अध्यायः 021

वैशम्पायनेन जनमेजयम् प्रति कीचकोत्पत्तिप्रकारादिकथनम् ॥ 1 ॥ जनमेजय उवाच KK04-03-021-001
अहो दुःखतरं प्राप्ता कीचकेन पदा हता । KK04-03-021-001a
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ KK04-03-021-001c
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् । KK04-03-021-002a
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ KK04-03-021-002c
किमर्थमिह सम्प्राप्ता कीचकेन दुरात्मना । KK04-03-021-003a
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ KK04-03-021-003c
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी । KK04-03-021-004a
केशपाशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ KK04-03-021-004c
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम । KK04-03-021-005a
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ KK04-03-021-005c
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने । KK04-03-021-006a
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ KK04-03-021-006c
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् । KK04-03-021-007a
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ KK04-03-021-007c
वैशम्पायन उवाच KK04-03-021-008
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः । KK04-03-021-008a
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ KK04-03-021-008c
ब्राह्मण्यां क्षत्रियाज्जातः सूतो भवति पार्थिव । KK04-03-021-009a
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ KK04-03-021-009c
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् । KK04-03-021-010a
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ KK04-03-021-010c
सह सूतेन सम्बन्धः कृतः पूर्वं नराधिपैः । KK04-03-021-011a
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ KK04-03-021-011c
तेषां तु सूतविषयः सूतानां नामतः कृतः । KK04-03-021-012a
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ KK04-03-021-012c
सूतानामधिपो राजा केकयो नाम विश्रुतः । KK04-03-021-013a
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ KK04-03-021-013c
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा । KK04-03-021-014a
कीचका इति विख्याताः शतं षट् चैव भारत ॥ KK04-03-021-014c
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो । KK04-03-021-015a
अग्रजो बलसम्मत्तस्तेनासीत्सूतषट्शतम् ॥ KK04-03-021-015c
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् । KK04-03-021-016a
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ KK04-03-021-016c
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा । KK04-03-021-017a
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ KK04-03-021-017c
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि । KK04-03-021-018a
सुदेष्णां महिषीं लब्ध्वा राजा दुःखमपानुदत् ॥ KK04-03-021-018c
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते । KK04-03-021-019a
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ KK04-03-021-019c
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् । KK04-03-021-020a
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ KK04-03-021-020c
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः । KK04-03-021-021a
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ KK04-03-021-021c
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः । KK04-03-021-022a
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ KK04-03-021-022c
स हि सर्वास्त्रसम्पन्नो बलवान्भीमविक्रमः । KK04-03-021-023a
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ KK04-03-021-023c
तं प्राप्य बलसम्मत्तं विराटः पृथिवीपतिः । KK04-03-021-024a
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ KK04-03-021-024c
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् । KK04-03-021-025a
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ KK04-03-021-025c
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा । KK04-03-021-026a
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ KK04-03-021-026c
अन्ये च बहवः शूरा नानाजनपदेश्वराः । KK04-03-021-027a
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ KK04-03-021-027c
तमेवंवीर्यसम्पन्नं नागायुतसमं बले । KK04-03-021-028a
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ KK04-03-021-028c
विराटभ्रातरश्चैव दश दाशरथेः समाः । KK04-03-021-029a
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ KK04-03-021-029c
एवंविधबलो भीमः कीचकस्ते च तद्विधाः । KK04-03-021-030a
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ KK04-03-021-030c
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् । KK04-03-021-031a
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ KK04-03-021-031c
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च । KK04-03-021-032a
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ KK04-03-021-032c
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः । KK04-03-021-033a
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ KK04-03-021-033c
क्षमावतामयं लोकः परश्चैव क्षमावताम् । KK04-03-021-034a
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ KK04-03-021-034c
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् । KK04-03-021-035a
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ KK04-03-021-035c
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् । KK04-03-021-036a
क्रोधाग्निनाऽप्यदह्यन्त तदा लज्जाव्यपेक्षया ॥ KK04-03-021-036c
अथ भीमो महाबाहुः सूदयिष्यंस्तु कीचकम् । KK04-03-021-037a
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ KK04-03-021-037c
सन्धार्य मनसा रोषं दिवारात्रं विनिश्वसन् । KK04-03-021-038a
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ ॥ KK04-03-021-038c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