अध्यायः 025
द्रौपद्या भीमवचनात्कीचकम् प्रति नर्तनशालाया उभयोः समागमे सङ्केतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचोदना ॥ 1 ॥
भीम उवाच KK04-03-025-001
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । KK04-03-025-001a
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ॥ KK04-03-025-001c
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् । KK04-03-025-002a
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ KK04-03-025-002c
यैषा नर्तनशालेह मत्स्यराजेन कारिता । KK04-03-025-003a
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहम् ॥ KK04-03-025-003c
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् । KK04-03-025-004a
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । KK04-03-025-004c
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ॥ KK04-03-025-004e
सङ्केतं सूतपुत्रस्य कारयस्व शुभानने । KK04-03-025-005a
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ॥ KK04-03-025-005c
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् । KK04-03-025-006a
तथा कुर्याश्च सङ्केतं सूतपुत्रस्य संवृतम् ॥ KK04-03-025-006c
आवयोः सङ्गमं भीरु यथा मर्त्यो न बुध्यति । KK04-03-025-007a
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ॥ KK04-03-025-007c
वैशम्पायन उवाच KK04-03-025-008
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ । KK04-03-025-008a
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥ KK04-03-025-008c
भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा । KK04-03-025-009a
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ॥ KK04-03-025-009c
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः । KK04-03-025-010a
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ KK04-03-025-010c
यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् । KK04-03-025-011a
न कञ्चिल्लभसे नाथमभिपन्ना बलीयसा ॥ KK04-03-025-011c
प्रवादेन तु मात्स्यानामयं राजेति चोच्यते । KK04-03-025-012a
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ॥ KK04-03-025-012c
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते । KK04-03-025-013a
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ॥ KK04-03-025-013c
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते । KK04-03-025-014a
दासीशतं च ते दद्यां दासानामपि चापरम् ॥ KK04-03-025-014c
रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु सङ्गमः । KK04-03-025-015a
सुदासानां सहस्रं च महिषाणां सहस्रकम् ॥ KK04-03-025-015c
अन्तःपुरसहस्रं च हेमकूटसहस्रकम् । KK04-03-025-016a
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ॥ KK04-03-025-016c
द्रौपद्युवाच KK04-03-025-017
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक । KK04-03-025-017a
न ते सखा वा भ्राता वा जानीयात्सङ्गमं मया ॥ KK04-03-025-017c
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् । KK04-03-025-018a
अनुबोधादनर्थः स्यादयशश्च महद्भवेत् । KK04-03-025-018c
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ॥ KK04-03-025-018e
कीचक उवाच KK04-03-025-019
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे । KK04-03-025-019a
एकोऽहमागमिष्यामि शून्यमावसथं तव ॥ KK04-03-025-019c
समागमार्थं रम्भोरु त्वया मदनदर्पितः । KK04-03-025-020a
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥ KK04-03-025-020c
द्रौपद्युवाच KK04-03-025-021
यदेतन्नर्तनागारं मात्स्यराजेन कारितम् । KK04-03-025-021a
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहम् ॥ KK04-03-025-021c
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते । KK04-03-025-022a
तत्र दोषः परिहृतो भविष्यति न संशयः ॥ KK04-03-025-022c
एकस्त्वं नर्तनागारं रात्रौ सङ्केतमाव्रज । KK04-03-025-023a
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ॥ KK04-03-025-023c
कीचक उवाच KK04-03-025-024
तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि । KK04-03-025-024a
एकः सन्नर्तनागारमागमिष्यामि भामिनि । KK04-03-025-024c
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ॥ KK04-03-025-024e
यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि । KK04-03-025-025a
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् । KK04-03-025-025c
अलङ्करिष्याम्यद्याहं त्वत्समागमनाय वै ॥ KK04-03-025-025e
वासांसि च विचित्राणि मनोज्ञानि तवापि च । KK04-03-025-026a
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ॥ KK04-03-025-026c
द्रौपद्युवाच KK04-03-025-027
तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् । KK04-03-025-027a
यन्नानुभूतं भवता जन्मप्रभृति कीचक ॥ KK04-03-025-027c
वैशम्पायन उवाच KK04-03-025-028
तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह । KK04-03-025-028a
क्षणमात्रं तदभवन्मासेनैव समं नृप ॥ KK04-03-025-028c
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः । KK04-03-025-029a
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ॥ KK04-03-025-029c
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः । KK04-03-025-030a
अलञ्चक्रे तदाऽऽत्मानं सत्वरः काममोहितः ॥ KK04-03-025-030c
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् । KK04-03-025-031a
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ KK04-03-025-031c
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः । KK04-03-025-032a
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ KK04-03-025-032c
कृतसम्प्रत्ययस्तस्याः कीचकः काममोहितः । KK04-03-025-033a
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ॥ KK04-03-025-033c
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे । KK04-03-025-034a
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ KK04-03-025-034c
तमुवाच सुकेशान्ता कीचकस्य कृतो मया । KK04-03-025-035a
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥ KK04-03-025-035c
कालेन नियतं बद्धः कामेन च बलात्कृतः । KK04-03-025-036a
शून्यं स नर्तनागारमागमिष्यति कीचकः । KK04-03-025-036c
एको निशि महाबाहो कीचकं तं निषूदय ॥ KK04-03-025-036e
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् । KK04-03-025-037a
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ KK04-03-025-037c
गर्वितः सूतपुत्रोऽसौ गन्धर्वानवमन्यते । KK04-03-025-038a
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ॥ KK04-03-025-038c
अस्रं दुःखाभिभूताया मम मार्जस्व भारत । KK04-03-025-039a
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् । KK04-03-025-039c
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ KK04-03-025-039e
भीम उवाच KK04-03-025-040
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् । KK04-03-025-040a
नह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि ॥ KK04-03-025-040c
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे । KK04-03-025-041a
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ॥ KK04-03-025-041c
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते । KK04-03-025-042a
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ KK04-03-025-042c
प्रसह्य निहनिष्यामि केशवः केशिनं यथा । KK04-03-025-043a
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ॥ KK04-03-025-043c
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् । KK04-03-025-044a
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ॥ KK04-03-025-044c
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् । KK04-03-025-045a
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ॥ KK04-03-025-045c
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति । KK04-03-025-046a
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् । KK04-03-025-046c
कुरूणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ॥ KK04-03-025-046e
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् । KK04-03-025-047a
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः । KK04-03-025-047c
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ॥ KK04-03-025-047e
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् । KK04-03-025-048a
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ॥ KK04-03-025-048c
द्रौपद्युवाच KK04-03-025-049
कीचकस्य वधं भीम यदि जानन्ति नागराः । KK04-03-025-049a
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ॥ KK04-03-025-049c
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो । KK04-03-025-050a
निशि गूढं तथा भीम कीचकं तं निपातय ॥ KK04-03-025-050c
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः । KK04-03-025-051a
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ॥ KK04-03-025-051c
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत । KK04-03-025-052a
भीम भीताऽस्मि सम्बोधात्साधु मा चापलं कृथाः ॥ KK04-03-025-052c
यथा न कश्चिज्जानीते सूतपुत्रं त्वया हतम् । KK04-03-025-053a
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन । KK04-03-025-053c
अदृश्यमानस्त्वं तस्य भिन्धि प्राणानरिन्दम ॥ ॥ KK04-03-025-053e
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