अध्यायः 014

द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः ॥ 1 ॥ वैशम्पायन उवाच KK04-01-014-001
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता । KK04-01-014-001a
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा । KK04-01-014-001c
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ KK04-01-014-001e
वासश्च परिधायैकं कृष्णा सुमलिनं महत् । KK04-01-014-002a
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ KK04-01-014-002c
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता । KK04-01-014-003a
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ KK04-01-014-003c
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि । KK04-01-014-004a
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता । KK04-01-014-004c
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ KK04-01-014-004e
वैशम्पायन उवाच KK04-01-014-005
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा । KK04-01-014-005a
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ KK04-01-014-005c
विराटस्य तु कैकेयी भार्या परमसम्मता । KK04-01-014-006a
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ KK04-01-014-006c
सा समीक्ष्य तथारूपामनाथामेकवाससम् । KK04-01-014-007a
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ KK04-01-014-007c
विराटभार्या तां देवी कारुण्याज्जातसम्भ्रमा । KK04-01-014-008a
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ KK04-01-014-008c
अपनीय ततः सर्वा आनयध्वमिहैव ताम् । KK04-01-014-009a
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा । KK04-01-014-009c
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ KK04-01-014-009e
तास्तथोक्ता उपागम्य द्रौपदीं परिसङ्गताः । KK04-01-014-010a
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ KK04-01-014-010c
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले । KK04-01-014-011a
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि । KK04-01-014-011c
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ KK04-01-014-011e
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा । KK04-01-014-012a
ईप्सितार्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ॥ KK04-01-014-012c
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता । KK04-01-014-013a
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ KK04-01-014-013c
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा । KK04-01-014-014a
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च । KK04-01-014-014c
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ KK04-01-014-014e
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा । KK04-01-014-015a
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ KK04-01-014-015c
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता । KK04-01-014-016a
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ KK04-01-014-016c
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव । KK04-01-014-017a
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ KK04-01-014-017c
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् । KK04-01-014-018a
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ KK04-01-014-018c
सुदेष्णां राजमहिषीं सर्वालङ्कारभूषिताम् । KK04-01-014-019a
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ KK04-01-014-019c
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः । KK04-01-014-020a
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ KK04-01-014-020c
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् । KK04-01-014-021a
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् । KK04-01-014-021c
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ KK04-01-014-021e
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने । KK04-01-014-022a
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ KK04-01-014-022c
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् । KK04-01-014-023a
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ KK04-01-014-023c
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव । KK04-01-014-024a
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ KK04-01-014-024c
सुलभामिव नागीनां मृगीणामिव किन्नरीम् । KK04-01-014-025a
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ KK04-01-014-025c
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् । KK04-01-014-026a
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्विताम् ॥ KK04-01-014-026c
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् । KK04-01-014-027a
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ KK04-01-014-027c
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता । KK04-01-014-028a
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ KK04-01-014-028c
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता । KK04-01-014-029a
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ KK04-01-014-029c
सुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा । KK04-01-014-030a
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ KK04-01-014-030c
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना । KK04-01-014-031a
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ KK04-01-014-031c
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी । KK04-01-014-032a
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ KK04-01-014-032c
तेनतेनैव सम्पन्ना काश्मीरीव तुरङ्गमा । KK04-01-014-033a
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ KK04-01-014-033c
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता । KK04-01-014-034a
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ KK04-01-014-034c
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् । KK04-01-014-035a
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ KK04-01-014-035c
प्रवालपुष्पस्तबकैराचिता वनदेवताः । KK04-01-014-036a
त्वामेव हि निरीक्षन्ते विस्मिता रूपसम्पदा ॥ KK04-01-014-036c
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः । KK04-01-014-037a
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ KK04-01-014-037c
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी । KK04-01-014-038a
दृष्टपूर्वा श्रुता वाऽपि चक्षुषा विद्यते शुभा ॥ KK04-01-014-038c
द्रौपद्युवाच KK04-01-014-039
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी । KK04-01-014-039a
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ KK04-01-014-039c
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे । KK04-01-014-040a
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ KK04-01-014-040c
तत्र द्वादशवर्षाणि वन्यमूलफलाशना । KK04-01-014-041a
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ KK04-01-014-041c
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् । KK04-01-014-042a
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ KK04-01-014-042c
सिन्धुवारकजातीनां रचयाम्यवतंसकान् । KK04-01-014-043a
