अध्यायः 042
अर्जुनेनोत्तरम् प्रति युधिष्ठिराद्यायुधानाम् पृथक्पृथङ्निर्देशेन तत्तत्स्वामिकत्वकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-042-001
उत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् । KK04-04-042-001a
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥ KK04-04-042-001c
अर्जुन उवाच KK04-04-042-002
यत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् । KK04-04-042-002a
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥ KK04-04-042-002c
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् । KK04-04-042-003a
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥ KK04-04-042-003c
एतच्छतसहस्रेण सम्मितं राष्ट्रवर्धनम् । KK04-04-042-004a
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥ KK04-04-042-004c
येन देवासुरान्पार्थः सर्वान्विषहते रणे । KK04-04-042-005a
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ KK04-04-042-005c
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च । KK04-04-042-006a
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥ KK04-04-042-006c
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् । KK04-04-042-007a
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् । KK04-04-042-007c
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥ KK04-04-042-007e
एवंवीर्यं महावेगमेतच्च धनुरुत्तमम् । KK04-04-042-008a
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥ KK04-04-042-008c
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः । KK04-04-042-009a
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥ KK04-04-042-009c
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश । KK04-04-042-010a
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ KK04-04-042-010c
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः । KK04-04-042-011a
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥ KK04-04-042-011c
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् । KK04-04-042-012a
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥ KK04-04-042-012c
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् । KK04-04-042-013a
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥ KK04-04-042-013c
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः । KK04-04-042-014a
एतेन सदृशं चित्रं धनुरेतद्यवीयसः । KK04-04-042-014c
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥ KK04-04-042-014e
विपाठा भीमसेनस्य गिरीणामपि दारणाः । KK04-04-042-015a
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः । KK04-04-042-015c
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥ KK04-04-042-015e
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः । KK04-04-042-016a
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥ KK04-04-042-016c
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् । KK04-04-042-017a
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥ KK04-04-042-017c
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः । KK04-04-042-018a
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥ KK04-04-042-018c
यस्त्वयं निर्मलः खड्गो द्वीपिचर्मणि दंशितः । KK04-04-042-019a
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः । KK04-04-042-019c
वैयाघ्रकोशो भीमस्य पञ्चशार्दूललक्षणः । KK04-04-042-020a
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥ KK04-04-042-020c
नीलोत्पलसवर्णाभः खड्गः पार्थस्य धीमतः । KK04-04-042-021a
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥ KK04-04-042-021c
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः । KK04-04-042-022a
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥ KK04-04-042-022c
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः । KK04-04-042-023a
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥ KK04-04-042-023c
यस्त्वयं पिङ्गलः खड्गश्चित्रो मणिमयत्सरुः । KK04-04-042-024a
सहदेवस्य खड्गोऽयं भारसाहोऽतिदंशितः । KK04-04-042-024c
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥ KK04-04-042-024e
वैशम्पायन उवाच KK04-04-042-025
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः । KK04-04-042-025a
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥ ॥ KK04-04-042-025c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