अध्यायः 019

कीचकगृहम् प्रति प्रस्थितया द्रौपद्या तेन स्वस्यादूषणाय सूर्यादिदेवताप्रार्थना ॥ 1 ॥ सूर्येण तद्रक्षणाय निगूढस्य रक्षसः प्रेषणम् ॥ 2 ॥ कीचकेन द्रौपदीम् प्रति स्ववशीभवनयाचनम् ॥ 3 ॥ तथा तदनङ्गीकाररोषात्तस्याः पादेन ताडनम् ॥ 4 ॥ सूर्यदूतेन रक्षसा कीचकस्य भूमौ निपातनम् ॥ 5 ॥ युधिष्ठिरेन कीचकजिघांसोर्भीमस्य सङ्केतेन प्रतिषेधनम् ॥ 6 ॥ वैशम्पायन उवाच KK04-03-019-001
अकीर्तयत सुश्रोणी धर्मं शक्रं दिवाकरम् । KK04-03-019-001a
मारुतं चाश्विनौ देवौ कुबेरं वरुणं यमम् ॥ KK04-03-019-001c
रुद्रमग्निं भगं विष्णुं स्कन्दं पूषणमेव च । KK04-03-019-002a
सावित्रीसहितं चापि ब्रह्माणं पर्यकीर्तयत् ॥ KK04-03-019-002c
इत्येवं मृगशावाक्षी सुश्रोणी धर्मचारिणी । KK04-03-019-003a
उपातिष्ठत सा सूर्यं मुहूर्तमबला तदा ॥ KK04-03-019-003c
तदस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् । KK04-03-019-004a
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् ॥ KK04-03-019-004c
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥ KK04-03-019-005ac
प्रतस्थे सा सुकेशान्ता त्वरमाणा पुनःपुनः । KK04-03-019-006a
विलम्बमाना विवशा कीचकस्य निवेशनम् ॥ KK04-03-019-006c
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समागताम् । KK04-03-019-007a
उत्पपातासनात्तूर्णं नावं लब्ध्वेव पारगः ॥ KK04-03-019-007c
श्लक्ष्णं चोवाच वाक्यं स कीचकः काममूर्च्छितः । KK04-03-019-008a
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ॥ KK04-03-019-008c
स्वामिनी त्वमनुप्राप्ता चिरस्य भवनं शुभे । KK04-03-019-009a
कुरुष्व च मयि प्रीतिं वशं चोपानयस्व माम् ॥ KK04-03-019-009c
प्रतिगृह्णीष्व मे भोगांस्त्वदर्थमुपकल्पितान् । KK04-03-019-010a
सर्वरत्नमयीं मालां कुण्डले च हिरण्मये ॥ KK04-03-019-010c
वासांसि चन्दनं माल्यं धूपशुद्धां च वारुणीम् । KK04-03-019-011a
प्रतिगृह्णीष्व भद्रं ते विहर त्वं यथेच्छसि । KK04-03-019-011c
प्रीत्या मे कुरु पद्माक्षि प्रसादं प्रियदर्शने ॥ KK04-03-019-011e
स्वास्तीर्णमस्ति शयनं सितसूक्ष्मोत्तरच्छदम् । KK04-03-019-012a
अत्रारुह्य मया सार्धं पिबेमां वरवारुणीम् ॥ KK04-03-019-012c
भजस्व मां विशालाक्षि भर्ता ते सदृशोस्म्यहम् । KK04-03-019-013a
उपसर्प वरारोहे मेरुमर्कप्रभा यथा ॥ KK04-03-019-013c
वैशम्पायन उवाच KK04-03-019-014
स मूढः कीचकस्तत्र प्राप्तां राजीवलोचनाम् । KK04-03-019-014a
अब्रवीद्द्रौपदीं दृष्ट्वा दुरात्मा ह्यात्मसम्मतः ॥ KK04-03-019-014c
कीचकेनैवमुक्ता सा द्रौपदी वरवर्णिनी । KK04-03-019-015a
अब्रवीत्तमनाचारं नेदृशं वक्तुमर्हसि ॥ KK04-03-019-015c
नाहं शक्या त्वया स्प्रष्टुं श्वपचेनेव ब्राह्मणी । KK04-03-019-016a
गन्तुमिच्छसि दुर्बुद्धे गतिं दुर्गतरान्तराम् ॥ KK04-03-019-016c
यत्र गच्छन्ति बहवः परदाराभिमर्शकाः । KK04-03-019-017a
नराः सम्भिन्नमर्यादाः कीटवच्चाशुभाश्रयाः ॥ KK04-03-019-017c
अप्रैषीन्मां सुराहारीं सुदेष्णा त्वन्निवेशनम् । KK04-03-019-018a
तस्यै नयिष्ये मदिरां भगिनी तृषिता तव ॥ KK04-03-019-018c
पिपासिता च कैकेयी तूर्णं मामादिशत्ततः । KK04-03-019-019a
दीयतां मे सुरा शीघ्रं सूतपुत्र व्रजाम्यहम् ॥ KK04-03-019-019c
कीचक उवाच KK04-03-019-020
अन्या भद्रे हरिष्यन्ति राजपुत्र्याः सुरामिमाम् । KK04-03-019-020a
किं त्वं यास्यसि कल्याणि मदर्थं त्वमिहागता ॥ KK04-03-019-020c
