अध्यायः 028

पौरैर्विराटम् प्रति सानुजकीचकनिधननिवेदनपूर्वकं नगराद्द्रौपदीनिष्कासनप्रार्थना ॥ 1 ॥ सुदेष्णया विराटनियोगाद्द्रौपदीम् प्रति स्वपुरान्निर्गमनचोदना ॥ 2 ॥ तथा द्रौपद्या मासावधिस्ववासाभ्यनुज्ञानप्रार्थनायां तदङ्गीकरणम् ॥ 3 ॥ वैशम्पायन उवाच KK04-03-028-001
ते दृष्ट्वा निहतान्सूतान्भीमसेनेन भारत । KK04-03-028-001a
पौराश्च सहिताः सर्वे राज्ञे गत्वा न्यवेदयन् । KK04-03-028-001c
गन्धर्वेण हता राजन्सूतपुत्राः परश्शतम् ॥ KK04-03-028-001e
यथा वज्रेण दीर्णं वै पर्वतस्य महच्छिरः । KK04-03-028-002a
विनिकार्णाः प्रदृश्यन्ते तथा सूता महीतले ॥ KK04-03-028-002c
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम् । KK04-03-028-003a
सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ KK04-03-028-003c
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः । KK04-03-028-004a
पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ KK04-03-028-004c
यथा सैरन्ध्रिदोषेण नेदं राजन्पुरं तव । KK04-03-028-005a
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम् ॥ KK04-03-028-005c
सर्वाङ्गसौष्ठवयुतां रूपलावण्यशालिनीम् । KK04-03-028-006a
पश्यतामनिमेषेण चक्षुषा वनितां शुभाम् । KK04-03-028-006c
मनसश्चक्षुषश्चैव प्रतिबन्धो न विद्यते ॥ KK04-03-028-006e
तस्मात्तां यः पुमान्दृष्ट्वा रूपेणाप्रतिमां भुवि । KK04-03-028-007a
गच्छेत्कामवशं मूढो गन्धर्वैः स निहन्यते ॥ KK04-03-028-007c
निष्कासयैनां भवनात्पुराच्चैव विशेषतः । KK04-03-028-008a
कालः प्रविश्य सैरन्ध्रीं पुरं नाशयते ध्रुवम् ॥ KK04-03-028-008c
वैशम्पायन उवाच KK04-03-028-009
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः । KK04-03-028-009a
अब्रवीत्क्रियतामेषां सूतानामपरक्रिया ॥ KK04-03-028-009c
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने । KK04-03-028-010a
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः ॥ KK04-03-028-010c
इत्युक्त्वा परमोद्वग्नः प्रविश्यान्तःपुरं शुभम् । KK04-03-028-011a
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ॥ KK04-03-028-011c
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह । KK04-03-028-012a
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना । KK04-03-028-012c
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात् ॥ KK04-03-028-012e
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् । KK04-03-028-013a
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ KK04-03-028-013c
वैशम्पायन उवाच KK04-03-028-014
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने । KK04-03-028-014a
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः ॥ KK04-03-028-014c
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च । KK04-03-028-015a
मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ KK04-03-028-015c
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी । KK04-03-028-016a
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह ॥ KK04-03-028-016c
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश । KK04-03-028-017a
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन् ॥ KK04-03-028-017c
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः । KK04-03-028-018a
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः ॥ KK04-03-028-018c
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः । KK04-03-028-019a
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः ॥ KK04-03-028-019c
ततो महानसद्वारे भीमसेनमवस्थितम् । KK04-03-028-020a
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ KK04-03-028-020c
सोपहासं तु शनकैः सञ्ज्ञाभिरिदमब्रवीत् । KK04-03-028-021a
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता ॥ KK04-03-028-021c
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे । KK04-03-028-022a
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते ॥ KK04-03-028-022c
भीम उवाच KK04-03-028-023
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः । KK04-03-028-023a
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः ॥ KK04-03-028-023c
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः । KK04-03-028-024a
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः ॥ KK04-03-028-024c
वैशम्पायन उवाच KK04-03-028-025
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः । KK04-03-028-025a
ततः पाञ्चालराजस्य सुता चापि जगाम ह ॥ KK04-03-028-025c
ततः सा नर्तनागारे धनञ्जयमपश्यत । KK04-03-028-026a
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम् ॥ KK04-03-028-026c
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः । KK04-03-028-027a
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ KK04-03-028-027c
कन्या ऊचुः KK04-03-028-028
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता । KK04-03-028-028a
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ KK04-03-028-028c
बृहन्नलोवाच KK04-03-028-029
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः । KK04-03-028-029a
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम् ॥ KK04-03-028-029c
सैरन्ध्र्युवाच KK04-03-028-030
बृहन्नले किन्नु तव सैरन्ध्र्या कार्यमद्य वै । KK04-03-028-030a
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखम् ॥ KK04-03-028-030c
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते । KK04-03-028-031a
सुखेन वर्तसे येह न तद्दुःखमवाप्यते । KK04-03-028-031c
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि ॥ KK04-03-028-031e
बृहन्नलोवाच KK04-03-028-032
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम् । KK04-03-028-032a
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे ॥ KK04-03-028-032c
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता । KK04-03-028-033a
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने । KK04-03-028-033c
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत् ॥ KK04-03-028-033e
न तु केनचिदत्यन्तं कस्यचिद्धृदयं क्वचित् । KK04-03-028-034a
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ KK04-03-028-034c
वैशम्पायन उवाच KK04-03-028-035
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् । KK04-03-028-035a
प्रविवेश सुदेष्णायाः समीपमनसूयिनी ॥ KK04-03-028-035c
तामब्रवीद्राजपत्नी विराटवचनादिदम् । KK04-03-028-036a
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् । KK04-03-028-036c
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात् ॥ KK04-03-028-036e
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि । KK04-03-028-037a
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे ॥ KK04-03-028-037c
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च । KK04-03-028-038a
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे ॥ KK04-03-028-038c
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः । KK04-03-028-039a
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः ॥ KK04-03-028-039c
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते । KK04-03-028-040a
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत् ॥ KK04-03-028-040c
वैशम्पायन उवाच KK04-03-028-041
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत् । KK04-03-028-041a
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि ॥ KK04-03-028-041c
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः । KK04-03-028-042a
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम् ॥ KK04-03-028-042c
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः । KK04-03-028-043a
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे । KK04-03-028-043c
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः ॥ KK04-03-028-043e
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय । KK04-03-028-044a
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति ॥ KK04-03-028-044c
वैशम्पायन उवाच KK04-03-028-045
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता । KK04-03-028-045a
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता ॥ KK04-03-028-045c
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता । KK04-03-028-046a
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः ॥ KK04-03-028-046c
इत्युक्त्वा राजशार्दूल राज्ञे सर्वं न्यवेदयत् । KK04-03-028-047a
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ॥ KK04-03-028-047c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

4-28-1 गन्धर्वैर्निहता राजन्निति ख. थ. ध. पाठः ॥ 1 ॥ 4-28-5 तथा नीतिर्विधीयतामिति ध. पाठः ॥ 5 ॥