अध्यायः 032

दुर्योधनेन कीचकवधस्य भीमसेनकृतत्वसम्भावनया पाण्डवानां तत्र स्थितिसम्भावना ॥ 1 ॥ तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरम् प्रति प्रेषणम् ॥ 2 ॥ सुशर्मणा विराटनगरमेत्य दक्षिणभागे गोग्रहम् ॥ 3 ॥ वैशम्पायन उवाच KK04-04-032-001
ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा । KK04-04-032-001a
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ॥ KK04-04-032-001c
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम् । KK04-04-032-002a
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ॥ KK04-04-032-002c
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् । KK04-04-032-003a
नीतिर्विधीयतां तत्र साम्प्रतं या हिता भवेत् ॥ KK04-04-032-003c
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता । KK04-04-032-004a
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ॥ KK04-04-032-004c
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु । KK04-04-032-005a
गूढभावेषु छन्नेषु काले चोदयमागते ॥ KK04-04-032-005c
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः । KK04-04-032-006a
उदयः पाण्डवानां च प्राप्तकालो न संशयः ॥ KK04-04-032-006c
निवृत्तसमयाः पार्था महात्मानो महाबलाः । KK04-04-032-007a
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥ KK04-04-032-007c
तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् । KK04-04-032-008a
यथा कालोदये प्राप्ते सम्यक् तैः सन्दधामहे ॥ KK04-04-032-008c
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः । KK04-04-032-009a
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ KK04-04-032-009c
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत । KK04-04-032-010a
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ॥ KK04-04-032-010c
अप्रहृष्टं प्रहृष्टं वा सन्दधाम तथा परैः । KK04-04-032-011a
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ॥ KK04-04-032-011c
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् । KK04-04-032-012a
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ॥ KK04-04-032-012c
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि । KK04-04-032-013a
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः । KK04-04-032-013c
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥ KK04-04-032-013e
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः । KK04-04-032-014a
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ KK04-04-032-014c
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः । KK04-04-032-015a
ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् । KK04-04-032-015c
मुहूर्तमनुसञ्चिन्त्य सचिवानिदमब्रवीत् ॥ KK04-04-032-015e
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि । KK04-04-032-016a
धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये । KK04-04-032-016c
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ॥ KK04-04-032-016e
सत्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे । KK04-04-032-017a
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे ॥ KK04-04-032-017c
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि । KK04-04-032-018a
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ॥ KK04-04-032-018c
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् । KK04-04-032-019a
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥ KK04-04-032-019c
अन्योन्यानन्तरबलाः परस्परजयैषिणः । KK04-04-032-020a
बाहुयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ॥ KK04-04-032-020c
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम् । KK04-04-032-021a
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ॥ KK04-04-032-021c
तत्राहं कीचकं मन्ये भीमसेनेन मारितम् । KK04-04-032-022a
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ॥ KK04-04-032-022c
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः । KK04-04-032-023a
गन्धर्वव्यपदेशेन हतो निशि महाबलः ॥ KK04-04-032-023c
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा । KK04-04-032-024a
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ॥ KK04-04-032-024c
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् । KK04-04-032-025a
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ॥ KK04-04-032-025c
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः । KK04-04-032-026a
गन्धर्वव्यपदेशेन हता निशि न संशयः ॥ KK04-04-032-026c
पितामहेन ये चोक्ता देशस्य च जनस्य च । KK04-04-032-027a
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ॥ KK04-04-032-027c
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः । KK04-04-032-028a
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ॥ KK04-04-032-028c
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् । KK04-04-032-029a
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः ॥ KK04-04-032-029c
अपूर्णे समये चापि यदि पश्येम पाण्डवान् । KK04-04-032-030a
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ॥ KK04-04-032-030c
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति । KK04-04-032-031a
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ॥ KK04-04-032-031c
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा । KK04-04-032-032a
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ॥ KK04-04-032-032c
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम् । KK04-04-032-033a
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ॥ KK04-04-032-033c
वैशम्पायन उवाच KK04-04-032-034
