अध्यायः 026

भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ॥ 1 ॥ पश्चात्समागतेन कीचकेन भीमम् प्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं सम्भाषणम् ॥ 2 ॥ भीमेन नियुद्धेन कीचकमारणम् ॥ 3 ॥ पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ॥ 4 ॥ भीम उवाच KK04-03-026-001
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । KK04-03-026-001a
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ KK04-03-026-001c
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः । KK04-03-026-002a
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ KK04-03-026-002c
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति । KK04-03-026-003a
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ KK04-03-026-003c
वैशम्पायन उवाच KK04-03-026-004
एवमुक्त्वा महाबाहुस्तत्र पाण्डवनन्दनः । KK04-03-026-004a
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ KK04-03-026-004c
अवदातेन मृदुना पटेनाच्छादितस्तथा । KK04-03-026-005a
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ KK04-03-026-005c
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् । KK04-03-026-006a
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ KK04-03-026-006c
कीचकस्तु शिरःस्नातो निशायां समलङ्कृतः । KK04-03-026-007a
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ KK04-03-026-007c
तदेव नर्तनागारं पाञ्चाली यदभाषत । KK04-03-026-008a
तां मन्यमानः सङ्केते सैरन्ध्रीं काममोहितः ॥ KK04-03-026-008c
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् । KK04-03-026-009a
पूर्वागतं भीमसेनं दृप्तमप्रतिमौजसम् ॥ KK04-03-026-009c
शयानं शयने तत्र मृत्युं मूढः परामृशत् । KK04-03-026-010a
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ KK04-03-026-010c
एकान्ते भीममासाद्य कीचकः कालचोदितः । KK04-03-026-011a
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ KK04-03-026-011c
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते । KK04-03-026-012a
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ KK04-03-026-012c
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः । KK04-03-026-013a
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ KK04-03-026-013c
अहं रूपेण सम्पन्नः स्नातो गुरुविभूषितः । KK04-03-026-014a
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः । KK04-03-026-014c
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ KK04-03-026-014e
भीम उवाच KK04-03-026-015
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि ॥ KK04-03-026-015a
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता । KK04-03-026-015c
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज । KK04-03-026-016a
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ KK04-03-026-016c
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि । KK04-03-026-017a
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ KK04-03-026-017c
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः । KK04-03-026-018a
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ KK04-03-026-018c
वैशम्पायन उवाच KK04-03-026-019
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः । KK04-03-026-019a
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ KK04-03-026-019c
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि । KK04-03-026-020a
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ KK04-03-026-020c
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति । KK04-03-026-021a
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ KK04-03-026-021c
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ KK04-03-026-022ac
गृहीत्वा कीचकं भीमो विरराज महाबलः । KK04-03-026-023a
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ KK04-03-026-023c
स केशेषु परामृष्टो बलेन बलिनां वरः । KK04-03-026-024a
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ KK04-03-026-024c
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः । KK04-03-026-025a
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ KK04-03-026-025c
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च । KK04-03-026-026a
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ KK04-03-026-026c
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ । KK04-03-026-027a
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ KK04-03-026-027c
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ । KK04-03-026-028a
वृषभाविव वल्मीकं मृद्नन्तौ समविक्रमौ ॥ KK04-03-026-028c
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् । KK04-03-026-029a
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ KK04-03-026-029c
पातितो भीमसेनस्तु कीचकेन बलीयसा । KK04-03-026-030a
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ KK04-03-026-030c
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ । KK04-03-026-031a
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ KK04-03-026-031c
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् । KK04-03-026-032a
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ KK04-03-026-032c
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली । KK04-03-026-033a
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ KK04-03-026-033c
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः । KK04-03-026-034a
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ KK04-03-026-034c
तं हीयमानं विज्ञाय भीमसेनो महाबलः । KK04-03-026-035a
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ KK04-03-026-035c
क्रोधाविष्टो विनिश्वस्य पुनश्चैनं वृकोदरः । KK04-03-026-036a
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ KK04-03-026-036c
गृहीत्वा कीचकं भीमो विरराज महाबलः । KK04-03-026-037a
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ KK04-03-026-037c
पुनश्चातिबलस्तत्र कीचको बलदर्पितः । KK04-03-026-038a
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ KK04-03-026-038c
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् । KK04-03-026-039a
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ KK04-03-026-039c
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् । KK04-03-026-040a
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ KK04-03-026-040c
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ KK04-03-026-041ac
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसङ्घर्षजं बली । KK04-03-026-042a
कृष्णायै दर्शयामास भीमसेनो महाबलः ॥ KK04-03-026-042c
उवाच च महातेजा द्रौपदीं योषितां वराम् । KK04-03-026-043a
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम् । KK04-03-026-043c
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ KK04-03-026-043e
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् । KK04-03-026-044a
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा । KK04-03-026-044c
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ KK04-03-026-044e
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा । KK04-03-026-045a
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ KK04-03-026-045c
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् । KK04-03-026-046a
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ KK04-03-026-046c
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् । KK04-03-026-047a
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ KK04-03-026-047c
ततः कृष्णा यदा मेने गतं भीमं महानसम् । KK04-03-026-048a
कीचकं घातयित्वा च द्रौपदी योषितां वरा । KK04-03-026-048c
प्रहृष्टा गतसन्त्रासा सभापालानुवाच ह ॥ KK04-03-026-048e
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम । KK04-03-026-049a
परस्त्रीकामसन्तप्तं समागच्छन्त पश्यत ॥ KK04-03-026-049c
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः । KK04-03-026-050a
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ KK04-03-026-050c
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः । KK04-03-026-051a
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम् । KK04-03-026-051c
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ KK04-03-026-051e
पार्ष्णिपाणिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ KK04-03-026-052ac
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरः क्व दृक् । KK04-03-026-053a
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ KK04-03-026-053c
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् । KK04-03-026-054a
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥॥ KK04-03-026-054c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