अध्यायः 035
सुशर्मणा युद्धे विराटस्य ग्रहणम् ॥ 1 ॥ भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् ॥ 2 ॥ युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ॥ 3 ॥
वैशम्पायन उवाच KK04-04-035-001
तमसाऽभिप्लुते लोके रजसा चैव भारत । KK04-04-035-001a
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ॥ KK04-04-035-001c
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः । KK04-04-035-002a
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ॥ KK04-04-035-002c
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत । KK04-04-035-003a
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ॥ KK04-04-035-003c
तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति । KK04-04-035-004a
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ॥ KK04-04-035-004c
बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा । KK04-04-035-005a
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ॥ KK04-04-035-005c
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ । KK04-04-035-006a
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ॥ KK04-04-035-006c
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ । KK04-04-035-007a
उभौ तुल्यास्त्रविक्षेपावुभौ युद्धविशारदौ ॥ KK04-04-035-007c
तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी । KK04-04-035-008a
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ॥ KK04-04-035-008c
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा । KK04-04-035-009a
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ KK04-04-035-009c
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ । KK04-04-035-010a
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ॥ KK04-04-035-010c
सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी । KK04-04-035-011a
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ॥ KK04-04-035-011c
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः । KK04-04-035-012a
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ॥ KK04-04-035-012c
तस्मिन्गृहीते विरथे विराटे बलवत्तरे । KK04-04-035-013a
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ॥ KK04-04-035-013c
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे । KK04-04-035-014a
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ॥ KK04-04-035-014c
तेषु विद्राव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः । KK04-04-035-015a
अभ्यभाषत धर्मात्मा भीमसेनमरिन्दमम् ॥ KK04-04-035-015c
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा । KK04-04-035-016a
तं मोक्षय महाबाहो मा गमद्द्विषतां वशम् ॥ KK04-04-035-016c
भीमसेन महाबाहो गृहीतं तु सुशर्मणा । KK04-04-035-017a
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ॥ KK04-04-035-017c
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः । KK04-04-035-018a
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥ KK04-04-035-018c
वैशम्पायन उवाच KK04-04-035-019
तं तथावादिनं तत्र भीमसेनो महाबलः । KK04-04-035-019a
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ॥ KK04-04-035-019c
अहमेनं परित्रास्ये शासनात्तव पार्थिव । KK04-04-035-020a
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ॥ KK04-04-035-020c
स्वबाहुबलमाश्रित्य परेषामसमं रणे । KK04-04-035-021a
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ॥ KK04-04-035-021c
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः । KK04-04-035-022a
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ॥ KK04-04-035-022c
वैशम्पायन उवाच KK04-04-035-023
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् । KK04-04-035-023a
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ KK04-04-035-023c
भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ॥ KK04-04-035-024ac
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् । KK04-04-035-025a
जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ KK04-04-035-025c
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद । KK04-04-035-026a
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ॥ KK04-04-035-026c
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव । KK04-04-035-027a
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवम् ॥ KK04-04-035-027c
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम् । KK04-04-035-028a
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ॥ KK04-04-035-028c
यदेव मानुषं भीम भवेदन्यैरलक्षितम् । KK04-04-035-029a
तदेवायुधमादाय मोचयाशु महीपतिम् ॥ KK04-04-035-029c
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ । KK04-04-035-030a
व्यायच्छतस्ते समरे मत्स्यराजं परीप्सतः ॥ KK04-04-035-030c
वैशम्पायन उवाच KK04-04-035-031
भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च । KK04-04-035-031a
चापमादाय सम्प्राप्तो रथमास्थाय पाण्डवः ॥ KK04-04-035-031c
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः । KK04-04-035-032a
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ KK04-04-035-032c
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ KK04-04-035-033ac
सुशर्मा चिन्तयामास कालान्तकयमोपमम् । KK04-04-035-034a
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ KK04-04-035-034c
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् । KK04-04-035-035a
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ KK04-04-035-035c
निमेषान्तरमात्रेण भीमसेनेन ते रथाः । KK04-04-035-036a
रथानां च गजानां च वाजिनां च ससादिनाम् ॥ KK04-04-035-036c
