अध्यायः 040
उत्तरेणार्जुनचोदनया शमीमारुह्य धनुरादानम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-040-001
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम् । KK04-04-040-001a
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥ KK04-04-040-001c
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः । KK04-04-040-002a
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ॥ KK04-04-040-002c
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् । KK04-04-040-003a
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ॥ KK04-04-040-003c
खराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः । KK04-04-040-004a
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ॥ KK04-04-040-004c
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः । KK04-04-040-005a
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥ KK04-04-040-005c
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः । KK04-04-040-006a
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥ KK04-04-040-006c
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च । KK04-04-040-007a
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ॥ KK04-04-040-007c
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि । KK04-04-040-008a
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥ KK04-04-040-008c
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः । KK04-04-040-009a
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥ KK04-04-040-009c
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ॥ KK04-04-040-010ac
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः । KK04-04-040-011a
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् ॥ KK04-04-040-011c
वैशम्पायन उवाच KK04-04-040-012
इत्युक्त्वा सञ्ज्ञया द्रोणस्तूष्णीमासीद्विशाम्पते । KK04-04-040-012a
भारद्वाजवचः श्रुत्वा गाङ्गेयः सञ्ज्ञयाऽब्रवीत् ॥ KK04-04-040-012c
अतीतं चक्रमस्माकं विषयान्तरमागताः । KK04-04-040-013a
अतीतः समयश्चोक्त अस्माभिर्यः सभातले । KK04-04-040-013c
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ॥ KK04-04-040-013e
देवव्रतेनैवमुक्ते वचने हितकारिणा । KK04-04-040-014a
दुर्योधनमथालोक्य सञ्ज्ञया द्रोण अब्रवीत् ॥ KK04-04-040-014c
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः । KK04-04-040-015a
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ॥ KK04-04-040-015c
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः । KK04-04-040-016a
ये जेतारो महीपानाममुना कुरवो हताः ॥ KK04-04-040-016c
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत् । KK04-04-040-017a
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ॥ KK04-04-040-017c
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् । KK04-04-040-018a
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ॥ KK04-04-040-018c
खाण्डवे येन सन्तृप्तो वह्निर्जित्वा सुरासुरान् । KK04-04-040-019a
परिणीता सुभद्रा च येन निर्जित्य यादवान् ॥ KK04-04-040-019c
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ॥ KK04-04-040-020ac
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि । KK04-04-040-021a
निवातकवचा राजन्दानवानां त्रिकोटयः । KK04-04-040-021c
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ॥ KK04-04-040-021e
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ॥ KK04-04-040-022ac
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् । KK04-04-040-023a
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ॥ KK04-04-040-023c
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः । KK04-04-040-024a
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् । KK04-04-040-024c
एवमादिगुणोपेतः सोयं पार्थो न संशयः ॥ KK04-04-040-024e
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ॥ KK04-04-040-025ac
क्लेशितश्च वने शूरो वासवेन च शिक्षितः । KK04-04-040-026a
अमर्षवशमापन्नो योत्स्यते नात्र संशयः । KK04-04-040-026c
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ॥ KK04-04-040-026e
महादेवोपि पार्थेन श्रूयते युद्धतोषितः । KK04-04-040-027a
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ॥ KK04-04-040-027c
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ॥ KK04-04-040-028ac
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे । KK04-04-040-029a
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ॥ KK04-04-040-029c
दुर्योधन उवाच KK04-04-040-030
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम । KK04-04-040-030a
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ॥ KK04-04-040-030c
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् । KK04-04-040-031a
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥ KK04-04-040-031c
वैशम्पायन उवाच KK04-04-040-032
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे । KK04-04-040-032a
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥ KK04-04-040-032c
