अध्यायः 027

भ्रातृवधामर्षितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् ॥ 1 ॥ द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानाम् पञ्चाधिकशतस्य पञ्चताप्रापणम् ॥ 2 ॥ भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेषणपूर्वकम् महानसप्रवेशः ॥ 3 ॥ वैशम्पायन उवाच KK04-03-027-001
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः । KK04-03-027-001a
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ KK04-03-027-001c
सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् । KK04-03-027-002a
तथा सम्भुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ KK04-03-027-002c
पोथितं भीमसेनेन महेन्द्रेणेव दानवम् । KK04-03-027-003a
कीचकं बलसम्मत्तं दुर्धर्षं येन केन चित् ॥ KK04-03-027-003c
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् । KK04-03-027-004a
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ KK04-03-027-004c
अपश्यन्नथ ते कृष्णां सूतपुत्राः समागताः । KK04-03-027-005a
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ KK04-03-027-005c
समागतेषु सूतेषु तानुवाचोपकीचकः । KK04-03-027-006a
हसन्निव तदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ KK04-03-027-006c
हन्यतां शीघ्रमसती यत्कृते कीचको हतः । KK04-03-027-007a
अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ KK04-03-027-007c
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा । KK04-03-027-008a
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ KK04-03-027-008c
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति । KK04-03-027-009a
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् । KK04-03-027-009c
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ KK04-03-027-009e
वैशम्पायन उवाच KK04-03-027-010
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् । KK04-03-027-010a
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ KK04-03-027-010c
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया । KK04-03-027-011a
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ KK04-03-027-011c
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत । KK04-03-027-012a
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ KK04-03-027-012c
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः । KK04-03-027-013a
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ KK04-03-027-013c
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च । KK04-03-027-014a
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ KK04-03-027-014c
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु । KK04-03-027-015a
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ KK04-03-027-015c
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च । KK04-03-027-016a
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा । KK04-03-027-016c
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ KK04-03-027-016e
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता । KK04-03-027-017a
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ KK04-03-027-017c
मृतेन सह बद्धाङ्गी निराशा जीविते तदा । KK04-03-027-018a
श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ KK04-03-027-018c
द्रौपद्युवाच KK04-03-027-019
जयो जयेशो विजयो जयत्सेनो जयद्बलः । KK04-03-027-019a
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ KK04-03-027-019c
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् । KK04-03-027-020a
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ KK04-03-027-020c
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः । KK04-03-027-021a
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ KK04-03-027-021c
रथघोषश्च बलवान्गन्धर्वाणां तरस्विनाम् । KK04-03-027-022a
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ KK04-03-027-022c
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः । KK04-03-027-023a
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखिताम् ॥ KK04-03-027-023c
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः । KK04-03-027-024a
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ KK04-03-027-024c
भीम उवाच KK04-03-027-025
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः । KK04-03-027-025a
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ KK04-03-027-025c
वैशम्पायन उवाच KK04-03-027-026
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ KK04-03-027-026ac
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च । KK04-03-027-027a
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ KK04-03-027-027c
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् । KK04-03-027-028a
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ KK04-03-027-028c
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् । KK04-03-027-029a
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ KK04-03-027-029c
चितासमीपं गत्वा स तत्रापश्यन्महाबलः । KK04-03-027-030a
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ KK04-03-027-030c
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च । KK04-03-027-031a
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ KK04-03-027-031c
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ KK04-03-027-032ac
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः । KK04-03-027-033a
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः ॥ KK04-03-027-033c
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः । KK04-03-027-034a
भूमौ निपतिता वृक्षाः सभग्नास्तत्र शेरते ॥ KK04-03-027-034c
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् । KK04-03-027-035a
वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ KK04-03-027-035c
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः । KK04-03-027-036a
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः । KK04-03-027-036c
परस्परमथोचुस्ते विषादभयमोहिताः ॥ KK04-03-027-036e
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् । KK04-03-027-037a
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः । KK04-03-027-037c
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ KK04-03-027-037e
वैशम्पायन उवाच KK04-03-027-038
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् । KK04-03-027-038a
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ KK04-03-027-038c
द्रवतस्तांश्च सम्प्रेक्ष्य स वज्री दानवानिव । KK04-03-027-039a
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ KK04-03-027-039c
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ KK04-03-027-040ac
दृष्ट्वा ताञ्शतसङ्ख्याकान्स वज्री दानवानिव । KK04-03-027-041a
एकेनैव प्रहारेण दश सप्त च विंशतिम् । KK04-03-027-041c
अष्टादश च पञ्चाशज्जघान स वृकोदरः ॥ KK04-03-027-041e
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् । KK04-03-027-042a
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली । KK04-03-027-042c
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ KK04-03-027-042e
तान्निहत्य महाबाहुर्भीमसेनो महाबलः । KK04-03-027-043a
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ KK04-03-027-043c
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः । KK04-03-027-044a
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ KK04-03-027-044c
मा खिदस्त्वं याज्ञसेनि पातिव्रत्यव्रते स्थिता । KK04-03-027-045a
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः ॥ KK04-03-027-045c
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः । KK04-03-027-046a
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ KK04-03-027-046c
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः । KK04-03-027-047a
तद्भर्तृरूपं सन्त्यज्य रक्षो भूत्वा सुदारुणम् ॥ KK04-03-027-047c
साम्ना दानेन भेदेन सा यदा नान्वमन्यत । KK04-03-027-048a
तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ KK04-03-027-048c
ततः सा धैर्यमास्थाय विवरं न ददौ तदा । KK04-03-027-049a
ततः स खड्गमुत्कृष्य भीषयामास तां सतीम् ॥ KK04-03-027-049c
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता । KK04-03-027-050a
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ KK04-03-027-050c
आराधितो यदि मया भर्ता मे दैवतं महत् । KK04-03-027-051a
कर्मणा मनसा वाचा गुरवस्तोषिता मया । KK04-03-027-051c
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ KK04-03-027-051e
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् । KK04-03-027-052a
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ KK04-03-027-052c
ततः स खड्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ KK04-03-027-053ac
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् । KK04-03-027-054a
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ] KK04-03-027-054c
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः । KK04-03-027-055a
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ KK04-03-027-055c
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् । KK04-03-027-056a
अन्येनाहं गमिष्यामि विराटस्य महानसम् । KK04-03-027-056c
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ KK04-03-027-056e
वैशम्पायन उवाच KK04-03-027-057
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ॥ KK04-03-027-057c
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा । KK04-03-027-058a
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ॥ KK04-03-027-058c
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः । KK04-03-027-059a
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ॥ KK04-03-027-059c
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव । KK04-03-027-060a
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ॥ KK04-03-027-060c
पञ्चाधिकं शतं तत्र निहतं तेन भारत । KK04-03-027-061a
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ KK04-03-027-061c
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः । KK04-03-027-062a
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ॥ KK04-03-027-062c
न गन्धर्वभयाकिञ्चिद्वक्तुं कीचकबान्धवाः । KK04-03-027-063a
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ॥ KK04-03-027-063c
विराटनगरे चापि सर्वे मात्स्याः समागताः । KK04-03-027-064a
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ॥ KK04-03-027-064c
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः । KK04-03-027-065a
विस्मयं परमं गत्वा नोचुः किञ्चन भारत ॥ ॥ KK04-03-027-065c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ॥ 4-27-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः ताम् प्रति किञ्चिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ॥ 63 ॥