अध्यायः 041
पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनम् प्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनाम् प्रश्नः ॥ 1 ॥
उत्तर उवाच KK04-04-041-001
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः । KK04-04-041-001a
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः । KK04-04-041-001c
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥ KK04-04-041-001e
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः । KK04-04-041-002a
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥ KK04-04-041-002c
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः । KK04-04-041-003a
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥ KK04-04-041-003c
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् । KK04-04-041-004a
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ KK04-04-041-004c
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् KK04-04-041-005a
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥ KK04-04-041-005c
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् । KK04-04-041-006a
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥ KK04-04-041-006c
चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः । KK04-04-041-007a
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः । KK04-04-041-007c
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥ KK04-04-041-007e
चतुर्थं काञ्चनवपुर्भाति विद्युद्गणोपमम् । KK04-04-041-008a
नीलोपलिप्तमच्छिद्रं जातरूपमयं धनुः । KK04-04-041-008c
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥ KK04-04-041-008e
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः । KK04-04-041-009a
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥ KK04-04-041-009c
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश । KK04-04-041-010a
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः । KK04-04-041-010c
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥ KK04-04-041-010e
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः । KK04-04-041-011a
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥ KK04-04-041-011c
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः । KK04-04-041-012a
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥ KK04-04-041-012c
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः । KK04-04-041-013a
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥ KK04-04-041-013c
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः । KK04-04-041-014a
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥ KK04-04-041-014c
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः । KK04-04-041-015a
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥ KK04-04-041-015c
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः । KK04-04-041-016a
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥ KK04-04-041-016c
कस्यायं निर्मलः खड्गो द्वीपिचर्मनिवासितः । KK04-04-041-017a
नीलोत्पलसवर्णोऽयं कस्य खड्गः पृथुर्महान् ॥ KK04-04-041-017c
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः । KK04-04-041-018a
ऋषभाजिनकोशस्तु कस्य खड्गो महानयम् ॥ KK04-04-041-018c
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः । KK04-04-041-019a
कस्यायं विपुलः खड्गः शृङ्गत्सरुमनोहरः ॥ KK04-04-041-019c
निहितः पार्षते कोशे तैलधौतः समाहितः । KK04-04-041-020a
प्रमाणवर्णयुक्तश्च कस्य खड्गो महानयम् । KK04-04-041-020c
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥ KK04-04-041-020e
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले । KK04-04-041-021a
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ॥ KK04-04-041-021c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