अध्यायः 034

विराटसुशर्मसैन्ययोर्युद्धम् ॥ 1 ॥ युधिष्ठिरादिनिहतानाम् परिसङ्ख्यानम् ॥ 2 ॥ विराटसुशर्मणोर्युद्धम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-034-001
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः । KK04-04-034-001a
त्रिगर्तानस्पृशन्मात्स्याः सूर्येऽस्तङ्गमिते सति ॥ KK04-04-034-001c
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः । KK04-04-034-002a
अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ॥ KK04-04-034-002c
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः । KK04-04-034-003a
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ KK04-04-034-003c
तेषां समागमो घोरस्तुमुलो रोमहर्षणः । KK04-04-034-004a
घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ॥ KK04-04-034-004c
देवासुरसमो राजन्नासीत्सूर्येऽवलम्बति । KK04-04-034-005a
पदातिरथनागेन्द्रहयारोहबलौघवान् ॥ KK04-04-034-005c
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् । KK04-04-034-006a
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन ॥ KK04-04-034-006c
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः । KK04-04-034-007a
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ॥ KK04-04-034-007c
खद्योतैरिव संयुक्तमन्तरिक्षमजायत ॥ KK04-04-034-008ac
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा । KK04-04-034-009a
नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ॥ KK04-04-034-009c
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः । KK04-04-034-010a
सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ॥ KK04-04-034-010c
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि । KK04-04-034-011a
संरब्धाः समरे योधा निजघ्नुरितरेतरम् ॥ KK04-04-034-011c
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः । KK04-04-034-012a
न शेकुरतिसङ्क्रुद्धाः शूराः कर्तुं पराङ्मुखम् ॥ KK04-04-034-012c
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलङ्कृतम् । KK04-04-034-013a
अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ॥ KK04-04-034-013c
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः । KK04-04-034-014a
सालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥ KK04-04-034-014c
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः । KK04-04-034-015a
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ KK04-04-034-015c
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते । KK04-04-034-016a
बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ॥ KK04-04-034-016c
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता । KK04-04-034-017a
कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ॥ KK04-04-034-017c
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा । KK04-04-034-018a
व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ॥ KK04-04-034-018c
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः । KK04-04-034-019a
पक्षौ यमौ च भवतः पुच्छमासीद्वृकोदरः ॥ KK04-04-034-019c
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः । KK04-04-034-020a
भीमसेनस्तु सङ्क्रुद्धः सर्वशस्त्रभृतांवरः । KK04-04-034-020c
द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ॥ KK04-04-034-020e
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् । KK04-04-034-021a
शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ॥ KK04-04-034-021c
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ । KK04-04-034-022a
आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ॥ KK04-04-034-022c
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम् । KK04-04-034-023a
जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ॥ KK04-04-034-023c
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः । KK04-04-034-024a
विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ॥ KK04-04-034-024c
विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतं रथान् । KK04-04-034-025a
कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ॥ KK04-04-034-025c
चरन्स विविधान्मार्गान्रथेन रथिनांवरः । KK04-04-034-026a
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ KK04-04-034-026c
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ । KK04-04-034-027a
अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ॥ KK04-04-034-027c
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ । KK04-04-034-028a
कृतास्त्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ॥ KK04-04-034-028c
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः । KK04-04-034-029a
शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ॥ KK04-04-034-029c
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ । KK04-04-034-030a
कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ॥ KK04-04-034-030c
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः । KK04-04-034-031a
पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ॥ KK04-04-034-031c
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः । KK04-04-034-032a
तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः । KK04-04-034-032c
पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ॥ KK04-04-034-032e
तयोर्बलानि राजेन्द्र समस्तानि महारणे । KK04-04-034-033a
नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ॥ ॥ KK04-04-034-033c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