अध्यायः 038

उत्तरे समुचितसारथेरभावेन खिद्यमाने अर्जुनेन द्रौपदीम् प्रति उत्तराय बृहन्नलायाः सारथ्यकौशलनिवेदनचोदना ॥ 1 ॥ भ्रातृचोदितया उत्तरया बृहन्नलाम् प्रति उत्तररथसारथ्यकरणप्रार्थना ॥ 2 ॥ उत्तरेण सारथीभूतेनार्जुनेन सह कुरून्प्रति रणायाभियानम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-038-001
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः । KK04-04-038-001a
गवाध्यक्षेण सम्प्रोक्तो विराटतनयस्तदा ॥ KK04-04-038-001c
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम् । KK04-04-038-002a
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ KK04-04-038-002c
उत्तर उवाच KK04-04-038-003
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् । KK04-04-038-003a
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ KK04-04-038-003c
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् । KK04-04-038-004a
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ॥ KK04-04-038-004c
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः । KK04-04-038-005a
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ॥ KK04-04-038-005c
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि । KK04-04-038-006a
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ॥ KK04-04-038-006c
विगाह्य तत्परानीकं गजवाजिरथाकुलम् । KK04-04-038-007a
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ॥ KK04-04-038-007c
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम् । KK04-04-038-008a
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ KK04-04-038-008c
विद्रावयित्वा सङ्ग्रामे दानवान्मघवानिव । KK04-04-038-009a
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ KK04-04-038-009c
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् । KK04-04-038-010a
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ॥ KK04-04-038-010c
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः । KK04-04-038-011a
किन्नु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ॥ KK04-04-038-011c
वैशम्पायन उवाच KK04-04-038-012
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् । KK04-04-038-012a
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ KK04-04-038-012c
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम् । KK04-04-038-013a
अतीतसमये काले प्रियां भार्यामभाषत ॥ KK04-04-038-013c
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसम्मताम् । KK04-04-038-014a
सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् । KK04-04-038-014c
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ॥ KK04-04-038-014e
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ॥ KK04-04-038-015ac
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः । KK04-04-038-016a
सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला । KK04-04-038-016c
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ॥ KK04-04-038-016e
वैशम्पायन उवाच KK04-04-038-017
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता । KK04-04-038-017a
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ॥ KK04-04-038-017c
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव । KK04-04-038-018a
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ॥ KK04-04-038-018c
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना । KK04-04-038-019a
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ॥ KK04-04-038-019c
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत । KK04-04-038-020a
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ॥ KK04-04-038-020c
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् । KK04-04-038-021a
सर्वाणि भूतान्यजयत्स वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ॥ KK04-04-038-021c
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् । KK04-04-038-022a
सङ्गृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ॥ KK04-04-038-022c
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः । KK04-04-038-023a
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ॥ KK04-04-038-023c
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः । KK04-04-038-024a
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ॥ KK04-04-038-024c
स चानेन सहायेन खाण्डवं चादहत्पुरा । KK04-04-038-025a
अर्जुनस्य तदाऽनेन सङ्गृहीता हयोत्तमाः ॥ KK04-04-038-025c
तेन सारथिना पार्थः सर्वभूतानि सर्वशः । KK04-04-038-026a
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ॥ KK04-04-038-026c
वैशम्पायन उवाच KK04-04-038-027
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत् । KK04-04-038-027a
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ॥ KK04-04-038-027c
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते । KK04-04-038-028a
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ॥ KK04-04-038-028c
उत्तर उवाच KK04-04-038-029
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम् । KK04-04-038-029a
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ॥ KK04-04-038-029c
सैरन्ध्र्युवाच KK04-04-038-030
भयकाले तु सम्प्राप्ते न व्रतं नाव्रतं पुनः । KK04-04-038-030a
यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः । KK04-04-038-030c
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ॥ KK04-04-038-030e
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी । KK04-04-038-031a
अस्यास्तु वचनं वीर करिष्यति न संशयः ॥ KK04-04-038-031c
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः । KK04-04-038-032a
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ KK04-04-038-032c
वैशम्पायन उवाच KK04-04-038-033
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत । KK04-04-038-033a
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥ KK04-04-038-033c
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी । KK04-04-038-034a
भ्रातुर्नियोगं तु निशम्य सुभ्रूः शुभानना हाटकवज्रभूषिता ॥ KK04-04-038-034c
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता । KK04-04-038-035a
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ॥ KK04-04-038-035c
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी । KK04-04-038-036a
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥ KK04-04-038-036c
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या । KK04-04-038-037a
