अध्यायः 008

विराटनगरं गच्छता युधिष्ठिरेण दुर्गायाः स्तवनम् ॥ 1 ॥ [वैशम्पायन उवाच KK04-01-008-001
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । KK04-01-008-001a
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ KK04-01-008-001c
यशोदागर्भसम्भूतां नारायणवरप्रियाम् । KK04-01-008-002a
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ KK04-01-008-002c
कंसविद्रावणकरीमसुराणां क्षयङ्करीम् । KK04-01-008-003a
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ KK04-01-008-003c
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् । KK04-01-008-004a
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ KK04-01-008-004c
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् । KK04-01-008-005a
तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ॥ KK04-01-008-005c
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः । KK04-01-008-006a
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ KK04-01-008-006c
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । KK04-01-008-007a
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ KK04-01-008-007c
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । KK04-01-008-008a
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ KK04-01-008-008c
भासि देवि यथा पद्मा नारायणपरिग्रहः । KK04-01-008-009a
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ KK04-01-008-009c
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना । KK04-01-008-010a
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ KK04-01-008-010c
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि । KK04-01-008-011a
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ KK04-01-008-011c
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । KK04-01-008-012a
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ KK04-01-008-012c
मुकुटेन विचित्रेण केशबन्धेन शोभिना । KK04-01-008-013a
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ KK04-01-008-013c
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः । KK04-01-008-014a
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ KK04-01-008-014c
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । KK04-01-008-015a
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ KK04-01-008-015c
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि । KK04-01-008-016a
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ KK04-01-008-016c
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । KK04-01-008-017a
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ KK04-01-008-017c
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् । KK04-01-008-018a
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ KK04-01-008-018c
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी । KK04-01-008-019a
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ KK04-01-008-019c
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि । KK04-01-008-020a
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोपि वा ॥ KK04-01-008-020c
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः । KK04-01-008-021a
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे । KK04-01-008-021c
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ KK04-01-008-021e
जलप्रतरणे चैव कान्तारेष्वटवीषु च । KK04-01-008-022a
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ KK04-01-008-022c
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः । KK04-01-008-023a
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिःक्षमा दया ॥ KK04-01-008-023c
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् । KK04-01-008-024a
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ KK04-01-008-024c
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । KK04-01-008-025a
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ KK04-01-008-025c
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । KK04-01-008-026a
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ KK04-01-008-026c
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । KK04-01-008-027a
उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ KK04-01-008-027c
देव्युवाच KK04-01-008-028
शृणु राजन्महाबाहो मदीयं वचनं प्रभो । KK04-01-008-028a
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ KK04-01-008-028c
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । KK04-01-008-029a
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ KK04-01-008-029c
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् । KK04-01-008-030a
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ KK04-01-008-030c
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः । KK04-01-008-031a
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ KK04-01-008-031c
प्रवासे नगरे वाऽपि सङ्ग्रामे शत्रुसङ्कटे । KK04-01-008-032a
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ KK04-01-008-032c
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता । KK04-01-008-033a
न तेषां दुर्लभं किञ्चिदस्मिल्ँलोके भविष्यति ॥ KK04-01-008-033c
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा । KK04-01-008-034a
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ KK04-01-008-034c
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् । KK04-01-008-035a
न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ॥ KK04-01-008-035c
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । KK04-01-008-036a
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥] ॥ KK04-01-008-036c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

4-8-3 शिलातटे कंसेनैव विनिक्षिप्ता सती आकाशं गता ताम् ॥ 3 ॥ 4-8-6 स्तोत्रार्थमेव सम्भव उद्भवो येषां नाम्ना वरदे इत्यादीनां तैः । आमन्त्र्य सम्बोध्य ॥ 6 ॥ 4-8-9 पद्मा लक्ष्मी अत एव नारायणपरिग्रहो विष्णुकान्ता ॥ 9 ॥ 4-8-10 कृष्णच्छविर्नीलमेघस्तेन समा अतएव कृष्णा । अष्टभुजामाह बिभ्रतीति । विपुलौ वराभयप्रदत्वेन ऊर्जितौ द्वौ बाहू ॥ 10 ॥ 4-8-11 तत एकः पात्री पात्रवान्पङ्कजी पङ्कजवान् घण्टी घण्टावान् पञ्चमः पाशं धनुर्महाचक्रं च बिभ्रतीति पूर्वेणान्वयः ॥ 11 ॥ जलप्रतरणे जलप्रतरणकाले कान्तारे दुर्गममार्गे ॥22॥निष्कण्टकं शत्रुशून्यम् ॥ 29 ॥ सङ्कीर्तयिष्यन्ति इदं स्तोत्रमिति शेषः ॥31॥