अध्यायः 012

नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ॥ 1 ॥ विराटेन नकुलस्याश्वपालने नियोजनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-01-012-001
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति । KK04-01-012-001a
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ KK04-01-012-001c
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् । KK04-01-012-002a
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्वसभासदस्तदा ॥ KK04-01-012-002c
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मामिकां सभाम् । KK04-01-012-003a
प्रियो हि मे दर्शनतोपि सम्मतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ KK04-01-012-003c
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः । KK04-01-012-004a
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ KK04-01-012-004c
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् । KK04-01-012-005a
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ KK04-01-012-005c
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः । KK04-01-012-006a
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ KK04-01-012-006c
विराट उवाच KK04-01-012-007
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि । KK04-01-012-007a
कुतोसि कस्यासि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ KK04-01-012-007c
नकुल उवाच KK04-01-012-008
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः । KK04-01-012-008a
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ KK04-01-012-008c
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः । KK04-01-012-009a
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ KK04-01-012-009c
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा वडवा कुतो हयः । KK04-01-012-010a
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ KK04-01-012-010c
मातलिरिव देवपतेर्दशरथनृपतेः सुमन्त्र इव यन्ता । KK04-01-012-011a
सुमह इव जामदग्नेस्तथैव तव शिक्षयाम्यश्वान् ॥ KK04-01-012-011c
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् । KK04-01-012-012a
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ KK04-01-012-012c
विराट उवाच KK04-01-012-013
यदस्ति किञ्चिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै । KK04-01-012-013a
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ KK04-01-012-013c
इदं तवेष्टं विहितं सुरोपम प्रब्रूहि यत्ते प्रसमीक्षितं वरम् । KK04-01-012-014a
न तेऽनुरूपं हयकर्म दृश्यते विभासि राजेव न कर्म वाजिनाम् ॥ KK04-01-012-014c
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् । KK04-01-012-015a
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ KK04-01-012-015c
वैशम्पायन उवाच KK04-01-012-016
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः । KK04-01-012-016a
न चैवमन्येऽपि विदुः कथञ्चन प्रियाभिरामं विचरन्तमन्तरा ॥॥ KK04-01-012-016c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः ॥ 12 ॥