अध्यायः 016

द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥ वैशम्पायन उवाच KK04-03-016-001
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा । KK04-03-016-001a
महारथेषु च्छन्नेषु मासा दश समाययुः ॥ KK04-03-016-001c
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशाम्पते । KK04-03-016-002a
आवसत्परिचारार्हा सुदुःखं जनमेजय ॥ KK04-03-016-002c
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने । KK04-03-016-003a
ता देवीं तोषयामास तथा चान्तःपुरस्त्रियः ॥ KK04-03-016-003c
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः । KK04-03-016-004a
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥ KK04-03-016-004c
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव । KK04-03-016-005a
कीचकः कामयामास कामबाणप्रपीडितः ॥ KK04-03-016-005c
स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै । KK04-03-016-006a
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ KK04-03-016-006c
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा । KK04-03-016-007a
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ KK04-03-016-007c
का देवरूपा हृदयङ्गमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने । KK04-03-016-008a
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमस्ति मे मतम् ॥ KK04-03-016-008c
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् । KK04-03-016-009a
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किञ्चन ॥ KK04-03-016-009c
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानभोजनम् । KK04-03-016-010a
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ KK04-03-016-010c
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् । KK04-03-016-011a
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ KK04-03-016-011c
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने । KK04-03-016-012a
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥ KK04-03-016-012c
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम् । KK04-03-016-013a
कान्त्या विभाति वक्त्रं ते शशाङ्क इव निर्मलम् ॥ KK04-03-016-013c
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभे शुभे । KK04-03-016-014a
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥ KK04-03-016-014c
एवंरूपा मया नारी काचिदन्या महीतले । KK04-03-016-015a
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥ KK04-03-016-015c
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे । KK04-03-016-016a
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥ KK04-03-016-016c
अतीव रूपिणी किं त्वमनङ्गाङ्गविहारिणी । KK04-03-016-017a
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥ KK04-03-016-017c
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम् । KK04-03-016-018a
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥ KK04-03-016-018c
निरीक्ष्य वक्त्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम् । KK04-03-016-019a
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥ KK04-03-016-019c
हारालङ्कारयोग्यौ तु स्तनौ चोभौ सुशोभनौ । KK04-03-016-020a
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥ KK04-03-016-020c
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ । KK04-03-016-021a
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥ KK04-03-016-021c
वलीविभङ्गचतुरं स्तनभारविनामितम् । KK04-03-016-022a
कराग्रसम्मितं मध्यं तवेदं तनुमध्यमे ॥ KK04-03-016-022c
दृष्ट्वैव चारुजघनं सरित्पुलिनसन्निभम् । KK04-03-016-023a
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥ KK04-03-016-023c
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः । KK04-03-016-024a
त्वत्सङ्गमाभिसङ्कल्पविवृद्धो मां दहत्ययम् ॥ KK04-03-016-024c
आत्मप्रदानवर्षेण सङ्गमाम्भोधरेण च । KK04-03-016-025a
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥ KK04-03-016-025c
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः । KK04-03-016-026a
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने । KK04-03-016-026c
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥ KK04-03-016-026e
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः । KK04-03-016-027a
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम । KK04-03-016-027c
आत्मप्रदानसम्भोगैर्मामुद्धर्तुमिहार्हसि ॥ KK04-03-016-027e
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता । KK04-03-016-028a
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥ KK04-03-016-028c
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता । KK04-03-016-029a
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥ KK04-03-016-029c
स्वादून्यमृतकल्पानि पेयानि विविधानि च । KK04-03-016-030a
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥ KK04-03-016-030c
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम् । KK04-03-016-031a
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥ KK04-03-016-031c
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि । KK04-03-016-032a
अधार्यमाणा स्रगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥ KK04-03-016-032c
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि । KK04-03-016-033a
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ ॥ KK04-03-016-033c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षोडशोऽध्यायः ॥ 16 ॥ 4-16-16 भूति ईश्वरी ऐश्वर्याभिमानिनी देवता ॥ 16 ॥ 4-16-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः ॥ 17 ॥ 4-16-18 ईक्षणपक्ष्माणा नेत्रपक्ष्मणा स्मित ईषदुन्मीलनं तदेव ज्योत्स्नोपम मनस आह्लादकरम् ॥ 18 ॥ 4-16-20 सुजातौ उन्नतौ । निरन्तरौ पृथुत्वात्संश्लिष्टौ ॥ 20 ॥ 4-16-21 कुड्मलेति मुकुलीभूतपद्माकारौ ॥ 21 ॥ 4-16-24 अग्निमदनो मदनाग्निः ॥ 24 ॥ 4-16-28 कामं स्मरम् । प्रकाममतिशयितम् ॥ 28 ॥