अध्यायः 015
अथ समयपलनपर्व ॥ 2 ॥ पाण्डवैः स्वस्वव्यापारैर्विराटपरितोषणम् ॥ 1 ॥ भीमेन शङ्करोत्सवे महामल्लमारणम् ॥ 2 ॥
जनमेजय उवाच KK04-02-015-001
एवं विराटनगरे वसन्तः सत्यविक्रमाः । KK04-02-015-001a
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ KK04-02-015-001c
वैशम्पायन उवाच KK04-02-015-002
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः । KK04-02-015-002a
आराधयन्तो राजानां यदकुर्वत तच्छृणु ॥ KK04-02-015-002c
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः । KK04-02-015-003a
तथैव च विराटस्य सपुत्रस्य विशाम्पते ॥ KK04-02-015-003c
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः । KK04-02-015-004a
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ॥ KK04-02-015-004c
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् । KK04-02-015-005a
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं सम्प्रयच्छति ॥ KK04-02-015-005c
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च । KK04-02-015-006a
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ॥ KK04-02-015-006c
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः । KK04-02-015-007a
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ KK04-02-015-007c
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् । KK04-02-015-008a
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ KK04-02-015-008c
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः । KK04-02-015-009a
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ KK04-02-015-009c
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी । KK04-02-015-010a
यथा पुनरविज्ञाता तथा चरति भामिनी ॥ KK04-02-015-010c
एवं सम्भावयन्तस्ते तदाऽन्योन्यं महारथाः । KK04-02-015-011a
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥ KK04-02-015-011c
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा । KK04-02-015-012a
प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥ KK04-02-015-012c
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः । KK04-02-015-013a
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसम्मतः ॥ KK04-02-015-013c
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ॥ KK04-02-015-014ac
महाकाया महावीर्याः कालकेया इवासुराः । KK04-02-015-015a
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ॥ KK04-02-015-015c
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः । KK04-02-015-016a
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥ KK04-02-015-016c
तेषामेको महानासीत्सर्वमल्लानथाह्वयत् । KK04-02-015-017a
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ॥ KK04-02-015-017c
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः । KK04-02-015-018a
अवाङ्मुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ॥ KK04-02-015-018c
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः । KK04-02-015-019a
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ॥ KK04-02-015-019c
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः । KK04-02-015-020a
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ॥ KK04-02-015-020c
मल्लेन्द्रनिहताः सर्वे न किञ्चित्प्रवदन्ति ते । KK04-02-015-021a
मल्ल उद्वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाचह ॥ KK04-02-015-021c
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले । KK04-02-015-022a
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ॥ KK04-02-015-022c
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् । KK04-02-015-023a
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ॥ KK04-02-015-023c
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ॥ KK04-02-015-024ac
इत्युक्तास्ते विराटेन सर्वे मल्ला विशाम्पते । KK04-02-015-025a
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ॥ KK04-02-015-025c
ग्रामांश्च वेतनान्येषां मल्लानां हारयाम्यहम् । KK04-02-015-026a
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ॥ KK04-02-015-026c
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे । KK04-02-015-027a
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ॥ KK04-02-015-027c
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे । KK04-02-015-028a
सोयं मल्लो वसत्येप राजंस्तव महानसे ॥ KK04-02-015-028c
वैशम्पायन उवाच KK04-02-015-029
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः । KK04-02-015-029a
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन सम्प्रति ॥ KK04-02-015-029c
भीमसेनो विराटेन आहूतश्चोदितस्तथा । KK04-02-015-030a
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ KK04-02-015-030c
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् । KK04-02-015-031a
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ॥ KK04-02-015-031c
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशाम्पते । KK04-02-015-032a
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ॥ KK04-02-015-032c
वैशम्पायन उवाच KK04-02-015-033
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले । KK04-02-015-033a
योद्धुं व्यवस्थितो वीरो रेणुं सम्मृज्य हस्तयोः । KK04-02-015-033c
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ॥ KK04-02-015-033e
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ॥ KK04-02-015-034ac
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम् । KK04-02-015-035a
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपम् ॥ KK04-02-015-035c
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् । KK04-02-015-036a
प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ KK04-02-015-036c
बबन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् । KK04-02-015-037a
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ KK04-02-015-037c
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् । KK04-02-015-038a
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ॥ KK04-02-015-038c
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ । KK04-02-015-039a
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ॥ KK04-02-015-039c
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतुः । KK04-02-015-040a
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ KK04-02-015-040c
उभौ परमसंहृष्टौ बलेनातिबलावुभौ । KK04-02-015-041a
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ KK04-02-015-041c
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । KK04-02-015-042a
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ KK04-02-015-042c
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः । KK04-02-015-043a
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ KK04-02-015-043c
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः । KK04-02-015-044a
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ KK04-02-015-044c
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा । KK04-02-015-045a
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥ KK04-02-015-045c
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः । KK04-02-015-046a
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ KK04-02-015-046c
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः । KK04-02-015-047a
आकर्षतुरथान्योन्यं जानुभिश्चापि जघ्नतुः ॥ KK04-02-015-047c
ततः शब्देन महता भर्त्सयन्तौ परस्परम् । KK04-02-015-048a
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । KK04-02-015-048c
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ KK04-02-015-048e
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् । KK04-02-015-049a
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ॥ KK04-02-015-049c
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा । KK04-02-015-050a
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ॥ KK04-02-015-050c
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् । KK04-02-015-051a
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ KK04-02-015-051c
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् । KK04-02-015-052a
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ KK04-02-015-052c
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते । KK04-02-015-053a
विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥ KK04-02-015-053c
प्रहर्षात्प्रददौ वित्तं बहु राजा महामनाः । KK04-02-015-054a
वललाय महारङ्गे यथा वैश्रवणस्तथा ॥ KK04-02-015-054c
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् । KK04-02-015-055a
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥ KK04-02-015-055c
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते । KK04-02-015-056a
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ KK04-02-015-056c
विराटेन प्रदत्तानि चित्राणि विविधानि च । KK04-02-015-057a
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ॥ KK04-02-015-057c
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः । KK04-02-015-058a
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ॥ KK04-02-015-058c
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः । KK04-02-015-059a
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ KK04-02-015-059c
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः । KK04-02-015-060a
तोषयामास राजानं नकुलो नृपसत्तमम् । KK04-02-015-060c
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ॥ KK04-02-015-060e
विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभितः । KK04-02-015-061a
धनं ददौ बहुविधं विराटः पुरुषर्षभः ॥ KK04-02-015-061c
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् । KK04-02-015-062a
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ॥ KK04-02-015-062c
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः । KK04-02-015-063a
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥॥ KK04-02-015-063c
इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥ ॥ समाप्तं चेदं समयपालनपर्व ॥ 2 ॥
4-15-42 कृतप्रतिकृतादयो मल्लयुद्धविशेषाः ॥ 42 ॥