अध्यायः 010

भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेन भीमस्य पाकाधिकारे नियोजनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-01-010-001
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः । KK04-01-010-001a
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ॥ KK04-01-010-001c
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः । KK04-01-010-002a
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ॥ KK04-01-010-002c
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन् । KK04-01-010-003a
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ॥ KK04-01-010-003c
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन् । KK04-01-010-004a
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ॥ KK04-01-010-004c
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम् । KK04-01-010-005a
भयात्समुद्विग्नविषण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ॥ KK04-01-010-005c
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम् । KK04-01-010-006a
समीक्ष्य वैक्लव्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ॥ KK04-01-010-006c
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव । KK04-01-010-007a
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ॥ KK04-01-010-007c
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः । KK04-01-010-008a
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ॥ KK04-01-010-008c
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः । KK04-01-010-009a
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ॥ KK04-01-010-009c
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शक्र इवाभिपालयेत् । KK04-01-010-010a
नाभूमिपोऽयं हि मतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ॥ KK04-01-010-010c
वैशम्पायन उवाच KK04-01-010-011
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत् । KK04-01-010-011a
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ॥ KK04-01-010-011c
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम् । KK04-01-010-012a
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ॥ KK04-01-010-012c
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत् । KK04-01-010-013a
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् । KK04-01-010-013c
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ॥ KK04-01-010-013e
वैशम्पायन उवाच KK04-01-010-014
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत् । KK04-01-010-014a
न शूद्रतां काञ्चन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ॥ KK04-01-010-014c
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे । KK04-01-010-015a
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ॥ KK04-01-010-015c
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः । KK04-01-010-016a
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ॥ KK04-01-010-016c
भीम उवाच KK04-01-010-017
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम् । KK04-01-010-017a
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ॥ KK04-01-010-017c
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः । KK04-01-010-018a
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ॥ KK04-01-010-018c
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् । KK04-01-010-019a
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ॥ KK04-01-010-019c
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् । KK04-01-010-020a
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ॥ KK04-01-010-020c
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि । KK04-01-010-021a
ये सन्ति मल्ला बलवीर्यसम्मतास्तानेव योत्स्यामि तवाभिहर्षयन् ॥ KK04-01-010-021c
वैशम्पायन उवाच KK04-01-010-022
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत् । KK04-01-010-022a
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ KK04-01-010-022c
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे । KK04-01-010-023a
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः । KK04-01-010-023c
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ॥ KK04-01-010-023e
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः । KK04-01-010-024a
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ॥ ॥ KK04-01-010-024c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि दशमोऽध्यायः ॥ 10 ॥

4-01-010-013 राजोपचाराश्च बहूनिति ध पाठ ॥ 4-01-010-016 अनीककण्ठाग्रसरोध्वजीति ध. पाठः ॥