तां शमीमभिसङ्गम्य पार्थो वैराटिमब्रवीत् । KK04-04-040-033a
सुखसंवर्धितं पित्रा समराणामकोविदम् ॥ KK04-04-040-033c
एहि भूमिञ्जयारुह्य वैराटे महतीं शमीम् । KK04-04-040-034a
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ॥ KK04-04-040-034c
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् । KK04-04-040-035a
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ॥ KK04-04-040-035c
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः । KK04-04-040-036a
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ॥ KK04-04-040-036c
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च । KK04-04-040-037a
आयुधानि महाबाहो तवैतानि महाबल ॥ KK04-04-040-037c
तस्माद्भूमिञ्जयारुह्य शमीमेतां पलाशिनीम् । KK04-04-040-038a
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ॥ KK04-04-040-038c
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । KK04-04-040-039a
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥ KK04-04-040-039c
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् । KK04-04-040-040a
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम् ॥ KK04-04-040-040c
व्यायामसहमत्यर्थं तृणराजसमं महत् । KK04-04-040-041a
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ॥ KK04-04-040-041c
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् । KK04-04-040-042a
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ॥ KK04-04-040-042c
तादृशान्येव सर्वाणि बलवन्ति दृढानि च । KK04-04-040-043a
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । KK04-04-040-043c
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ॥ KK04-04-040-043e
उत्तर उवाच KK04-04-040-044
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल । KK04-04-040-044a
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ KK04-04-040-044c
न मामेवंविधं कर्म कारयस्व बृहन्नले । KK04-04-040-045a
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथम् ॥ KK04-04-040-045c
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना । KK04-04-040-046a
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ KK04-04-040-046c
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् । KK04-04-040-047a
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ॥ KK04-04-040-047c
वैशम्पायन उवाच KK04-04-040-048
तमुवाच ततः शूरः पार्थं परपुरञ्जयः । KK04-04-040-048a
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ॥ KK04-04-040-048c
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च । KK04-04-040-049a
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ॥ KK04-04-040-049c
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि । KK04-04-040-050a
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ KK04-04-040-050c
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् । KK04-04-040-051a
कथं वा निन्दितं कर्म कारये त्वां नृपात्मज ॥ KK04-04-040-051c
वैशम्पायन उवाच KK04-04-040-052
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली । KK04-04-040-052a
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ KK04-04-040-052c
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः । KK04-04-040-053a
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ॥ KK04-04-040-053c
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् । KK04-04-040-054a
परिवेष्टनपत्राणि विमुच्य समुपानयत् ॥ KK04-04-040-054c
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् । KK04-04-040-055a
तेषां सन्नहनीयानि परिमुच्य परन्तपः । KK04-04-040-055c
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ॥ KK04-04-040-055e
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् । KK04-04-040-056a
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ KK04-04-040-056c
स तेषां रूपमालेक्य भोगिनामिव जृम्भताम् । KK04-04-040-057a
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ॥ KK04-04-040-057c
अर्जुनेन समाश्वस्तः किञ्चिद्धृष्टो नृपात्मजः । KK04-04-040-058a
तेषां सन्दर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ॥ KK04-04-040-058c
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः । KK04-04-040-059a
सम्यग्घुष्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ॥ KK04-04-040-059c
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च । KK04-04-040-060a
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ 60 ॥ ॥ KK04-04-040-060c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥
4-40-11 नगारिसूनुः । एषोऽङ्गनावेषधरः किरीटी जित्वाऽव यं नेष्यति चाद्य गा व इति झ. पाठः । हे नदीज गाङ्गेय भीष्म, लङ्केशस्य रावणस्य वनं तस्यारिर्नाशको हनूमान् स केतुर्ध्वजो यस्य सः लङ्केशवनारिकेतुः । नगो 'वृक्षस्तदाह्लयः वृक्षनामा । अर्जुन इत्यर्थः । शैलवृक्षौ नगावगावित्यमरः । नगारिरिन्द्रस्तस्य सूनुः । किरीटी तन्नामा यं जित्वा वः युष्माकं गाः धेनूः नेष्यति तं दुर्योधनं अव पालय ॥ 11 ॥ 4-40-46 आलब्धुं स्प्रष्टुम् ॥ 46 ॥ ॥ चत्वारिंशोऽध्यायः ॥