वैशम्पायन उवाच KK04-03-019-021
इत्युक्त्वा दक्षिणे पाणौ सूतपुत्रः परामृशत् । KK04-03-019-021a
सा गृहीता विधून्वन्ती भूमौ निक्षिप्य भाजनम् । KK04-03-019-021c
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ KK04-03-019-021e
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् । KK04-03-019-022a
पातयित्वा तु तां भूमौ सूतपुत्रः पदाऽवधीत् ॥ KK04-03-019-022c
सभायां पश्यतो राज्ञो विराटस्य महात्मनः । KK04-03-019-023a
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च पश्यताम् ॥ KK04-03-019-023c
तस्याः पादाभितप्ताया मुखाद्रुधिरमास्रवत् ॥ KK04-03-019-024ac
ततो दिवाकरेणाशु राक्षसः सन्नियोजितः । KK04-03-019-025a
स कीचकमपोवाह वातवेगेन भारत ॥ KK04-03-019-025c
स पपात तदा भूमौ रक्षोबलसमीरितः । KK04-03-019-026a
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ KK04-03-019-026c
तां दृष्ट्वा तत्र ते सभ्या हाहाभूताः समन्ततः । KK04-03-019-027a
न युक्तं सूतपुत्रेति कीचकेति च तेऽवदन् । KK04-03-019-027c
किमियं वध्यते बाला कृपणा चाप्यबान्धवा ॥ KK04-03-019-027e
तस्यामासन्हि ते पार्थाः सभायां भ्रातरस्तथा । KK04-03-019-028a
अमृष्यमाणाः कृष्णायाः कीचकेन पदा वधम् ॥ KK04-03-019-028c
तां दृष्ट्वा भीमसेनस्य क्रोधादास्रमवर्तत । KK04-03-019-029a
धूमोच्छ्वासः समभवन्नेत्रे चोच्छ्रितपक्ष्मणी । KK04-03-019-029c
सस्वेदा भ्रुकुटी चोग्रा ललाटे समवर्तत ॥ KK04-03-019-029e
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः । KK04-03-019-030a
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥ KK04-03-019-030c
भूयः सञ्चरितः क्रुद्धः सहसोत्थाय चासनात् । KK04-03-019-031a
निरैक्षत द्रुमं दीर्घं राजानं चाप्यवैक्षत ॥ KK04-03-019-031c
वधमाकाङ्क्षमाणं तं कीचकस्य दुरात्मनः । KK04-03-019-032a
आकारेणैव भीमं स प्रत्यषेधद्युधिष्ठिरः ॥ KK04-03-019-032c
तस्य राजा शनैः सञ्ज्ञां कुन्तीपुत्रो युधिष्ठिरः । KK04-03-019-033a
चकार भीमसेनस्य रोषाविष्टस्य धीमतः ॥ KK04-03-019-033c
प्रत्याख्यानं तदा चाह कङ्को नाम युधिष्ठिरः ॥ KK04-03-019-034ac
सूद मा साहसं कार्षीः फलितोऽयं वनस्पतिः । KK04-03-019-035a
नात्र शुष्काणि काष्ठानि सन्ति यानि च कानि च ॥ KK04-03-019-035c
यदि ते दारुकृत्यं स्यान्निष्क्रम्य नगराद्बहिः । KK04-03-019-036a
समूलं शातयेर्वृक्षं श्रमस्ते न भविष्यति ॥ KK04-03-019-036c
यस्य चार्द्रस्य वृक्षस्य शीतच्छायां समाश्रयेत् । KK04-03-019-037a
न तस्य पर्णे द्रुह्येत पूर्ववृत्तमनुस्मरन् ॥ KK04-03-019-037c
न क्रोधकालसमयः सूद मा चापलं कृथाः । KK04-03-019-038a
अपूर्णोऽयं द्विपक्षोनो नेदं बलवतां बहु ॥ KK04-03-019-038c
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तत्र धर्मराट् । KK04-03-019-039a
प्रबोधनभयाद्राज्ञो भीमं तं प्रत्यषेधयत् ॥ KK04-03-019-039c
भीमसेनस्तु तद्वाक्यं श्रुत्वा परपुरञ्जयः । KK04-03-019-040a
सहसोत्पतितं क्रोधं न्ययच्छद्धृतिमान्बलात् । KK04-03-019-040c
इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद्वृकोदरः ॥ KK04-03-019-040e
भीमस्य च समारम्भं दृष्ट्वा राज्ञोऽस्य चेष्टितम् । KK04-03-019-041a
द्रौपदी चाधिकं क्रोधात्प्रारुदत्सा पुनःपुनः ॥ KK04-03-019-041c
कीचकेनानुगमनात्कृष्णा ताम्रायतेक्षणा । KK04-03-019-042a
