अध्यायः 033

गोपैर्द्रुततरमाद्रुत्य विराटम् प्रति सुशर्मणा गोग्रहणनिवेदनम् ॥ 1 ॥ विराटादिभिर्युद्धाय निर्गमोद्यमः ॥ 2 ॥ युधिष्ठिरेण विराटम् प्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-033-001
ततस्तेषां महाराज तत्रैवामिततेजसाम् । KK04-04-033-001a
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ KK04-04-033-001c
व्यतीतः समयः सम्यग्विराटनगरे सताम् । KK04-04-033-002a
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥ KK04-04-033-002c
कीचके तु हते राजा विराटः परवीरहा । KK04-04-033-003a
परां सम्भावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ KK04-04-033-003c
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत । KK04-04-033-004a
सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ KK04-04-033-004c
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत् । KK04-04-033-005a
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः । KK04-04-033-005c
गवाश्वरथनागानां निस्वनश्च पदातिनाम् ॥ KK04-04-033-005e
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने । KK04-04-033-006a
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ KK04-04-033-006c
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु । KK04-04-033-007a
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत । KK04-04-033-007c
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ KK04-04-033-007e
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः । KK04-04-033-008a
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ KK04-04-033-008c
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः । KK04-04-033-009a
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ KK04-04-033-009c
ते हन्यमानाः सङ्क्रुद्धास्त्रिगर्ता रथयोधिनः । KK04-04-033-010a
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ KK04-04-033-010c
हन्यमानेषु गोपेषु विमुखेषु विशाम्पते । KK04-04-033-011a
ततो युवानः सम्भीताः श्वसन्तो रेणुगुण्ठिताः ॥ KK04-04-033-011c
जवेन महता चैव गोपालाः पुरमाव्रजन् । KK04-04-033-012a
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ KK04-04-033-012c
सभायां राजशार्दूलमासीनं पाण्डवैः सह । KK04-04-033-013a
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ KK04-04-033-013c
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् । KK04-04-033-014a
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रुवन् ॥ KK04-04-033-014c
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् । KK04-04-033-015a
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ते । KK04-04-033-015c
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ KK04-04-033-015e
वैशम्पायन उवाच KK04-04-033-016
श्रुत्वा तु वचनं तेषां गोपालानामरिन्दमः । KK04-04-033-016a
स राजा महतीं सेनां मात्स्यानां समवाहयत् । KK04-04-033-016c
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ KK04-04-033-016e
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे । KK04-04-033-017a
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ KK04-04-033-017c
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् । KK04-04-033-018a
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ KK04-04-033-018c
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् । KK04-04-033-019a
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ KK04-04-033-019c
सर्वभारसहं वर्म कल्याणपटलं दृढम् । KK04-04-033-020a
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ KK04-04-033-020c
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च । KK04-04-033-021a
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ KK04-04-033-021c
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम् । KK04-04-033-022a
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ KK04-04-033-022c
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् । KK04-04-033-023a
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ KK04-04-033-023c
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः । KK04-04-033-024a
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ KK04-04-033-024c
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः । KK04-04-033-025a
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ KK04-04-033-025c
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते । KK04-04-033-026a
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ KK04-04-033-026c
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः । KK04-04-033-027a
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ KK04-04-033-027c
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् । KK04-04-033-028a
मया ह्यस्त्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ KK04-04-033-028c
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम् । KK04-04-033-029a
अयं च बलवाञ्छूरो वललो दृश्यतेऽनघ ॥ KK04-04-033-029c
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वै । KK04-04-033-030a
नैतेन जातु युद्ध्येयुर्गवार्थमिति मे मतिः ॥ KK04-04-033-030c
वैशम्पायन उवाच KK04-04-033-031
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् । KK04-04-033-031a
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ KK04-04-033-031c
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः । KK04-04-033-032a
शूराः सुवीराः पुरुषा नागराजवरोपमाः । KK04-04-033-032c
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ KK04-04-033-032e
एतेषामपि दीयन्तां रथा ध्वजपताकिनः । KK04-04-033-033a
कवचानि विचित्राणि दृढानि च लघूनि च ॥ KK04-04-033-033c
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च । KK04-04-033-034a
नेमे जातु न युद्ध्येयुरिति मे धीयते मतिः ॥ KK04-04-033-034c
वैशम्पायन उवाच KK04-04-033-035
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः । KK04-04-033-035a
शतानीकः स पार्थेभ्यो रथान्राजन्समादिशत् ॥ KK04-04-033-035c
सहदेवाय राज्ञे च भीमाय नकुलाय च । KK04-04-033-036a
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ KK04-04-033-036c
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन् । KK04-04-033-037a
कवचानि विचित्राणि नवानि च दृढानि च ॥ KK04-04-033-037c
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम् । KK04-04-033-038a
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ KK04-04-033-038c
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः । KK04-04-033-039a
रथान्हेमपरिष्कारान्समास्थाय महारथाः । KK04-04-033-039c
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ KK04-04-033-039e
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः । KK04-04-033-040a
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ KK04-04-033-040c
दीर्घानां च दृढानां च धनुषां ते यथाबलम् । KK04-04-033-041a
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ KK04-04-033-041c
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः । KK04-04-033-042a
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ KK04-04-033-042c
ते हया हेमसञ्च्छन्ना बृहन्तः साधुवाहिनः । KK04-04-033-043a
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ KK04-04-033-043c
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः । KK04-04-033-044a
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ KK04-04-033-044c
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः । KK04-04-033-045a
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ KK04-04-033-045c
दृढायुधजनाकीर्णं रथाश्वगजसङ्कुलम् । KK04-04-033-046a
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ KK04-04-033-046c
तं प्रयान्तं महाराज निनीषन्तं गवां पदम् । KK04-04-033-047a
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ KK04-04-033-047c
विंशतिस्तु सहस्राणि नराणामनुयायिनाम् । KK04-04-033-048a
अष्टौ रथसहस्राणि दश नागशतानि च । KK04-04-033-048c
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ KK04-04-033-048e
तदनीकं विराटस्य शुशुभेऽतीव भारत । KK04-04-033-049a
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ ॥ KK04-04-033-049c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