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् । KK04-01-014-043c
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ KK04-01-014-043e
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् । KK04-01-014-044a
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ KK04-01-014-044c
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता । KK04-01-014-045a
मालिनी चेति मे नाम स्वयं देवी चकार ह । KK04-01-014-045c
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ KK04-01-014-045e
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने । KK04-01-014-046a
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ KK04-01-014-046c
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा । KK04-01-014-047a
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ KK04-01-014-047c
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च । KK04-01-014-048a
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ KK04-01-014-048c
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी । KK04-01-014-049a
विचरामि महीं दुर्गां यत्र सायं निवेशना ॥ KK04-01-014-049c
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु । KK04-01-014-050a
साऽहं विवत्सा विधिना गन्धमादनपर्वतात् । KK04-01-014-050c
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ KK04-01-014-050e
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः । KK04-01-014-051a
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ KK04-01-014-051c
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ । KK04-01-014-052a
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ KK04-01-014-052c
वैशम्पायन उवाच KK04-01-014-053
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता । KK04-01-014-053a
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ KK04-01-014-053c
न भरेयमहं भद्रे संशयो मम विद्यते । KK04-01-014-054a
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ KK04-01-014-054c
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि । KK04-01-014-055a
एष दोषोस्ति सुश्रोणि कथं वा भीरु मन्यसे ॥ KK04-01-014-055c
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि । KK04-01-014-056a
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ KK04-01-014-056c
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि । KK04-01-014-057a
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ KK04-01-014-057c
बिभर्षि परमं रूपमतिमानुषमद्भुतम् । KK04-01-014-058a
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः । KK04-01-014-058c
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ KK04-01-014-058e
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः । KK04-01-014-059a
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ KK04-01-014-059c
यं हि त्वमनवद्याङ्गी नरमायतलोचने । KK04-01-014-060a
सुप्रसन्ना हि वीक्षेथाः स कामवशगो भवेत् ॥ KK04-01-014-060c
सुस्नाताऽलङ्कृता हि त्वं यमीक्षेथा हि मानुषम् । KK04-01-014-061a
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ KK04-01-014-061c
न शोको न च सन्तापो न क्रोधो नानृतं वदे । KK04-01-014-062a
यं त्वं सर्वातवद्याङ्गि भजेथाः समलङ्कृता ॥ KK04-01-014-062c
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् । KK04-01-014-063a
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ KK04-01-014-063c
पञ्चत्वमपि सम्प्राप्तं यं च त्वं परिषस्वजेः । KK04-01-014-064a
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ KK04-01-014-064c
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः । KK04-01-014-065a
अतिजीवेत्स सर्वेषु देवेष्विव पुरन्दरः ॥ KK04-01-014-065c
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति । KK04-01-014-066a
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ KK04-01-014-066c
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः । KK04-01-014-067a
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ KK04-01-014-067c
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथञ्चन । KK04-01-014-068a
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ KK04-01-014-068c
सैरन्ध्र्युवाच KK04-01-014-069
नाहं शक्या विराटेन यद्वा चान्येन केनचित् । KK04-01-014-069a
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ KK04-01-014-069c
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः । KK04-01-014-070a
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ KK04-01-014-070c
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा । KK04-01-014-071a
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ KK04-01-014-071c
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि । KK04-01-014-072a
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका । KK04-01-014-072c
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ KK04-01-014-072e
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः । KK04-01-014-073a
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ KK04-01-014-073c
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा । KK04-01-014-074a
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ KK04-01-014-074c
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् । KK04-01-014-075a
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ KK04-01-014-075c
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः । KK04-01-014-076a
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ KK04-01-014-076c
न चाप्यहं चालयितुं शक्या केनचिदङ्गने । KK04-01-014-077a
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः । KK04-01-014-077c
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ KK04-01-014-077e
वैशम्पायन उवाच KK04-01-014-078
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् । KK04-01-014-078a
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ KK04-01-014-078c
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि । KK04-01-014-079a
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ KK04-01-014-079c
एवमाचारसम्पन्ना एवं देवपरायणा । KK04-01-014-080a
रक्ष्या त्वमसि भूतानां सावित्रीव द्विजन्मनाम् ॥ KK04-01-014-080c
देवता इव कल्याणि पूजिता वरवर्णिनी । KK04-01-014-081a
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते । KK04-01-014-081c
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ KK04-01-014-081e
वैशम्पायन उवाच KK04-01-014-082
सुदेष्णयैवमुक्ता सा सम्प्रीता चारुहासिनी । KK04-01-014-082a
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ KK04-01-014-082c
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशाम्पते । KK04-01-014-083a
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ KK04-01-014-083c
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना । KK04-01-014-084a
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्नयो भस्मनि गूढतेजसः ॥॥ KK04-01-014-084c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

4-14-1 समुत्क्षिप्य वल्गिताग्राननिन्दितानिति ख. थ. ध. पाठः ॥ 1 ॥ चतुर्दशोऽध्यायः ॥ 14 ॥