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः । KK04-04-032-034a
पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च । KK04-04-032-034c
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥ KK04-04-032-034e
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः । KK04-04-032-035a
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ॥ KK04-04-032-035c
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो । KK04-04-032-036a
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ॥ KK04-04-032-036c
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ॥ KK04-04-032-037ac
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवत्पुरा । KK04-04-032-038a
अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः । KK04-04-032-038c
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ॥ KK04-04-032-038e
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः । KK04-04-032-039a
भविष्यति निरुत्साहो विराट इति मे मतिः ॥ KK04-04-032-039c
तत्र यात्रा मम मता यदि ते रोचतेऽनघ । KK04-04-032-040a
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ KK04-04-032-040c
एतत्कार्यमहं मन्ये परमात्ययिकं महत् । KK04-04-032-041a
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ॥ KK04-04-032-041c
आददामोऽस्य रत्नानि विविधानि वसूनि च । KK04-04-032-042a
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ KK04-04-032-042c
अथवा गोसहस्राणि बहूनि शुभदर्शन । KK04-04-032-043a
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ॥ KK04-04-032-043c
कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशाम्पते । KK04-04-032-044a
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ॥ KK04-04-032-044c
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् । KK04-04-032-045a
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥ KK04-04-032-045c
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् । KK04-04-032-046a
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥ KK04-04-032-046c
वैशम्पायन उवाच KK04-04-032-047
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ॥ KK04-04-032-047ac
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः । KK04-04-032-048a
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् ॥ KK04-04-032-048c
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते । KK04-04-032-049a
प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ॥ KK04-04-032-049c
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः । KK04-04-032-050a
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ॥ KK04-04-032-050c
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् । KK04-04-032-051a
सम्मन्त्र्य चाशु गच्छामः साधनार्थं महीपते ॥ KK04-04-032-051c
किन्नु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः । KK04-04-032-052a
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ॥ KK04-04-032-052c
तद्भवांश्चतुरङ्गेण बलेन महता वृतः । KK04-04-032-053a
विराटनगरं यातु सर्वसैन्येन भारत । KK04-04-032-053c
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ॥ KK04-04-032-053e
वैशम्पायन उवाच KK04-04-032-054
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत् । KK04-04-032-054a
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् । KK04-04-032-054c
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ॥ KK04-04-032-054e
दुर्योधन उवाच KK04-04-032-055
सह वृद्धैस्तु सम्मन्त्र्य क्षिप्रं योजय वाहिनीम् । KK04-04-032-055a
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ॥ KK04-04-032-055c
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः । KK04-04-032-056a
त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः । KK04-04-032-056c
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ॥ KK04-04-032-056e
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे । KK04-04-032-057a
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ॥ KK04-04-032-057c
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने । KK04-04-032-058a
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ॥ KK04-04-032-058c
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः । KK04-04-032-059a
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ॥ KK04-04-032-059c
तथा गत्वा यथोद्देशं विराटनगरान्तिके । KK04-04-032-060a
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ॥ KK04-04-032-060c
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च । KK04-04-032-061a
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ॥ KK04-04-032-061c
वैशम्पायन उवाच KK04-04-032-062
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः । KK04-04-032-062a
सन्नद्धा रथिनः सर्वे सपताका बलोत्कटाः । KK04-04-032-062c
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ॥ KK04-04-032-062e
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ॥ KK04-04-032-063ac
अपरे दिवसे सर्वे राजन्सम्भूय कौरवाः । KK04-04-032-064a
नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः । KK04-04-032-064c
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ॥ ॥ KK04-04-032-064e

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

4-32-31 तस्मादनन्तरेणापि लाभोऽस्माकमिति ध. पाठः । तस्मात् गोग्रहणात् अनन्तरेण युद्धायागतपाण्डवदर्शनेन ॥ 31 ॥ 4-32-32 युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति बहुव्रीहिः ॥ 32 ॥ 4-32-63 कृष्णपक्षस्य सप्तमीमिति अष्टम्यां तेऽन्यगृह्णन्तेति च. थ. पाठः ॥ 63 ॥ 4-32- 64 विषयान्तरे उत्तरभागे ॥ 64 ॥