सभाद्वारमुपागम्य रुदन्ती वाक्यमब्रवीत् ॥ KK04-03-019-042c
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः । KK04-03-019-043a
आकारं परिरक्षन्ती प्रतिज्ञां धर्मसंयुताम् । KK04-03-019-043c
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ KK04-03-019-043e
प्रजारक्षणशीलानां राज्ञां ह्यमिततेजसाम् । KK04-03-019-044a
कार्याऽनुपालनं नित्यं धर्मे सत्ये च तिष्ठताम् ॥ KK04-03-019-044c
स्वप्रजायां प्रजायां च विशेषं नाधिगच्छताम् । KK04-03-019-045a
प्रियेष्वपि च वध्येषु समत्वं ये समाश्रिताः ॥ KK04-03-019-045c
विवादेषु प्रवृत्तेषु समं कार्यानुदर्शिना । KK04-03-019-046a
राज्ञा धर्मासनस्थेन जितौ लोकावुभावपि ॥ KK04-03-019-046c
राजन्धर्मासनस्थो हि रक्ष मां त्वमनागसम् ॥ KK04-03-019-047ac
अहं त्वनपराध्यन्ती कीचकेन दुरात्मना । KK04-03-019-048a
पश्यतस्ते महाराज हता पादेन दासिवत् ॥ KK04-03-019-048c
त्वत्समक्षं नृपश्रेष्ठ निष्पिष्टा वसुधातले । KK04-03-019-049a
अनागसं कृपार्हां मां स्त्रियं त्वं परिपालय ॥ KK04-03-019-049c
रक्ष मां कीचकाद्भीतां धर्मं रक्ष नरेश्वर । KK04-03-019-050a
मत्स्याधिप प्रजा रक्ष पिता पुत्रानिवौरसान् ॥ KK04-03-019-050c
यस्त्वधर्मेण कार्याणि मोहात्मा कुरुते नृपः । KK04-03-019-051a
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ KK04-03-019-051c
मत्स्यानां कुलजस्त्वं हि तेषां सत्यं परायणम् । KK04-03-019-052a
त्वं किलैवंविधो जातः कुले धर्मपरायणे ॥ KK04-03-019-052c
अतस्त्वाहमभिक्रन्दे शरणार्थं नराधिप । KK04-03-019-053a
त्राहि मामद्य राजेन्द्र कीचकात्पापपूरुषात् ॥ KK04-03-019-053c
अनाथामिह मां ज्ञात्वा कीचकः पुरुषाधमः । KK04-03-019-054a
प्रहरत्येव नीचात्मा न तु धर्ममवेक्षते ॥ KK04-03-019-054c
अकार्याणामनारम्भात्कार्याणामनुपालनात् । KK04-03-019-055a
प्रजासु ये सुवृत्तास्ते स्वर्गमायान्ति भूमिपाः ॥ KK04-03-019-055c
कार्याकार्यविशेषज्ञाः कामकारेण पार्थिवाः । KK04-03-019-056a
प्रजासु किल्बिषं कृत्वा नरकं यान्त्यधोमुखाः ॥ KK04-03-019-056c
नैव यज्ञैर्न वा दानैर्न गुरोरुपसेवनात् । KK04-03-019-057a
प्राप्नुवन्ति तथा धर्मं यथा कार्यानुपालनात् ॥ KK04-03-019-057c
अपि चेदं पुरा ब्रह्मा प्रोवाचेन्द्राय पृच्छते । KK04-03-019-058a
द्वन्द्वं कार्यमकार्यं च लोके चासीत्परं यथा ॥ KK04-03-019-058c
धर्माधर्मौ पुनर्द्वन्द्वं विनियुक्तमथापि वा । KK04-03-019-059a
क्रियाणामक्रियाणां च प्रापणे पुण्यपापयोः ॥ KK04-03-019-059c
प्रजायां सृज्यमानायां पुरा ह्येतदुदाहृतम् । KK04-03-019-060a
एतद्वो मानुषाः सम्यक्कार्यं द्वन्द्वत्रयं भुवि ॥ KK04-03-019-060c
अस्मिन्सुनीते दुर्नीते लभते कर्मजं फलम् । KK04-03-019-061a
कल्याणकारी कल्याणं पापकारी च पापकम् ॥ KK04-03-019-061c
तेन गच्छति संसर्गं स्वर्गाय नरकाय वा । KK04-03-019-062a
सुकृतं दुष्कृतं वाऽपि कृत्वा मोहेन मानवः । KK04-03-019-062c
पश्चात्तापेन तप्येत स्वबुद्ध्या मरणं गतः ॥ KK04-03-019-062e
एवमुक्त्वा परं वाक्यं विससर्ज शतक्रतुम् । KK04-03-019-063a
शक्रोप्यापृच्छ्य ब्रह्माणं देवराज्यमपालयत् ॥ KK04-03-019-063c
यथोक्तं देवराजेन ब्रह्मणा परमेष्ठिना । KK04-03-019-064a
तथा त्वमपि राजेन्द्र कार्याकार्ये स्थिरो भव ॥ ॥ KK04-03-019-064c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥

4-19-17 कीटवच्च गुहाश्रया इति क. थ. पाठः ॥ 17 ॥