अध्यायः 039
उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् ॥ 1 ॥ तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकम् पुना रथारोपणम् ॥ 2 ॥ तथा तेन सह गाण्डीवाद्यानयनाय शमीम् प्रति गमनम् ॥ 3 ॥
वैशम्पायन उवाच KK04-04-039-001
स राजधान्या निर्याय वैराटिरकुतोभयः । KK04-04-039-001a
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ KK04-04-039-001c
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै । KK04-04-039-002a
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ॥ KK04-04-039-002c
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ॥ KK04-04-039-003ac
ते हया नरसिंहेन चोदिता वातरंहसः । KK04-04-039-004a
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ KK04-04-039-004c
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ । KK04-04-039-005a
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ॥ KK04-04-039-005c
श्मशानमभितो गत्वा शूरौ ददृशतुः कुरून् ॥ KK04-04-039-006ac
तदनीकं महत्तेषां विस्तृतं सागरोपमम् । KK04-04-039-007a
सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥ KK04-04-039-007c
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता । KK04-04-039-008a
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ॥ KK04-04-039-008c
तदनीकमथो वीक्ष्य गजाश्वरथसङ्कुलम् । KK04-04-039-009a
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च । KK04-04-039-009c
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ॥ KK04-04-039-009e
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा । KK04-04-039-010a
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ॥ KK04-04-039-010c
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे । KK04-04-039-011a
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् । KK04-04-039-011c
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ॥ KK04-04-039-011e
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् । KK04-04-039-012a
देवैरपि सहेन्द्रेण न शक्यं किम्पुनर्नरैः ॥ KK04-04-039-012c
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् । KK04-04-039-013a
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ॥ KK04-04-039-013c
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः । KK04-04-039-014a
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः । KK04-04-039-014c
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ॥ KK04-04-039-014e
धृतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः । KK04-04-039-015a
मत्ता इव महानागा युक्तध्वजपताकिनः ॥ KK04-04-039-015c
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः । KK04-04-039-016a
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ॥ KK04-04-039-016c
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः । KK04-04-039-017a
हृषितानि च रोमाणि कश्मलेनाहतं मनः ॥ KK04-04-039-017c
वैशम्पायन उवाच KK04-04-039-018
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् । KK04-04-039-018a
परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ KK04-04-039-018c
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम् । KK04-04-039-019a
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ KK04-04-039-019c
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः । KK04-04-039-020a
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ॥ KK04-04-039-020c
वैशम्पायन उवाच KK04-04-039-021
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत । KK04-04-039-021a
सम्प्रहस्य पुनस्तं वै सर्वलोकमहारथः ॥ KK04-04-039-021c
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः । KK04-04-039-022a
न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ॥ KK04-04-039-022c
स्वयमेव च मामात्थ नय मां कौरवान्प्रति । KK04-04-039-023a
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ KK04-04-039-023c
मध्यमामिषगृध्नूनां कुरूणामाततायिनाम् । KK04-04-039-024a
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव । KK04-04-039-024c
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ॥ KK04-04-039-024e
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् । KK04-04-039-025a
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ॥ KK04-04-039-025c
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च । KK04-04-039-026a
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ॥ KK04-04-039-026c
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि । KK04-04-039-027a
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च सङ्गताः ॥ KK04-04-039-027c
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि । KK04-04-039-028a
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ KK04-04-039-028c
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः । KK04-04-039-029a
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ॥ KK04-04-039-029c
उत्तर उवाच KK04-04-039-030
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम् । KK04-04-039-030a
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ॥ KK04-04-039-030c
सङ्ग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे । KK04-04-039-031a
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ॥ KK04-04-039-031c
वैशम्पायन उवाच KK04-04-039-032
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली । KK04-04-039-032a
त्यक्त्वा मानं सुसन्त्रस्तो विसृज्य सशरं धनुः ॥ KK04-04-039-032c
अर्जुन उवाच KK04-04-039-033
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् । KK04-04-039-033a
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ॥ KK04-04-039-033c
वैशम्पायन उवाच KK04-04-039-034
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात् । KK04-04-039-034a
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः । KK04-04-039-034c
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ॥ KK04-04-039-034e
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् । KK04-04-039-035a
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा । KK04-04-039-035c
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ॥ KK04-04-039-035e
तं च शीघ्रं प्रधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् । KK04-04-039-036a
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ॥ KK04-04-039-036c
क एष वेषसञ्च्छन्नो भस्मनेव हुताशनः । KK04-04-039-037a
किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः ॥ KK04-04-039-037c
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् । KK04-04-039-038a
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ॥ KK04-04-039-038c
किं विचारेण वः कार्यमेतेनानुसृतेन वा । KK04-04-039-039a
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् । KK04-04-039-039c
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ॥ KK04-04-039-039e
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च । KK04-04-039-040a
