ देवौ सञ्ज्ञां लब्ध्वोत्थितः पुनः ॥ KK04-04-043-040c
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ । KK04-04-043-041a
कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा । KK04-04-043-041c
तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ ॥ KK04-04-043-041e
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः । KK04-04-043-042a
वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव ॥ KK04-04-043-042c
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च । KK04-04-043-043a
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् । KK04-04-043-043c
ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम् ॥ KK04-04-043-043e
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान् । KK04-04-043-044a
मातलिं सारथिं कृत्वा निवातकवचान्रणे । KK04-04-043-044c
KK04-04-043-044e अवध्यकवचान्देवैर्वरदृप्तान्महासुरान् ॥
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम् । KK04-04-043-045a
एको निर्जित्य सङ्ग्रामे भूयो देवानतोषयम् ॥ KK04-04-043-045c
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम् । KK04-04-043-046a
देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम् ॥ KK04-04-043-046c
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम् । KK04-04-043-047a
KK04-04-043-047c हत्वा षष्टिं सहस्राणि जयं सम्प्राप्तवान्रणे ॥
असम्भ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च । KK04-04-043-048a
शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः ॥ KK04-04-043-048c
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम् । KK04-04-043-049a
भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम् । KK04-04-043-049c
KK04-04-043-049e चतुर्दश सहस्राणि हत्वा चैनममोचयम् ॥
एतानि मम नामानि योऽहन्यहनि कीर्तयेत् । KK04-04-043-050a
तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः ॥ KK04-04-043-050c
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम् । KK04-04-043-051a
मा भैर्विगतसन्त्रासः कुरूनेतान्समागतान् ॥ KK04-04-043-051c
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च । KK04-04-043-052a
पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम् । KK04-04-043-052c
सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्] ॥ ॥ KK04-04-043-052e

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

4-43-31 बीभत्सुरिति भदि कल्याणे सुखे चेत्यस्य सनि रूपम् ॥ 4-43-32 सव्येन वामेनापि हस्तेन सज्जितुं ज्याकर्षणादिक्रियायां सम्बद्धुं शीलमस्येति सव्यसाची ॥ 4-43-33 अर्जुन इति ऋज गतिस्थानार्जनोपार्जनेष्वित्यत उनन्प्रत्यये भवति । दीप्तिमत्त्वात्समत्वात् शुद्धकर्मकरत्वाच्चार्जुन इत्यर्थः ॥ 4-43-34 उत्तराभ्याम् फल्गुनीभ्यां नक्षत्राभ्यामिति झ. पाठः । नक्षत्राभ्यां ताराभ्यां तत्र स्थिते चन्द्र इत्यर्थः ॥ ॥ त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