अध्यायः 037

दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ॥ 1 ॥ गोपालेन केनचित्पुरमेत्योत्तरम् प्रति कुरुभिर्गोग्रहणस्य निवेदनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-04-037-001
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति । KK04-04-037-001a
दुर्योधनः सहामात्यैर्विराटपुरमभ्यगात् ॥ KK04-04-037-001c
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् । KK04-04-037-002a
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ KK04-04-037-002c
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् । KK04-04-037-003a
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ KK04-04-037-003c
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः । KK04-04-037-004a
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ KK04-04-037-004c
गवां शतसहस्राणि कुरवः कालयन्ति च । KK04-04-037-005a
महता रथवंशेन परिगृह्य समन्ततः ॥ KK04-04-037-005c
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः । KK04-04-037-006a
आरावः सुमहानासीत्सम्प्रहारे भयङ्करे ॥ KK04-04-037-006c
गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः । KK04-04-037-007a
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ KK04-04-037-007c
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः । KK04-04-037-008a
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ KK04-04-037-008c
दृष्ट्वा भूमिञ्जयं नाम पुत्रं मात्स्यस्य मानिनम् । KK04-04-037-009a
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ KK04-04-037-009c
गवां शतसहस्राणि कुरवः कालयन्ति ते । KK04-04-037-010a
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ KK04-04-037-010c
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् । KK04-04-037-011a
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ KK04-04-037-011c
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः । KK04-04-037-012a
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ KK04-04-037-012c
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः । KK04-04-037-013a
समर्थः समरे योद्धुं कौरवैः सह तादृशैः ॥ KK04-04-037-013c
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् । KK04-04-037-014a
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ KK04-04-037-014c
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा । KK04-04-037-015a
निर्दहैषामनीकानि भीमेन शरतेजसा ॥ KK04-04-037-015c
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः सन्नतपर्वभिः । KK04-04-037-016a
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ KK04-04-037-016c
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् । KK04-04-037-017a
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ KK04-04-037-017c
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते । KK04-04-037-018a
श्वेताः काञ्चनसन्नाहा रथे युज्यन्तु ते हयाः । KK04-04-037-018c
ध्वजं च सिंहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ KK04-04-037-018e
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया । KK04-04-037-019a
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधकाः ॥ KK04-04-037-019c
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् । KK04-04-037-020a
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥ KK04-04-037-020c
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः । KK04-04-037-021a
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ KK04-04-037-021c
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः । KK04-04-037-022a
एवमेव गतिर्नूनं भवान्विषयवासिनाम् ॥ ॥ KK04-04-037-022c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसन्धानार्थं कीलविशेषौ यस्या सा ताम् । शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ॥ 17 ॥