सहस्रशतसङ्घाताः शूराणामुग्रधन्विनाम् । KK04-04-035-037a
पातिता भीमसेनेन विराटस्य समीपतः ॥ KK04-04-035-037c
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ KK04-04-035-038ac
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः । KK04-04-035-039a
चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ KK04-04-035-039c
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले । KK04-04-035-040a
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ KK04-04-035-040c
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ KK04-04-035-041ac
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् । KK04-04-035-042a
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ KK04-04-035-042c
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् । KK04-04-035-043a
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ KK04-04-035-043c
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः । KK04-04-035-044a
तान्भीमसेनः सङ्क्रुद्धः सर्वशस्त्रभृतांवरः । KK04-04-035-044c
द्विसहस्ररथान्वीरः परलोकं प्रवेशयन् ॥ KK04-04-035-044e
सहस्रं प्राहिणोद्राजा कुन्तीपुत्रो युधिष्ठिरः । KK04-04-035-045a
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ KK04-04-035-045c
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । KK04-04-035-046a
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ KK04-04-035-046c
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः । KK04-04-035-047a
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ॥ KK04-04-035-047c
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः । KK04-04-035-048a
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्भृशम् ॥ KK04-04-035-048c
सुशर्माऽपि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् । KK04-04-035-049a
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ KK04-04-035-049c
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः । KK04-04-035-050a
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ॥ KK04-04-035-050c
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः । KK04-04-035-051a
अथास्य सारथिं क्रुद्धो रथोपस्थादपातयत् ॥ KK04-04-035-051c
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः । KK04-04-035-052a
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ॥ KK04-04-035-052c
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः । KK04-04-035-053a
गदामस्य परामृश्य तमेवाभ्यहनद्बली ॥ KK04-04-035-053c
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ KK04-04-035-054ac
भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य वीर्यवान् । KK04-04-035-055a
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च । KK04-04-035-055c
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ॥ KK04-04-035-055e
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा । KK04-04-035-056a
ऊर्ध्वमुत्प्लुत्य मार्जार आखोर्यद्वच्छिरो रुषा ॥ KK04-04-035-056c
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले । KK04-04-035-057a
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ KK04-04-035-057c
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना । KK04-04-035-058a
स मोहमगमद्राजा प्रहारवरपीडितः ॥ KK04-04-035-058c
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे । KK04-04-035-059a
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ॥ KK04-04-035-059c
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः । KK04-04-035-060a
अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ KK04-04-035-060c
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः । KK04-04-035-061a
विराटस्य महात्मानः परिक्लेशविनाशनाः । KK04-04-035-061c
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ॥ KK04-04-035-061e
नायं पापसमाचारो मत्तो जीवितुमर्हति । KK04-04-035-062a
किन्नु शक्यं मया कर्तुं यद्राजा सततं घृणी । KK04-04-035-062c
गले गृहीत्वा राजानमानीय विवशं वशम् ॥ KK04-04-035-062e
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः । KK04-04-035-063a
रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम् ॥ KK04-04-035-063c
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् । KK04-04-035-064a
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ॥ KK04-04-035-064c
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् । KK04-04-035-065a
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ॥ KK04-04-035-065c
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् । KK04-04-035-066a
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ KK04-04-035-066c
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च । KK04-04-035-067a
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ KK04-04-035-067c
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः । KK04-04-035-068a
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ॥ KK04-04-035-068c
दासभावं गतो ह्येष विराटस्य महीपतेः । KK04-04-035-069a
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ॥ KK04-04-035-069c
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः । KK04-04-035-070a
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥ KK04-04-035-070c
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः । KK04-04-035-071a
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः । KK04-04-035-071c
सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ ॥ KK04-04-035-071e
श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
4-35-2 नन्दयन्क्षत्रियानिति थ. पाठः ॥ 2 ॥