अध्यायः 024

द्रौपदीभीमसंवादः ॥ 1 ॥ द्रौपद्या भीमम् प्रति हटात्कीचकसंहारचोदना ॥ 2 ॥ वैशम्पायन उवाच KK04-03-024-001
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह । KK04-03-024-001a
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ॥ KK04-03-024-001c
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् । KK04-03-024-002a
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ॥ KK04-03-024-002c
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् । KK04-03-024-003a
तज्ज्ञात्वाऽवाङ्मुखस्तूष्णीमास्थितोस्मि महानसम् ॥ KK04-03-024-003c
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि । KK04-03-024-004a
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च । KK04-03-024-004c
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥ KK04-03-024-004e
तदद्य मां तु तपति यत्कृतं न मया पुरा । KK04-03-024-005a
सभायां स्म विराटस्य करोमि कदनं महत् ॥ KK04-03-024-005c
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते । KK04-03-024-006a
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ॥ KK04-03-024-006c
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः । KK04-03-024-007a
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ KK04-03-024-007c
दुःशासनस्य पापस्य यन्मया न हृतं शिरः । KK04-03-024-008a
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ KK04-03-024-008c
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम । KK04-03-024-009a
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम सङ्गताः । KK04-03-024-009c
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ॥ KK04-03-024-009e
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम् । KK04-03-024-010a
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ । KK04-03-024-010c
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ॥ KK04-03-024-010e
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा । KK04-03-024-011a
ह्रीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः । KK04-03-024-011c
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ॥ KK04-03-024-011e
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता । KK04-03-024-012a
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ॥ KK04-03-024-012c
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि । KK04-03-024-013a
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ KK04-03-024-013c
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः । KK04-03-024-014a
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ॥ KK04-03-024-014c
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे । KK04-03-024-015a
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ KK04-03-024-015c
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ॥ KK04-03-024-016ac
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता । KK04-03-024-017a
पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ KK04-03-024-017c
वसन्ती च महारण्ये रामस्य महिषी प्रिया । KK04-03-024-018a
रावणेन हृता सीता राक्षसीभिश्च तर्जिता । KK04-03-024-018c
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ॥ KK04-03-024-018e
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम् । KK04-03-024-019a
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ॥ KK04-03-024-019c
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने । KK04-03-024-020a
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ॥ KK04-03-024-020c
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि । KK04-03-024-021a
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ KK04-03-024-021c
नलं राजानमेवाथ दमयन्ती वनान्तरे । KK04-03-024-022a
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ॥ KK04-03-024-022c
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः । KK04-03-024-023a
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ KK04-03-024-023c
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते । KK04-03-024-024a
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥ KK04-03-024-024c
सत्येन ते शपे चाहं भविता नान्यथेति च ॥ KK04-03-024-025ac
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि । KK04-03-024-026a
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ॥ KK04-03-024-026c
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् । KK04-03-024-027a
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ॥ KK04-03-024-027c
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ॥ KK04-03-024-028ac
द्रौपद्युवाच KK04-03-024-029
आर्तप्रलापा कौन्तेय न राजानमुपालभे । KK04-03-024-029a
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ॥ KK04-03-024-029c
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ॥ KK04-03-024-030ac
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः । KK04-03-024-031a
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ॥ KK04-03-024-031c
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः । KK04-03-024-032a
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने । KK04-03-024-032c
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ॥ KK04-03-024-032e
किमुक्तेन व्यतीतेन भीमसेन महाबल । KK04-03-024-033a
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ KK04-03-024-033c
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता । KK04-03-024-034a
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ KK04-03-024-034c
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः । KK04-03-024-035a
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ॥ KK04-03-024-035c
तमहं कुपिता भीम पुनः कोपं नियम्य च । KK04-03-024-036a
अब्रवं कामसम्मूढमात्मानं रक्ष कीचक ॥ KK04-03-024-036c
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया । KK04-03-024-037a
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ KK04-03-024-037c
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह । KK04-03-024-038a
नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ KK04-03-024-038c
शतं सहस्रमपि वा गन्धर्वाणामहं रणे । KK04-03-024-039a
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ KK04-03-024-039c
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः । KK04-03-024-040a
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ KK04-03-024-040c
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता । KK04-03-024-041a
नेच्छामि किञ्चिद्वध्यं त्वां तस्माज्जीवसि कीचक ॥ KK04-03-024-041c
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः । KK04-03-024-042a
न तिष्ठति स सन्मार्गे न च धर्मं बुभूषति ॥ KK04-03-024-042c
पापात्मा पापकारी च कामराजवशानुगः । KK04-03-024-043a
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ KK04-03-024-043c
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम् । KK04-03-024-044a
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ॥ KK04-03-024-044c
समयं रक्षमाणानां दारा वो न भवन्ति च । KK04-03-024-045a
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । KK04-03-024-045c
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ KK04-03-024-045e
वदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् । KK04-03-024-046a
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ॥ KK04-03-024-046c
पश्यतो धर्मराजस्य कीचको माऽन्वधावत । KK04-03-024-047a
तवैव च समक्षं वै भीमसेन महाबल ॥ KK04-03-024-047c
त्वया चाहं परित्राता भीम तस्माज्जटासुरात् ॥ KK04-03-024-048ac
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह । KK04-03-024-049a
जहीममपि पापिष्ठं योयं मामवमन्यते । KK04-03-024-049c
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ KK04-03-024-049e
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि । KK04-03-024-050a
यो निमित्तमनर्थानां बहूनां मम भारत ॥ KK04-03-024-050c
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति । KK04-03-024-051a
विषमालोड्य पास्यामि मा कीचकवशङ्गमम् ॥ KK04-03-024-051c
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः । KK04-03-024-052a
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ॥ KK04-03-024-052c
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च । KK04-03-024-053a
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ॥ KK04-03-024-053c
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम् । KK04-03-024-054a
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥ KK04-03-024-054c
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम् । KK04-03-024-055a
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥ ॥ KK04-03-024-055c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥

4-24-24 मा दीर्घं क्षम कालं त्वं मासमर्धं च समितमिति झ. पाठः ॥ 24 ॥ 4-24-26 प्राधान्यं कर्तुमर्हसि इति ख. पाठः ॥ 26 ॥ 4-24-33 दुःखस्यान्तकरो भवेति ध. पाठः ॥ 33 ॥