अध्यायः 022

कीचकं जिघांसन्त्या द्रौपद्या रात्रौ महानसमेत्य स्वपतो भीमस्य प्रबोधनम् ॥ 1 ॥ तथा कीचकमारणाभावे स्वप्राणविमोक्षणप्रतिज्ञानम् ॥ 2 ॥ तथा युधिष्ठिरादीन्प्रति प्रत्येकं नामनिर्देशपूर्वकमनुशोचनम् ॥ 3 ॥ वैशम्पायन उवाच KK04-03-022-001
सा सूतपुत्राभिहता राजपुत्री सुदुःखिता । KK04-03-022-001a
वधं कृष्णा परीप्सन्ती सूतपुत्रस्य भामिनी ॥ KK04-03-022-001c
जगामावासमेवाथ तदा सा द्रुपदात्मजा । KK04-03-022-002a
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा ॥ KK04-03-022-002c
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा । KK04-03-022-003a
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ॥ KK04-03-022-003c
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम । KK04-03-022-004a
इत्येवं चिन्तयित्वा सा भीमं तं मनसाऽगमत् । KK04-03-022-004c
अन्यः कर्ता विना भीमान्न मेऽद्य मनसेप्सितम् ॥ KK04-03-022-004e
प्रादुर्भूते क्षणे रात्रौ विहाय शयनं स्वकम् । KK04-03-022-005a
दुःखेन महता युक्ता मानसेन मनस्विनी । KK04-03-022-005c
प्राद्रवन्नाथमिच्छन्ती तथा नाथवती सती ॥ KK04-03-022-005e
सा वै महानसं प्राप्य भीमसेनं शुचिस्मिता । KK04-03-022-006a
उपासर्पत पाञ्चाली वासितेव महागजम् ॥ KK04-03-022-006c
सर्वश्वेतेव माहेयी वने वृद्धा त्रिहायणी । KK04-03-022-007a
महर्षभं यथा सुप्तमर्थिनी वननिर्झरे । KK04-03-022-007c
सम्प्रसुप्तं तथा सिंहं मृगराजवधूरिव ॥ KK04-03-022-007e
अभिप्रसार्य बाहुभ्यां पतिं सुप्तं समाश्लिषत् । KK04-03-022-008a
सुजातं गोमतीतीरे सालं वल्लीव पुष्पिता ॥ KK04-03-022-008c
परिस्पृस्य च पाणिभ्यां पतिं सुप्तमबोधयत् । KK04-03-022-009a
श्रीरिवान्या महोत्साहं सुप्तं विष्णुमिवार्णवे । KK04-03-022-009c
क्षौमावदाते शयने शयानं वृषभेक्षणम् ॥ KK04-03-022-009e
यथा शची देवराजं रुद्राणी शङ्करं यथा । KK04-03-022-010a
ब्रह्माणमिव सावित्री देवसेना गुहं यथा ॥ KK04-03-022-010c
दिशागजसमाकारं गजं गजवधूरिव । KK04-03-022-011a
भीमं प्राबोधयत्कान्ता लक्ष्मीर्दामोदरं यथा ॥ KK04-03-022-011c
वीणेव मधुरालापा स्वरं गान्धारमाश्रिता । KK04-03-022-012a
अभ्यभाषत पाञ्चाली कौरवं पाण्डुनन्दनम् ॥ KK04-03-022-012c
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन मृतो यथा । KK04-03-022-013a
न मृतः स हि पापीयान्भार्यामालम्ब्य जीवति ॥ KK04-03-022-013c
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि । KK04-03-022-014a
तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ॥ KK04-03-022-014c
वैशम्पायन उवाच KK04-03-022-015
सुखसुप्तश्च तं शब्दं निशम्य स वृकोदरः । KK04-03-022-015a
संवेदितः कुरुश्रेष्ठः तोत्रैरिव महागजः ॥ KK04-03-022-015c
स वै विहाय शयनं यस्मिन्सुप्तः प्रबोधितः । KK04-03-022-016a
उदतिष्ठदमेयात्मा पर्यङ्के सोत्तरच्छदे ॥ KK04-03-022-016c
उपवेश्य च दुर्धर्षः पाञ्चालकुलवर्धनीम् । KK04-03-022-017a
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ॥ KK04-03-022-017c
केनार्थेन च सम्प्राप्ता त्वरितेव ममान्तिकम् । KK04-03-022-018a
न ते प्रकृतिमान्वर्णः कृशा त्वमभिलक्ष्यसे ॥ KK04-03-022-018c
प्रकाशं यदि वा गुह्यं सर्वमाख्यातुमर्हसि । KK04-03-022-019a
आचक्ष्व त्वमशेषेण सर्वं विद्यामहं यथा ॥ KK04-03-022-019c
