अध्यायः 036
युधिष्ठिरचोदनया विराटप्रेषितैर्दूतैर्नगरमेत्य जयोद्घोषणम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-036-001
ततो विराटः कौन्तेयानतिमानुषविक्रमान् । KK04-04-036-001a
अर्चयामास वित्तेन मानेन च महारथान् । KK04-04-036-001c
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ॥ KK04-04-036-001e
विराट उवाच KK04-04-036-002
यथैव मम रत्नानि युष्माकं तानि वै तथा । KK04-04-036-002a
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ॥ KK04-04-036-002c
ददाम्यलङ्कृताः कन्या वसूनि विविधानि च । KK04-04-036-003a
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥ KK04-04-036-003c
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह । KK04-04-036-004a
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥ KK04-04-036-004c
वैशम्पायन उवाच KK04-04-036-005
तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक् । KK04-04-036-005a
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ॥ KK04-04-036-005c
प्रतिनन्दामहे वाचं सर्वथैव विशाम्पते । KK04-04-036-006a
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ॥ KK04-04-036-006c
यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः । KK04-04-036-007a
न किञ्चित्कार्यमस्माकं न धनं मृगयामहे ॥ KK04-04-036-007c
अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम् । KK04-04-036-008a
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ॥ KK04-04-036-008c
पुनरेव महाबाहुर्विराटो राजसत्तमः । KK04-04-036-009a
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ॥ KK04-04-036-009c
मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण । KK04-04-036-010a
तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥ KK04-04-036-010c
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा । KK04-04-036-011a
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ॥ KK04-04-036-011c
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च । KK04-04-036-012a
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥ KK04-04-036-012c
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः । KK04-04-036-013a
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषिताम् ॥ KK04-04-036-013c
आनृशंस्यपरो नित्यं सुमुखः सततं भवान् । KK04-04-036-014a
पुनरेव विराटश्च राजा कङ्कमभाषत ॥ KK04-04-036-014c
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम । KK04-04-036-015a
सोहं शूद्रेण सङ्ग्रामे वललेनाभिरक्षितः ॥ KK04-04-036-015c
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ । KK04-04-036-016a
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ॥ KK04-04-036-016c
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम् । KK04-04-036-017a
शयनासनयानानि कन्याश्च समलङ्कृताः ॥ KK04-04-036-017c
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च । KK04-04-036-018a
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ॥ KK04-04-036-018c
वैशम्पायन उवाच KK04-04-036-019
तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत । KK04-04-036-019a
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ॥ KK04-04-036-019c
प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परन्तप । KK04-04-036-020a
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ॥ KK04-04-036-020c
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् । KK04-04-036-021a
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ॥ KK04-04-036-021c
वैशम्पायन उवाच KK04-04-036-022
एवमुक्ते तु कङ्केन विराटो राजसत्तमः । KK04-04-036-022a
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ॥ KK04-04-036-022c
कङ्क उवाच KK04-04-036-023
गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव । KK04-04-036-023a
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ KK04-04-036-023c
ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत् । KK04-04-036-024a
आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ॥ KK04-04-036-024c
कुमार्यः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् । KK04-04-036-025a
वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः । KK04-04-036-025c
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ॥ KK04-04-036-025e
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् । KK04-04-036-026a
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ॥ KK04-04-036-026c
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते । KK04-04-036-027a
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् । KK04-04-036-027c
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ॥ ॥ KK04-04-036-027e
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