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥ KK04-04-038-037c
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ॥ KK04-04-038-038ac
किमागता काञ्चनमाल्यधारिणी सुगात्रि किञ्चित्त्वरिताऽसि सुभ्रु । KK04-04-038-039a
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ॥ KK04-04-038-039c
वैशम्पायन उवाच KK04-04-038-040
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपत्रगन्धिनी । KK04-04-038-040a
प्रसन्नताराधिपसन्निभानना पार्थं कुमारी वचनं बभाषे ॥ KK04-04-038-040c
उत्तरोवाच KK04-04-038-041
हरन्ति वित्तं कुरवः पितुर्मे शतं सहस्राणि गवां बृहन्नले । KK04-04-038-041a
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ॥ KK04-04-038-041c
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता सङ्ग्रहणे रथाश्वयोः । KK04-04-038-042a
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ॥ KK04-04-038-042c
वैशम्पायन उवाच KK04-04-038-043
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः । KK04-04-038-043a
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ॥ KK04-04-038-043c
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा । KK04-04-038-044a
इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि । KK04-04-038-044c
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ॥ KK04-04-038-044e
वैशम्पायन उवाच KK04-04-038-045
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम् । KK04-04-038-045a
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ॥ KK04-04-038-045c
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम् । KK04-04-038-046a
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ॥ KK04-04-038-046c
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम् । KK04-04-038-047a
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ॥ KK04-04-038-047c
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् । KK04-04-038-048a
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ॥ KK04-04-038-048c
दूरादेव तु सम्प्रेक्ष्य राजपुत्रोऽभ्यभाषत । KK04-04-038-049a
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ KK04-04-038-049c
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः । KK04-04-038-050a
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ॥ KK04-04-038-050c
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः । KK04-04-038-051a
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ॥ KK04-04-038-051c
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः । KK04-04-038-052a
सर्वे सारथयः ख्याता न बृहन्नलया समाः ॥ KK04-04-038-052c
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै । KK04-04-038-053a
आहूता त्वं मया सार्धं योद्धुं याहि बृहन्नले ॥ KK04-04-038-053c
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः । KK04-04-038-054a
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ॥ KK04-04-038-054c
का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि । KK04-04-038-055a
नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् । KK04-04-038-055c
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥ KK04-04-038-055e
उत्तर उवाच KK04-04-038-056
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत् । KK04-04-038-056a
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ॥ KK04-04-038-056c
वैशम्पायन उवाच KK04-04-038-057
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत् । KK04-04-038-057a
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ॥ KK04-04-038-057c
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने । KK04-04-038-058a
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ॥ KK04-04-038-058c
बृहन्नलोवाच KK04-04-038-059
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः । KK04-04-038-059a
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ॥ KK04-04-038-059c
वैशम्पायन उवाच KK04-04-038-060
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु । KK04-04-038-060a
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥ KK04-04-038-060c
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत् । KK04-04-038-061a
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ॥ KK04-04-038-061c
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः । KK04-04-038-062a
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ॥ KK04-04-038-062c
एवम्प्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे । KK04-04-038-063a
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ॥ KK04-04-038-063c
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा । KK04-04-038-064a
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ॥ KK04-04-038-064c
अथास्य शीघ्रं प्रसमीक्ष्य योजयद्रथे हयान्काञ्चनजालसंवृतान् । KK04-04-038-065a
सुवर्णजालान्तरयोक्त्रभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ॥ KK04-04-038-065c
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून् । KK04-04-038-066a
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ॥ KK04-04-038-066c
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः । KK04-04-038-067a
अथोत्तरा च कन्याश्च सख्यश्चैवाब्रुवंस्तदा ॥ KK04-04-038-067c
बृहन्नले आनयेथा वासांसि रुचिराणि नः । KK04-04-038-068a
पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च । KK04-04-038-068c
विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ KK04-04-038-068e
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः । KK04-04-038-069a
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ॥ KK04-04-038-069c
यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान् । KK04-04-038-070a
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ॥ KK04-04-038-070c
वैशम्पायन उवाच KK04-04-038-071
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम् । KK04-04-038-071a
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ॥ KK04-04-038-071c
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा । KK04-04-038-072a
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ॥ KK04-04-038-072c
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् । KK04-04-038-073a
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ॥ ॥ KK04-04-038-073c

इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

4-38-35 शिखण्डिनी मयूरपिच्छालङ्कारवती ॥ 35 ॥