सुखं वा यदि वा दुःखं शुभं वा यदि वाऽशुभम् । KK04-03-022-020a
यद्यप्यसुकरं कर्म कृतमित्यवधारय ॥ KK04-03-022-020c
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु । KK04-03-022-021a
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ KK04-03-022-021c
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् । KK04-03-022-022a
गच्छ वै शयनायैव यावदन्यो न बुध्यते ॥ KK04-03-022-022c
वैशम्पायन उवाच KK04-03-022-023
सा लज्जमाना भीता च अधोमुखमुखी ततः । KK04-03-022-023a
नोवाच किञ्चिद्वचनं बाष्पदूषितलोचना ॥ KK04-03-022-023c
अथाब्रवीद्भीमपराक्रमो बली वृकोदरः पाण्डवमुख्यसम्मतः । KK04-03-022-024a
प्रब्रूहि किं ते करवाणि सुन्दरि प्रियं प्रिये वारणमत्तगामिनि ॥ KK04-03-022-024c
द्रौपद्युवाच KK04-03-022-025
अशोच्यता कुतस्तस्या यस्या भर्ता युधिष्ठिरः । KK04-03-022-025a
जानन्सर्वाणि दुःखानि किं मां भीमानुपृच्छसि ॥ KK04-03-022-025c
यन्मां दासीप्रवादेन प्रातिकामी तदाऽनयत् । KK04-03-022-026a
सभायां परिषन्मध्ये तन्मे मर्माणि कृन्तति ॥ KK04-03-022-026c
विकृष्टा हास्तिनपुरे सभायां राजसंसदि । KK04-03-022-027a
दुःशासनेन केशान्ते परामृष्टा रजस्वला ॥ KK04-03-022-027c
क्षत्रियैस्तत्र कर्णाद्यैर्दृष्टा दुर्योधनेन च । KK04-03-022-028a
श्वशुराभ्यां च भीष्मेण विदुरेण च धीमता । KK04-03-022-028c
द्रोणेन च महाबाहो कृपेण च परन्तप ॥ KK04-03-022-028e
साऽहं श्वशुरयोर्मध्ये भ्रातृमध्ये च पाण्डव । KK04-03-022-029a
केशे गृहीत्वा च सभां नीता जीवति वै त्वयि ॥ KK04-03-022-029c
विप्रमुक्ता ततश्चाहं वने राज्याद्वनं गता । KK04-03-022-030a
साऽहं वने दुर्वसतिं वसती त्वध्वकर्शिता । KK04-03-022-030c
जटासुरपरिक्लेशात्प्राप्तापि सुमहद्भयम् ॥ KK04-03-022-030e
पार्थिवस्य सुता नाम कानु जीवेत मादृशी । KK04-03-022-031a
अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ KK04-03-022-031c
वनवासगता चाहं सैन्धवेन दुरात्मना । KK04-03-022-032a
परामृष्टा द्वितीयं च सोढुमुत्सहते तु का ॥ KK04-03-022-032c
पद्भ्यां पर्यचरं चाहं देशान्विषमसंस्थितान् । KK04-03-022-033a
दुर्गाञ्श्वापदसङ्कीर्णांस्त्वयि जीवति पाण्डवे ॥ KK04-03-022-033c
ततोऽहं द्वादशे वर्षे वन्यमूलफलाशना । KK04-03-022-034a
इदं पुरमनुप्राप्ता सुदेष्णापरिचारिका । KK04-03-022-034c
परस्त्रियमुपातिष्ठे सत्यधर्मपरायणा ॥ KK04-03-022-034e
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् । KK04-03-022-035a
नित्यं पिषे विराटस्य त्वयि जीवति पाण्डव ॥ KK04-03-022-035c
साऽहं बहूनिः दुःखानि गणयामि न ते कृते ॥ KK04-03-022-036ac
मत्स्यराजसमक्षं तु तस्य धूर्तस्य पश्यतः । KK04-03-022-037a
कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ KK04-03-022-037c
एवं बहुविधैर्दुःखैः क्लिश्यमाना च पाण्डव । KK04-03-022-038a
न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ KK04-03-022-038c
द्रुपदस्य सुता चाहं धृष्टद्युम्नस्य चानुजा । KK04-03-022-039a
अग्निकुण्डात्समुद्भूता नोर्व्यां जातु चराम्यहम् ॥ KK04-03-022-039c
कीचकं चेन्न हन्यास्त्वं ग्रीवां बद्ध्वा जले म्रिये । KK04-03-022-040a
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् ॥ KK04-03-022-040c
