अध्यायः 017

द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥ वैशम्पायन उवाच KK04-03-017-001
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना । KK04-03-017-001a
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ KK04-03-017-001c
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे । KK04-03-017-002a
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ KK04-03-017-002c
परदाराऽस्मि भद्रं ते न युक्तं तव साम्प्रतम् । KK04-03-017-003a
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ KK04-03-017-003c
परदारे न ते बुद्धिर्जातु कार्या कथञ्चन । KK04-03-017-004a
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ KK04-03-017-004c
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः । KK04-03-017-005a
अयशः प्राप्नुयाद्घोरं महद्वा प्राप्नुयाद्भयम् ॥ KK04-03-017-005c
वैशम्पायन उवाच KK04-03-017-006
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः । KK04-03-017-006a
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ KK04-03-017-006c
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् । KK04-03-017-007a
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ KK04-03-017-007c
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने । KK04-03-017-008a
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ KK04-03-017-008c
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् । KK04-03-017-009a
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ KK04-03-017-009c
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे । KK04-03-017-010a
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ KK04-03-017-010c
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह । KK04-03-017-011a
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ KK04-03-017-011c
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह । KK04-03-017-012a
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ KK04-03-017-012c
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने । KK04-03-017-013a
भजस्व मां वरारोहे भुङ्क्ष्व भोगाननुत्तमान् ॥ KK04-03-017-013c
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः । KK04-03-017-014a
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ KK04-03-017-014c
सैरन्ध्र्युवाच KK04-03-017-015
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् । KK04-03-017-015a
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ KK04-03-017-015c
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम । KK04-03-017-016a
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ KK04-03-017-016c
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ KK04-03-017-017ac
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् । KK04-03-017-018a
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ KK04-03-017-018c
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि । KK04-03-017-019a
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ KK04-03-017-019c
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक । KK04-03-017-020a
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ KK04-03-017-020c
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति । KK04-03-017-021a
न वर्तते कीचक ते दृशा शुभं या तेन सञ्जीवनमर्थयेत सा ॥॥ KK04-03-017-021c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

4-17-2 अभिमन्यसे कामयसे ॥ 2 ॥ 4-17-5 मिथ्याभिगृध्नः वितथाभिनिवेशी । महद्भयं मृत्युम् ॥ 5 ॥ 4-17-20 मन्यसे लिप्ससे शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ॥ 20 ॥ 4-17-21 या स्वीयम् अर्थयेत कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः । तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन सञ्जीवनं भवतीति शेषः । अन्यथा मरिष्यसीत्यर्थः ॥ 21 ॥