अध्यायः 023
द्रौपद्या भीमम् प्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ॥ 1 ॥
द्रौपद्युवाच KK04-03-023-001
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि । KK04-03-023-001a
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ KK04-03-023-001c
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप । KK04-03-023-002a
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ KK04-03-023-002c
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च । KK04-03-023-003a
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ KK04-03-023-003c
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च । KK04-03-023-004a
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ KK04-03-023-004c
य एव हेतुर्भवति पुरुषस्य जयावहः । KK04-03-023-005a
पराजये च हेतुः स इति च प्रतिपालये ॥ KK04-03-023-005c
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते । KK04-03-023-006a
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ KK04-03-023-006c
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् । KK04-03-023-007a
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ KK04-03-023-007c
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति । KK04-03-023-008a
इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ॥ KK04-03-023-008c
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते । KK04-03-023-009a
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ KK04-03-023-009c
किन्नु मे वचनस्याद्य कथितस्य प्रयोजनम् । KK04-03-023-010a
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ KK04-03-023-010c
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च । KK04-03-023-011a
इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत् ॥ KK04-03-023-011c
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत । KK04-03-023-012a
पाण्डवेयांश्च सम्प्राप्तो मम शोको ह्यरिन्दम ॥ KK04-03-023-012c
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता । KK04-03-023-013a
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ KK04-03-023-013c
नूनं बालतया धातुर्मया वै विप्रियं कृतम् । KK04-03-023-014a
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ KK04-03-023-014c
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् । KK04-03-023-015a
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ KK04-03-023-015c
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा । KK04-03-023-016a
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ॥ KK04-03-023-016c
तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः । KK04-03-023-017a
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ KK04-03-023-017c
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः । KK04-03-023-018a
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ KK04-03-023-018c
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा । KK04-03-023-019a
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ KK04-03-023-019c
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा । KK04-03-023-020a
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ KK04-03-023-020c
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी । KK04-03-023-021a
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ KK04-03-023-021c
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः । KK04-03-023-022a
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ KK04-03-023-022c
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् । KK04-03-023-023a
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः । KK04-03-023-023c
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनम् ॥ KK04-03-023-023e
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा । KK04-03-023-024a
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ KK04-03-023-024c
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन । KK04-03-023-025a
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ॥ KK04-03-023-025c
किन्नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा । KK04-03-023-026a
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ KK04-03-023-026c
वैशम्पायन उवाच KK04-03-023-027
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी । KK04-03-023-027a
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ KK04-03-023-027c
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः । KK04-03-023-028a
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ KK04-03-023-028c
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा । KK04-03-023-029a
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ KK04-03-023-029c
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् । KK04-03-023-030a
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् । KK04-03-023-030c
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ KK04-03-023-030e
पापे निपतितायाश्च किं फलं जीवितेन मे । KK04-03-023-031a
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ KK04-03-023-031c
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः । KK04-03-023-032a
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ KK04-03-023-032c
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् । KK04-03-023-033a
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ ॥ KK04-03-023-033c
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ॥ 6 ॥