अध्यायः 030

दुर्योधनादिभिः पाण्डवान्वेषणाय समालोचनम् ॥ 1 ॥ वैशम्पायन उवाच KK04-04-030-001
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा । KK04-04-030-001a
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ KK04-04-030-001c
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः । KK04-04-030-002a
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ KK04-04-030-002c
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च । KK04-04-030-003a
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ KK04-04-030-003c
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः । KK04-04-030-004a
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ KK04-04-030-004c
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः । KK04-04-030-005a
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ KK04-04-030-005c
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया । KK04-04-030-006a
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ KK04-04-030-006c
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः । KK04-04-030-007a
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ KK04-04-030-007c
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम् । KK04-04-030-008a
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ KK04-04-030-008c
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना । KK04-04-030-009a
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ KK04-04-030-009c
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत । KK04-04-030-010a
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ KK04-04-030-010c
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् । KK04-04-030-011a
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ KK04-04-030-011c
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च । KK04-04-030-012a
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ KK04-04-030-012c
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च । KK04-04-030-013a
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ KK04-04-030-013c
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनीतया । KK04-04-030-014a
विविधैस्तत्परैः सम्यङ्निपुणैस्तज्ज्ञसम्मतैः ॥ KK04-04-030-014c
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः । KK04-04-030-015a
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ KK04-04-030-015c
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप । KK04-04-030-016a
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ KK04-04-030-016c
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् । KK04-04-030-017a
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ KK04-04-030-017c
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः । KK04-04-030-018a
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ KK04-04-030-018c
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः । KK04-04-030-019a
एते चान्ये च बहवो देशांश्च नगराणि च ॥ KK04-04-030-019c
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते । KK04-04-030-020a
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ KK04-04-030-020c
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः । KK04-04-030-021a
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ KK04-04-030-021c
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः । KK04-04-030-022a
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ KK04-04-030-022c
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च । KK04-04-030-023a
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ ॥ KK04-04-030-023c

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