अध्यायः 031

द्रोणेन दुर्योधनम् प्रति पाण्डवानां धार्मिकत्वादिगुणशालितया विनाशाभावनिर्धारणेन तदन्वेषणविधानम् ॥ 1 ॥ भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् ॥ 2 ॥ वैशम्पायन उवाच KK04-04-031-001
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान् । KK04-04-031-001a
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ KK04-04-031-001c
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः । KK04-04-031-002a
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ॥ KK04-04-031-002c
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम् । KK04-04-031-003a
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ॥ KK04-04-031-003c
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् । KK04-04-031-004a
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ॥ KK04-04-031-004c
तेषां तथाविधेयानां निभृतानां महात्मनाम् । KK04-04-031-005a
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ॥ KK04-04-031-005c
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः । KK04-04-031-006a
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ॥ KK04-04-031-006c
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् । KK04-04-031-007a
क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥ KK04-04-031-007c
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् । KK04-04-031-008a
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ॥ KK04-04-031-008c
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् । KK04-04-031-009a
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ॥ KK04-04-031-009c
शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः । KK04-04-031-010a
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ॥ KK04-04-031-010c
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे । KK04-04-031-011a
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ॥ KK04-04-031-011c
विविधैस्तत्परैः सम्यङ्निर्भीकैस्तज्ज्ञसम्मतैः । KK04-04-031-012a
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ KK04-04-031-012c
ततः शान्तनवो धीमान्भारतानां पितामहः । KK04-04-031-013a
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ॥ KK04-04-031-013c
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः । KK04-04-031-014a
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसम्मितम् ॥ KK04-04-031-014c
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम् । KK04-04-031-015a
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ॥ KK04-04-031-015c
असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा । KK04-04-031-016a
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ॥ KK04-04-031-016c
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित् । KK04-04-031-017a
श्रुतवृत्तोपसम्पन्ना नाशं नायान्ति पाण्डवाः ॥ KK04-04-031-017c
सर्वलक्षणसम्पन्नाः साधुवृत्तसमन्विताः । KK04-04-031-018a
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ॥ KK04-04-031-018c
समयं समयज्ञास्ते पालयन्तः शुभव्रताः । KK04-04-031-019a
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ॥ KK04-04-031-019c
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः । KK04-04-031-020a
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ॥ KK04-04-031-020c
क्षत्रधर्मरता नित्यं केशवानुगताः सदा । KK04-04-031-021a
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ॥ KK04-04-031-021c
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु । KK04-04-031-022a
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ॥ KK04-04-031-022c
यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् । KK04-04-031-023a
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ॥ KK04-04-031-023c
न त्वियं साधु वक्तव्या तस्य नीतिः कथञ्चन । KK04-04-031-024a
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ KK04-04-031-024c
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः । KK04-04-031-025a
निवासं पाण्डुपुत्राणां सञ्चिन्त्य च वदाम्यहम् । KK04-04-031-025c
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ KK04-04-031-025e
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता । KK04-04-031-026a
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ॥ KK04-04-031-026c
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः । KK04-04-031-027a
निवासं पाण्डुपुत्राणां शृणुष्व मनुजाधिप ॥ KK04-04-031-027c
[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः । KK04-04-031-028a
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ॥ KK04-04-031-028c
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव । KK04-04-031-029a
क्लेशितश्च पुरे नित्यं राज्यकामैश्च साम्प्रतम् । KK04-04-031-029c
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ॥ KK04-04-031-029e
वर्षमेकं सुसञ्च्छन्नमुष्य वासमनुत्तमम् । KK04-04-031-030a
आयाति चोदये काले क्षिप्रं द्रक्ष्यसि पाण्डवम् ॥ KK04-04-031-030c
सोदरैः सहितं वीरं द्रौपद्या च परन्तप । KK04-04-031-031a
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ॥ KK04-04-031-031c
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः । KK04-04-031-032a
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ॥ KK04-04-031-032c
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ] । KK04-04-031-033a
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ॥ KK04-04-031-033c
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः । KK04-04-031-034a
प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः । KK04-04-031-034c
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ॥ KK04-04-031-034e
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी । KK04-04-031-035a
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ॥ KK04-04-031-035c
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च । KK04-04-031-036a
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ KK04-04-031-036c
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः । KK04-04-031-037a
सम्पन्नसस्या च मही भविष्यति निरामया ॥ KK04-04-031-037c
रसवन्ति च धान्यानि गुणवन्ति फलानि च । KK04-04-031-038a
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ KK04-04-031-038c
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः । KK04-04-031-039a
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ॥ KK04-04-031-039c
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत । KK04-04-031-040a
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ॥ KK04-04-031-040c
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम् । KK04-04-031-041a
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ॥ KK04-04-031-041c
पयांसि दधिसर्पींषि रसवन्ति हितानि च । KK04-04-031-042a
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ॥ KK04-04-031-042c
गुणवन्ति च पानानि भोज्यानि विविधानि च । KK04-04-031-043a
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ KK04-04-031-043c
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः । KK04-04-031-044a
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ KK04-04-031-044c
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः । KK04-04-031-045a
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे । KK04-04-031-045c
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ॥ KK04-04-031-045e
सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः । KK04-04-031-046a
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ॥ KK04-04-031-046c
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः । KK04-04-031-047a
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ॥ KK04-04-031-047c
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः । KK04-04-031-048a
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ॥ KK04-04-031-048c
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः । KK04-04-031-049a
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ॥ KK04-04-031-049c
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः । KK04-04-031-050a
किम्पुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ॥ KK04-04-031-050c
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा । KK04-04-031-051a
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ KK04-04-031-051c
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः । KK04-04-031-052a
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ॥ KK04-04-031-052c
एवमेतत्तु सञ्चिन्त्य यत्कृत्यं साधु मन्यसे । KK04-04-031-053a
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे । KK04-04-031-053c
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ॥ ॥ KK04-04-031-053e

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