आत्मानं नाशयिष्यामि वृक्षमारुह्य वा पते । KK04-03-022-041a
शस्त्रेणाङ्गं च भेत्स्यामि किं फलं जीवितेन मे ॥ KK04-03-022-041c
योऽयं राज्ञो विराटस्य कीचको नाम भारत । KK04-03-022-042a
सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ KK04-03-022-042c
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि । KK04-03-022-043a
नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ KK04-03-022-043c
तेनैवमुच्यमानाया वधार्हेणारिसूदन । KK04-03-022-044a
कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ KK04-03-022-044c
शरणं भव कौन्तेय मा स्म गच्छे युधिष्ठिरम् । KK04-03-022-045a
निरुद्योगं निरामर्षं निर्वीर्यमरिमर्दन ॥ KK04-03-022-045c
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ KK04-03-022-046ac
विजानामि तवामर्षं बलं वीर्यं च पाण्डव । KK04-03-022-047a
ततोऽहं परिदेवामि चाग्रतस्ते महाबल ॥ KK04-03-022-047c
यथा यूथपतिर्मत्तः कुञ्जरः षाष्टिहायनः । KK04-03-022-048a
भूमौ निपतितं बिल्वं पद्भ्यामाक्रम्य पीडयेत् ॥ KK04-03-022-048c
तथैव च शिरस्तस्य निपात्य धरणीतले । KK04-03-022-049a
वामेन पुरुषव्याघ्र मर्द पादेन पाण्डव ॥ KK04-03-022-049c
स चेदुद्यन्तमादित्यं प्रातरुत्थाय पश्यति । KK04-03-022-050a
कीचकः शर्वरीं व्युष्टां नाहं जीवितुमुत्सहे ॥ KK04-03-022-050c
शापितोसि मम प्राणैः सुकृतेनार्जुनस्य च । KK04-03-022-051a
युधिष्ठिरस्य पादाभ्यां यमयोर्जीवितेन च । KK04-03-022-051c
कीचकस्य वधं नाद्य प्रतिजानासि भारत ॥ KK04-03-022-051e
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् । KK04-03-022-052a
यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ KK04-03-022-052c
येषां मुख्यतमो ज्येष्ठो भवेत्तु कुलपांसनः । KK04-03-022-053a
भ्रातरं परमन्वीयुस्तेऽपि शालीनबुद्धयः ॥ KK04-03-022-053c
को हि राज्यं परित्यज्य सपुत्रपशुबान्धवम् । KK04-03-022-054a
प्रव्रजेत महारण्यमजिनैः परिवारितः ॥ KK04-03-022-054c
यदि निष्कसहस्राणि यद्वाऽन्यत्सारवद्धनम् । KK04-03-022-055a
सायं प्रातरदेविष्यदपि संवत्सरायुतम् ॥ KK04-03-022-055c
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् । KK04-03-022-056a
अश्वाश्वतरसङ्घाश्च न जातु क्षयमाव्रजेत् ॥ KK04-03-022-056c
सोयं द्यूतप्रवादेन श्रियश्चैवावरोपितः । KK04-03-022-057a
तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ KK04-03-022-057c
पुरा दशसहस्राणि दन्तिनां वाजिनामपि । KK04-03-022-058a
यं यान्तमनुयान्ति स्म सोयं द्यूतेन जीवति ॥ KK04-03-022-058c
तथा शतसहस्राणि स्त्रीणाममिततेजसाम् । KK04-03-022-059a
उपासते स्म राजानमिन्द्रप्रस्थे युधिष्ठिरम् ॥ KK04-03-022-059c
शतं दासीसहस्राणां यस्य नित्यं महानसे । KK04-03-022-060a
पात्रहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ KK04-03-022-060c
एष निष्कसहस्राणि दत्त्वा प्रातर्दिनेदिने । KK04-03-022-061a
द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ KK04-03-022-061c
एनं सुस्वरसम्पन्ना बहवः सूतमागधाः । KK04-03-022-062a
सुप्तं प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ KK04-03-022-062c
[सहस्रं वालखिल्यानां सहस्रमुदवासिनाम् । KK04-03-022-063a
सहस्रमश्मकुट्टानां सहस्रं वायुभोजिनाम् ॥ KK04-03-022-063c
