अध्यायः 009

युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः ॥ 2 ॥ वैशम्पायन उवाच KK04-01-009-001
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम् । KK04-01-009-001a
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितॄनतपर्यन् ॥ KK04-01-009-001c
वरप्रदानं ह्यनुचिन्त्य पार्थिवो हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः । KK04-01-009-002a
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ॥ KK04-01-009-002c
युधिष्ठिर उवाच KK04-01-009-003
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः । KK04-01-009-003a
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ॥ KK04-01-009-003c
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः । KK04-01-009-004a
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ॥ KK04-01-009-004c
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात् । KK04-01-009-005a
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ॥ KK04-01-009-005c
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत् । KK04-01-009-006a
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ॥ KK04-01-009-006c
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च । KK04-01-009-007a
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ॥ KK04-01-009-007c
वैशम्पायन उवाच KK04-01-009-008
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् । KK04-01-009-008a
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ॥ KK04-01-009-008c
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत । KK04-01-009-009a
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ॥ KK04-01-009-009c
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः । KK04-01-009-010a
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ॥ KK04-01-009-010c
नवेन रूपेण विशाम्पतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान् । KK04-01-009-011a
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ॥ KK04-01-009-011c
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम् । KK04-01-009-012a
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ॥ KK04-01-009-012c
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः । KK04-01-009-013a
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ॥ KK04-01-009-013c
गजैरुदीर्णं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् । KK04-01-009-014a
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् । KK04-01-009-014c
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ॥ KK04-01-009-014e
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा । KK04-01-009-015a
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ॥ KK04-01-009-015c
विराट उवाच KK04-01-009-016
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम् । KK04-01-009-016a
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ॥ KK04-01-009-016c
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा । KK04-01-009-017a
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ॥ KK04-01-009-017c
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् । KK04-01-009-018a
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्चतुर्युजः ॥ KK04-01-009-018c
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः । KK04-01-009-019a
अभ्यागतोऽस्माननलङ्कृतोपि सन् विरोचते भानुरिवाचिरोदितः ॥ KK04-01-009-019c
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति । KK04-01-009-020a
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ॥ KK04-01-009-020c
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति । KK04-01-009-021a
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ॥ KK04-01-009-021c
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् । KK04-01-009-022a
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ॥ KK04-01-009-022c
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ॥ KK04-01-009-023ac
वैशम्पायन उवाच KK04-01-009-024
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः । KK04-01-009-024a
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ॥ KK04-01-009-024c
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका । KK04-01-009-025a
सभागतं प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ॥ KK04-01-009-025c
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः । KK04-01-009-026a
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ॥ KK04-01-009-026c
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः । KK04-01-009-027a
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ॥ KK04-01-009-027c
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते । KK04-01-009-028a
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ॥ KK04-01-009-028c
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् । KK04-01-009-029a
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ॥ KK04-01-009-029c
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् । KK04-01-009-030a
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ॥ KK04-01-009-030c
वैशम्पायन उवाच KK04-01-009-031
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् । KK04-01-009-031a
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ॥ KK04-01-009-031c
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च । KK04-01-009-032a
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ॥ KK04-01-009-032c
द्विजो व्रतेनास्मि न च स्वतः प्रभो सम्मुण्डितः प्रव्रजितस्त्रिदण्डभृत् । KK04-01-009-033a
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ॥ KK04-01-009-033c
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः । KK04-01-009-034a
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ॥ KK04-01-009-034c
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा । KK04-01-009-035a
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ॥ KK04-01-009-035c
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च । KK04-01-009-036a
गृहे च तस्योषितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ॥ KK04-01-009-036c
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः । KK04-01-009-037a
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ॥ KK04-01-009-037c
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः । KK04-01-009-038a
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ॥ KK04-01-009-038c
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम् । KK04-01-009-039a
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ॥ KK04-01-009-039c
इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि । KK04-01-009-040a
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ॥ KK04-01-009-040c
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते । KK04-01-009-041a
मुक्तोस्मि कामाच्च धनाच्च साम्प्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ॥ KK04-01-009-041c
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः । KK04-01-009-042a
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ॥ KK04-01-009-042c
अक्षान्निवप्तुं कुशलोस्म्यहं सदा पराजितः शकुनिरुतानि चिन्तयन् । KK04-01-009-043a
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ॥ KK04-01-009-043c
वैशम्पायन उवाच KK04-01-009-044
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च । KK04-01-009-044a
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ॥ KK04-01-009-044c
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान् । KK04-01-009-045a
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ॥ KK04-01-009-045c
समानयानासनवस्त्रभोजनं प्रभूतमाल्याभरणानुलेपनम् । KK04-01-009-046a
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ॥ KK04-01-009-046c
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदिवेतरे जनाः । KK04-01-009-047a
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ॥ KK04-01-009-047c
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् । KK04-01-009-048a
यच्चापि किञ्चिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ॥ KK04-01-009-048c
युधिष्ठिर उवाच KK04-01-009-049
अतोऽभिलाषः परमो न विद्यते न मे जितं किञ्चन धारये धनम् । KK04-01-009-049a
न भोजनं किञ्चन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ॥ KK04-01-009-049c
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् । KK04-01-009-050a
एवम्प्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ॥ KK04-01-009-050c
एवं वरं मात्स्य वृणे प्रदापितं कृती भविष्यामि वरेण तेऽनघ ॥ KK04-01-009-051ac
वैशम्पायन उवाच KK04-01-009-052
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च । KK04-01-009-052a
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ॥ KK04-01-009-052c
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः । KK04-01-009-053a
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ॥ KK04-01-009-053c
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा । KK04-01-009-054a
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ॥॥ KK04-01-009-054c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि नवमोऽध्यायः ॥ 9 ॥

4-9-6 वयश्च रूपं च बलं तथाऽऽप्नुयुरिति थo धo पाठः ॥ 6 ॥ 4-9-24 अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः ॥ 24 ॥