रूपेण पार्थसदृशः स्त्रीवेषसमलङ्कृतः ॥ KK04-04-039-040c
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ । KK04-04-039-041a
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥ KK04-04-039-041c
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः । KK04-04-039-042a
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ॥ KK04-04-039-042c
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान् । KK04-04-039-043a
एकः पुत्रो विराटस्य शून्ये सन्निहितः पुरे ॥ KK04-04-039-043c
स एष किल निर्यातो बालभावान्न पौरुषात् । KK04-04-039-044a
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ KK04-04-039-044c
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् । KK04-04-039-045a
ते हि नः प्रतिसंयातुं सङ्ग्रामे न हि शक्नुयुः । KK04-04-039-045c
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ KK04-04-039-045e
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः । KK04-04-039-046a
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ॥ KK04-04-039-046c
कृप उवाच KK04-04-039-047
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः । KK04-04-039-047a
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ॥ KK04-04-039-047c
वैशम्पायन उवाच KK04-04-039-048
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् । KK04-04-039-048a
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ॥ KK04-04-039-048c
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् । KK04-04-039-049a
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा । KK04-04-039-049c
ते हि नः प्रतिसंयातुं सङ्ग्रामे न हि शक्नुयुः ॥ KK04-04-039-049e
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम् । KK04-04-039-050a
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले । KK04-04-039-050c
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ KK04-04-039-050e
वैशम्पायन उवाच KK04-04-039-051
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः । KK04-04-039-051a
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः । KK04-04-039-051c
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ॥ KK04-04-039-051e
दृढवेधी महासत्त्वः शक्रतुल्यपराक्रमः । KK04-04-039-052a
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ॥ KK04-04-039-052c
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ॥ KK04-04-039-053ac
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः । KK04-04-039-054a
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ॥ KK04-04-039-054c
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले । KK04-04-039-055a
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत् । KK04-04-039-055c
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ॥ KK04-04-039-055e
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् । KK04-04-039-056a
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ॥ KK04-04-039-056c
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते । KK04-04-039-057a
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ॥ KK04-04-039-057c
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च । KK04-04-039-058a
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ॥ KK04-04-039-058c
षष्टिं स्वलङ्कृताः कन्या ग्राममेकं ददामि ते । KK04-04-039-059a
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ॥ KK04-04-039-059c
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् । KK04-04-039-060a
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ॥ KK04-04-039-060c
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले । KK04-04-039-061a
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ॥ KK04-04-039-061c
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः । KK04-04-039-062a
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ॥ KK04-04-039-062c
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः । KK04-04-039-063a
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ॥ KK04-04-039-063c
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः । KK04-04-039-064a
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ॥ KK04-04-039-064c
प्रलयार्णवसङ्काशं दृश्यते कौरवं बलम् ॥ KK04-04-039-065ac
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम् । KK04-04-039-066a
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् । KK04-04-039-066c
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ॥ KK04-04-039-066e
वैशम्पायन उवाच KK04-04-039-067
एवमादीनि वाक्यानि विलपन्तमचेतसम् । KK04-04-039-067a
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ KK04-04-039-067c
KK04-04-039-068ac अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ॥
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् । KK04-04-039-069a
आददानः किमर्थं त्वं पलायनपरोऽभवः ॥ KK04-04-039-069c
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति । KK04-04-039-070a
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान् । KK04-04-039-070c
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ॥ KK04-04-039-070e
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् । KK04-04-039-071a
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ॥ KK04-04-039-071c
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ॥ KK04-04-039-072ac
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि । KK04-04-039-073a
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ॥ KK04-04-039-073c
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन । KK04-04-039-074a
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ KK04-04-039-074c
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः । KK04-04-039-075a
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः । KK04-04-039-075c
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप ॥ KK04-04-039-075e
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् । KK04-04-039-076a
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ॥ KK04-04-039-076c
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह । KK04-04-039-077a
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ॥ KK04-04-039-077c
वैशम्पायन उवाच KK04-04-039-078
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः । KK04-04-039-078a
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ॥ KK04-04-039-078c
इतस्ततो विवेष्टन्तमकामं भयपीडितम् । KK04-04-039-079a
रथमारोपमायास पार्थः परपुरञ्जयः ॥ KK04-04-039-079c
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः । KK04-04-039-080a
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति । KK04-04-039-080c
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ॥ ॥ KK04-04-039-080e
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