सहस्रं मुनिपत्नीनां सहस्रं ब्रह्मचारिणाम् । KK04-03-022-064a
सहस्रं मौनशीलानां सहस्रं गृहमेधिनाम् ॥ KK04-03-022-064c
हंसाः परमहंसाश्च योगिनश्च द्विजातयः । KK04-03-022-065a
कुटीरकाः परिव्राजो ये चान्ये वनचारिणः ॥ KK04-03-022-065c
संविभक्तात्मकाश्चैव बहवश्चोर्ध्वरेतसः । KK04-03-022-066a
चतुर्वेदविदो विप्राः शिक्षामीमांसपारगाः । KK04-03-022-066c
क्रमपाठाश्च ये विप्राः सामाध्यायनिकाश्च ये ॥ ] KK04-03-022-066e
सहस्रमृषयो यस्य नित्यमासन्सभासदः । KK04-03-022-067a
तपःश्रुतोपसम्पन्नाः सर्वकामैरुपास्थिताः ॥ KK04-03-022-067c
अन्धान्वृद्धाननाथांस्तु सर्वराष्ट्रेषु दुःखितान् । KK04-03-022-068a
बिभर्त्यन्नार्थिनो नित्यमानृशंस्याद्युधिष्ठिरः ॥ KK04-03-022-068c
स एष निलयं प्राप्तो मत्स्यस्य परिचारकः । KK04-03-022-069a
सभायां विनतो राज्ञः कङ्को नाम युधिष्ठिरः ॥ KK04-03-022-069c
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः । KK04-03-022-070a
आसन्बलिकराः सर्वे सोन्येभ्यो भृतिमिच्छति ॥ KK04-03-022-070c
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः । KK04-03-022-071a
स वशे विवशो राज्ञां परेषामद्य वर्तते ॥ KK04-03-022-071c
सम्प्राप्य पृथिवीं कृत्स्नां रश्मिवानिव तेजसा । KK04-03-022-072a
सोद्य राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ KK04-03-022-072c
यमुपासत राजानं सभायामृषिसत्तमाः । KK04-03-022-073a
तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ KK04-03-022-073c
अनवद्यं महाप्राज्ञं जीवितार्थेन संवृतम् । KK04-03-022-074a
दृष्ट्वा कस्य न दुःखं स्याद्धर्मराजं युधिष्ठिरम् ॥ KK04-03-022-074c
उपास्ते स्म सभायां यं कृत्स्नाऽपि च वसुन्धरा । KK04-03-022-075a
तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ KK04-03-022-075c
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् । KK04-03-022-076a
शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ KK04-03-022-076c
इदं तु मे दुःखतरं यत्त्वां वक्ष्यामि भारत । KK04-03-022-077a
न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ KK04-03-022-077c
शार्दूलैर्महिषैर्नागैरगारे योत्स्यसे सदा । KK04-03-022-078a
कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलोऽभवत् ॥ KK04-03-022-078c
हसन्त्यन्तःपुरे नार्यो मम चेष्टां निरीक्ष्य च ॥ KK04-03-022-079ac
तत उत्थाय कैकेयी सर्वास्ताः प्रत्यभाषत । KK04-03-022-080a
प्रेक्ष्य मामनवद्याङ्गीं कश्मलाभिहतामिव ॥ KK04-03-022-080c
स्नेहात्संवासजादेव तदा वै चारुहासिनी । KK04-03-022-081a
युध्यमानं महावीर्यमिमं समनुशोचति ॥ KK04-03-022-081c
कल्याणरूपा सैरन्ध्री वललश्चापि सुन्दरः । KK04-03-022-082a
स्त्रीणां चित्तं हि दुर्ज्ञेयं युक्तरूपौ हि मे मतौ ॥ KK04-03-022-082c
सैरन्ध्री प्रियसंवासान्नित्यं करुणवादिनी । KK04-03-022-083a
अस्मिन्राजकुले चैतौ तुल्यकालनिवासिनौ ॥ KK04-03-022-083c
इति ब्रुवाणा वाक्यानि सा मां नित्यमजीजपत् । KK04-03-022-084a
क्रुध्यन्तीं मां च सम्प्रेक्ष्य पर्यशङ्कत मां त्वयि ॥ KK04-03-022-084c
तस्यां तथा ब्रुवन्त्यां तु भीमो भीमपराक्रमः । KK04-03-022-085a
नोवाच किञ्चिद्वचनं संरम्भाद्रक्तलोचनः ॥ KK04-03-022-085c
ज्ञात्वा तु रुषितं भीमं द्रौपदी पुनरब्रवीत् । KK04-03-022-086a
शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ KK04-03-022-086c
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् । KK04-03-022-087a
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा । KK04-03-022-087c
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ KK04-03-022-087e
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् । KK04-03-022-088a
सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ KK04-03-022-088c
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् । KK04-03-022-089a
स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ॥ KK04-03-022-089c
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः । KK04-03-022-090a
षण्डरूपं वहन्तं तं गीतं नृत्तावलम्बनम् । KK04-03-022-090c
कुर्वन्तमर्जुनं दृष्ट्वा न मे स्वास्थ्यं मनो व्रजेत् ॥ KK04-03-022-090e
स्त्रियो गीतस्वरात्तस्य मुदिताः पर्युपासते ॥ KK04-03-022-091ac
किरीटं सूर्यसङ्काशं यस्य मूर्धन्यशोभत । KK04-03-022-092a
वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ॥ KK04-03-022-092c
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि । KK04-03-022-093a
आधारः सर्वविद्यानां यो धारयति कुण्डले ॥ KK04-03-022-093c
यं वै राजसहस्राणि तेजसाऽप्रतिमं भुवि । KK04-03-022-094a
समरे नातिवर्तन्ते वेलामिव महोर्मयः ॥ KK04-03-022-094c
सोयं राज्ञो विराटस्य कन्यानां नर्तको युवा । KK04-03-022-095a
आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ KK04-03-022-095c
यस्य स्म रथनिर्घोषात्समकम्पत मेदिनी । KK04-03-022-096a
सपर्वतवनाकाशा सहस्थावरजङ्गमा ॥ KK04-03-022-096c
यस्मिञ्जाते महेष्वासे कुन्त्याः प्रीतिरवर्धत । KK04-03-022-097a
न स शोचति मामद्य भीमसेन तवानुजः ॥ KK04-03-022-097c
विभूषितमलङ्कारैः कुण्डलैः परिपातुकैः । KK04-03-022-098a
कम्बुपाणिमथायान्तं दृष्ट्वा सीदति मे मनः ॥ KK04-03-022-098c
वेणीविकृतकेशान्तं भीमधन्वानमर्जुनम् । KK04-03-022-099a
कन्यापरिवृतं दृष्ट्वा शोकं गच्छति मे मनः ॥ KK04-03-022-099c
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् । KK04-03-022-100a
प्रच्छन्नमिव मातङ्गं परिपूर्णं करेणुभिः ॥ KK04-03-022-100c
मात्स्यं पार्थं च गायन्तं विराटं समुपस्थितम् । KK04-03-022-101a
पश्यामि तूर्यमध्यस्थं दृष्ट्वा मुह्यति मे मनः ॥ KK04-03-022-101c
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम् । KK04-03-022-102a
अजातशत्रुं कौरव्यं मग्नं द्युर्द्यूतदेविनम् ॥ KK04-03-022-102c
ऐन्द्रवारुणवायव्यब्रह्माग्नेयैः सवैष्णवैः । KK04-03-022-103a
अग्नीन्सन्तर्पयन्पार्थः सर्वशत्रुनिबर्हणः । KK04-03-022-103c
दिव्यैरस्त्रैरमेयात्मा सर्वांश्चैकरथोऽजयत् ॥ KK04-03-022-103e
कौबेरं वैष्णवं शैवमस्त्राण्यन्यानि भारत । KK04-03-022-104a
दर्शयन्नस्त्रवीर्यं च वासुदेवसहायवान् ॥ KK04-03-022-104c
दिव्यं गान्धर्वमस्त्रं च वायव्यमथ वैष्णवम् । KK04-03-022-105a
ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दर्शयन् ॥ KK04-03-022-105c
पौलोमान्कालकेयांश्च इन्द्रशत्रून्महाबलान् । KK04-03-022-106a
निवातकवचैः सार्धं घोरानेकरथोऽजयत् । KK04-03-022-106c
सोन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ KK04-03-022-106e
