अध्यायः 011
अर्जुनेन षण्डवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेनार्जुनस्य कन्यानाटने नियोजनम् ॥ 2 ॥
वैशम्पायन उवाच KK04-01-011-001
अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलङ्कृतो भृशम् । KK04-01-011-001a
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ॥ KK04-01-011-001c
कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः । KK04-01-011-002a
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ॥ KK04-01-011-002c
क्लैब्येन वेषेण न भाति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः । KK04-01-011-003a
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥ KK04-01-011-003c
तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् । KK04-01-011-004a
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ॥ KK04-01-011-004c
सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः । KK04-01-011-005a
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ॥ KK04-01-011-005c
विराट उवाच KK04-01-011-006
गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः । KK04-01-011-006a
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ॥ KK04-01-011-006c
किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयम्भूः । KK04-01-011-007a
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ॥ KK04-01-011-007c
वैशम्पायन उवाच KK04-01-011-008
सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः । KK04-01-011-008a
स तत्र राजानममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ॥ KK04-01-011-008c
वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे । KK04-01-011-009a
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ॥ KK04-01-011-009c
क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम । KK04-01-011-010a
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ॥ KK04-01-011-010c
इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम् । KK04-01-011-011a
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ॥ KK04-01-011-011c
नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह । KK04-01-011-012a
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ॥ KK04-01-011-012c
विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव । KK04-01-011-013a
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ॥ KK04-01-011-013c
प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः । KK04-01-011-014a
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ॥ KK04-01-011-014c
त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां काञ्चन लक्षयामि ते । KK04-01-011-015a
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ॥ KK04-01-011-015c
वैशम्पायन उवाच KK04-01-011-016
तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च । KK04-01-011-016a
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ॥ KK04-01-011-016c
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो । KK04-01-011-017a
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ॥ KK04-01-011-017c
नृत्यामि गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम । KK04-01-011-018a
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ॥ KK04-01-011-018c
विराट उवाच KK04-01-011-019
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः । KK04-01-011-019a
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ॥ KK04-01-011-019c
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम् । KK04-01-011-020a
सुगात्रि सम्प्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ॥ KK04-01-011-020c
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता । KK04-01-011-021a
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ॥ KK04-01-011-021c
वैशम्पायन उवाच KK04-01-011-022
सम्मन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै । KK04-01-011-022a
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ॥ KK04-01-011-022c
स शिक्षयामास च गीतवादनं सुतां विराटस्य धनञ्जयः प्रभुः । KK04-01-011-023a
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ॥ KK04-01-011-023c
तथा स तत्रैव धनञ्जयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान् । KK04-01-011-024a
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ॥ ॥ KK04-01-011-024c
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः ॥ 11 ॥