अध्यायः 029
पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य दुर्योधनम् प्रति स्वेषाम् पाण्डवानवगतिनिवेदनपूर्वकं कीचकवधनिवेदनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-029-001
कीचके तु हते राजा विराटः परवीरहा । KK04-04-029-001a
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ KK04-04-029-001c
कीचकस्य वधं घोरं सानुजस्य विशाम्पते । KK04-04-029-002a
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ KK04-04-029-002c
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः । KK04-04-029-003a
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ KK04-04-029-003c
साम्पराये परिक्रुष्टो बलवान्दुर्जयो रणे । KK04-04-029-004a
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः । KK04-04-029-004c
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ KK04-04-029-004e
इत्यजल्पन्महाराज कीचकस्य विनाशनम् । KK04-04-029-005a
देशेदेशे मनुष्याश्च विस्मिताः कीचके हते ॥ KK04-04-029-005c
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः । KK04-04-029-006a
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ KK04-04-029-006c
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः । KK04-04-029-007a
कृतसङ्केतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ KK04-04-029-007c
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् । KK04-04-029-008a
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ KK04-04-029-008c
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना । KK04-04-029-009a
सङ्गतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ KK04-04-029-009c
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा । KK04-04-029-010a
आसीनं सूर्यसङ्काशे काञ्चने परमासने ॥ KK04-04-029-010c
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् । KK04-04-029-011a
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ KK04-04-029-011c
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः । KK04-04-029-012a
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ KK04-04-029-012c
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा । KK04-04-029-013a
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ KK04-04-029-013c
निर्जने व्यालसङ्कीर्णे नानाभ्रमरसङ्कुले । KK04-04-029-014a
लताप्रतानगहने नानागुल्मसमावृते ॥ KK04-04-029-014c
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः । KK04-04-029-015a
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ KK04-04-029-015c
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च । KK04-04-029-016a
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ KK04-04-029-016c
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् । KK04-04-029-017a
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ KK04-04-029-017c
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु । KK04-04-029-018a
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च ॥ KK04-04-029-018c
गह्वरेषु च दुर्गेषु ग्रामेषूपवनेषु च । KK04-04-029-019a
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च । KK04-04-029-019c
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ KK04-04-029-019e
वर्त्मन्यन्विच्छमानास्तु रथानां रथिसत्तम । KK04-04-029-020a
कञ्चित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ KK04-04-029-020c
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः । KK04-04-029-021a
प्राप्ता द्वारवतीं सूता विना पार्थैः परन्तप ॥ KK04-04-029-021c
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः । KK04-04-029-022a
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ KK04-04-029-022c
निर्वृतो भव नष्टास्ते स्वस्थो भव परन्तप । KK04-04-029-023a
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ KK04-04-029-023c
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना । KK04-04-029-024a
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता । KK04-04-029-024c
अन्वेषिता च सर्वत्र न च पश्याम पाण्डवान् ॥ KK04-04-029-024e
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते । KK04-04-029-025a
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ KK04-04-029-025c
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ KK04-04-029-026ac
येन त्रिगर्ता निहता बलेन बहुशो नृप । KK04-04-029-027a
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा । KK04-04-029-027c
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ KK04-04-029-027e
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः । KK04-04-029-028a
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ KK04-04-029-028c
उत्साहवान्महावीर्यो नीतिमान्बलवानपि । KK04-04-029-029a
युद्धज्ञो रिपुवीर्यघ्नः सिंहतुल्यपराक्रमः ॥ KK04-04-029-029c
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् । KK04-04-029-030a
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ KK04-04-029-030c
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः । KK04-04-029-031a
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ KK04-04-029-031c
स हतो निशि गन्धर्वैः स्त्रीनिमित्तं नराधिप । KK04-04-029-032a
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः । KK04-04-029-032c
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ KK04-04-029-032e
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी । KK04-04-029-033a
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ KK04-04-029-033c
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ KK04-04-029-034ac
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः । KK04-04-029-035a
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति । KK04-04-029-035c
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ KK04-04-029-035e
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह । KK04-04-029-036a
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ KK04-04-029-036c
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् । KK04-04-029-037a
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ ॥ KK04-04-029-037c
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि एकोऽनत्रिंशोऽध्यायः ॥ 29 ॥