यो वै महातपः कुर्वन्महाबलपराक्रमः । KK04-03-022-107a
युद्धेन तोषयामास शङ्करं शूलपाणिनम् ॥ KK04-03-022-107c
कन्यापुरगतं दृष्ट्वा गोष्ठेष्विव महावृषम् । KK04-03-022-108a
स्त्रीवेषविकृतं पार्थं कुन्तीं गच्छति मे मनः ॥ KK04-03-022-108c
यः स्त्रीभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया । KK04-03-022-109a
सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ KK04-03-022-109c
राजकन्याश्च वेश्याश्च विशां दुहितरश्च याः । KK04-03-022-110a
सर्वाः सारयुता नार्यो दामग्रन्थिवशं गताः । KK04-03-022-110c
प्रेष्यकर्मणि तं दृष्ट्वा शोचामि विलपामि च ॥ KK04-03-022-110e
विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनम् । KK04-03-022-111a
अभ्यकीर्यन्त बृन्दानि दामग्रन्थिमुदीक्षितुम् । KK04-03-022-111c
विनयन्तं जवेनाश्वान्धर्मराजस्य पश्यतः ॥ KK04-03-022-111e
किन्नु मां मन्यसे पार्थ सुखितेति परन्तप । KK04-03-022-112a
तथा दृष्ट्वा यवीयांसं सहदेवं युधाम्पतिम् ॥ KK04-03-022-112c
तं दृष्ट्वा गोषु गोसङ्ख्यं वत्सचर्मक्षितीशयम् । KK04-03-022-113a
दुःखशोकपरीताङ्गी पाण्डुभूताऽस्मि पाण्डव ॥ KK04-03-022-113c
सहदेवस्य वृत्तानि चिन्तयन्ती पुनःपुनः । KK04-03-022-114a
न पश्यामि महाभाग सहदेवस्य दुःष्कृतम् । KK04-03-022-114c
यस्मादेवंविधं क्लेशं प्राप्नुयात्सत्यविक्रमः ॥ KK04-03-022-114e
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् । KK04-03-022-115a
गोषु गोवृषसङ्काशं मात्स्येनापि निवेशितम् ॥ KK04-03-022-115c
संरब्धतररक्ताक्षं गोपालानां पुरोगमम् । KK04-03-022-116a
विराटमभिनन्दन्तं चित्ते मे भवति ज्वरः ॥ KK04-03-022-116c
सहदेवं हि मे नित्यं वीरमार्या प्रशंसति । KK04-03-022-117a
महाभिजनसम्पन्नो नीतिमान्कुलवानपि ॥ KK04-03-022-117c
ह्रीनिषेवो ह्यनवमो धार्मिकश्च प्रियश्च मे । KK04-03-022-118a
स तेऽरण्येषु वोढव्यः पाञ्चालि रजनीष्वपि ॥ KK04-03-022-118c
सुकुमारश्च शूरश्च राजानं चाप्यनुव्रतः । KK04-03-022-119a
ज्येष्ठापचायिनं वीरं स्वयं पाञ्चालि भोजयेः ॥ KK04-03-022-119c
इत्युवाच हि मां कुन्ती रुदती पुत्रगृद्धिनी । KK04-03-022-120a
प्रव्रजन्तं महारण्यं तं परिष्वज्य तिष्ठती ॥ KK04-03-022-120c
तं दृष्ट्वा गोषु गोपालवेषमास्थाय धिष्ठितम् । KK04-03-022-121a
सहदेवं युधांश्रेष्ठं किन्नु जीवामि पाण्डवः ॥ KK04-03-022-121c
एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ KK04-03-022-122ac
पुनः प्रतिविशिष्टानि दुःखानि शृणु भारत । KK04-03-022-123a
वर्धन्ते मयि कौन्तेय वक्ष्याम्यन्यानि तानि वै ॥ KK04-03-022-123c
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत । KK04-03-022-124a
शोषयन्ति शरीरं मे किन्नु दुःखतरं ततः ॥ KK04-03-022-124c
एकभर्ता तु या नारी सा सुखेनैव वर्तते । KK04-03-022-125a
पञ्च मे पतयः सन्ति मम दुःखमनन्तकम् ॥ KK04-03-022-125c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि द्वाविंशोऽध्यायः ॥ 24॥

4-22-7 सर्वश्वेता बकी इति नीलकण्ठः ॥ 7 ॥ 4-22-10 तथा षष्ठी गुहं तथा इति ख. पाठः ॥ 10 ॥ 4-22-13 नामृतस्य हि पापीयान्भार्यामालभ्य जीवतीति झ. पाठः ॥ 13 ॥ 4-22-54 महारण्यमनुजैः परिवारित इति ख. पाठः ॥ 54 ॥( इमे चत्वारः श्लोकाः धo पुस्तक एव वर्तन्ते ॥)