अध्यायः 007

पाण्डवैर्वनमध्ये श्मशानसन्निहिते शमीवृक्षे स्वायुधनिक्षेपः ॥ 1 ॥ तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-01-007-001
स राजधानीं सम्प्राप्य पार्थिवोऽर्जुनमब्रवीत् । KK04-01-007-001a
इमानि पुरुषव्याघ्र आयुधानि परन्तप । KK04-01-007-001c
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ KK04-01-007-001e
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि । KK04-01-007-002a
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ KK04-01-007-002c
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् । KK04-01-007-003a
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ KK04-01-007-003c
यदीदं धनुरादाय चरेम सजने पुरे । KK04-01-007-004a
क्षिप्रं नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ KK04-01-007-004c
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च । KK04-01-007-005a
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ KK04-01-007-005c
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा । KK04-01-007-006a
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ KK04-01-007-006c
वैशम्पायन उवाच KK04-01-007-007
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः । KK04-01-007-007a
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ KK04-01-007-007c
इयं वने मनुष्येन्द्र महती दृश्यते शमी । KK04-01-007-008a
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ KK04-01-007-008c
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते । KK04-01-007-009a
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ॥ KK04-01-007-009c
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ KK04-01-007-010ac
समीपे च श्मशानस्य गृहं नास्य विशेषतः । KK04-01-007-011a
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ KK04-01-007-011c
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ KK04-01-007-012ac
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् । KK04-01-007-013a
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् । KK04-01-007-013c
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ 13 ॥ KK04-01-007-013e
एवं परिहरिष्यन्ति मनुष्या वनचारिणः । KK04-01-007-014a
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ KK04-01-007-014c
वैशम्पायन उवाच KK04-01-007-015
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः । KK04-01-007-015a
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥ KK04-01-007-015c
तानि सर्वाणि सन्नह्य पञ्च पञ्चाचलोपमाः । KK04-01-007-016a
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ KK04-01-007-016c
ततो युधिष्ठिरो राजा सहदेवमुवाच ह । KK04-01-007-017a
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ KK04-01-007-017c
इति सन्दिश्य तं पार्थः पुनरेव धनञ्जयम् । KK04-01-007-018a
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ KK04-01-007-018c
वैशम्पायन उवाच KK04-01-007-019
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् । KK04-01-007-019a
निवातकवचांश्चापि पौलोमांश्च परन्तपः । KK04-01-007-019c
कालकेयांश्च दुर्धर्षान्सर्वांश्चैकरथोऽजयत् ॥ KK04-01-007-019e
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः । KK04-01-007-020a
तदुदग्रं महाघोरं सपत्नगणसूदनम् । KK04-01-007-020c
अपज्यमकरोत्पार्थो गाण्डीवं च भयङ्करम् ॥ KK04-01-007-020e
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः । KK04-01-007-021a
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ KK04-01-007-021c
धर्मपुत्रो महातेजाः सर्वलोकवशङ्करम् । KK04-01-007-022a
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ KK04-01-007-022c
वित्रासनं दानवानां राक्षसानां च नित्यशः । KK04-01-007-023a
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ KK04-01-007-023c
पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्पुरा । KK04-01-007-024a
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ KK04-01-007-024c
निशम्य यस्य विष्फारं विद्रवन्ति रणे परे । KK04-01-007-025a
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ KK04-01-007-025c
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् । KK04-01-007-026a
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ KK04-01-007-026c
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः । KK04-01-007-027a
त्रिगर्तान्येन सङ्ग्रामे जित्वा त्रैगर्तमानयत् ॥ KK04-01-007-027c
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् । KK04-01-007-028a
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ KK04-01-007-028c
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः । KK04-01-007-029a
उवाच येन सङ्ग्रामे सर्वशत्रूञ्जिघांससि ॥ KK04-01-007-029c
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् । KK04-01-007-030a
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ KK04-01-007-030c
तवानुरूपं सुकृतं चापमेतदलङ्कृतम् । KK04-01-007-031a
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ KK04-01-007-031c
वैशम्पायन उवाच KK04-01-007-032
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः । KK04-01-007-032a
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ KK04-01-007-032c
तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि । KK04-01-007-033a
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ KK04-01-007-033c
सहदेवं च सम्प्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् । KK04-01-007-034a
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ KK04-01-007-034c
येनैव शत्रून्समरे अधाक्षीररिमर्दन । KK04-01-007-035a
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ KK04-01-007-035c
वैशम्पायन उवाच KK04-01-007-036
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः । KK04-01-007-036a
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ KK04-01-007-036c
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् । KK04-01-007-037a
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि । KK04-01-007-037c
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ KK04-01-007-037e
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः । KK04-01-007-038a
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ KK04-01-007-038c
इदं गोमृगमभ्याशे गतसत्वमचेतनम् । KK04-01-007-039a
एतदुत्कृत्य वै वीर धनूंषि परिवेष्टय ॥ KK04-01-007-039c
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् । KK04-01-007-040a
शमीमारुह्य त्वरितो धनूंषि परिवेष्टयत् ॥ KK04-01-007-040c
शीतवातातपभयाद्वर्षत्राणाय दुर्जयः । KK04-01-007-041a
तानि वीरो यथा जानन्निराबाधानि सर्वशः । KK04-01-007-041c
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ KK04-01-007-041e
यत्र चापश्यत स वै तिरोवर्षाणि वर्षति । KK04-01-007-042a
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ KK04-01-007-042c
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् । KK04-01-007-043a
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ KK04-01-007-043c
तच्चानीय धनुर्मध्ये निबबन्धुश्च पाण्डवाः । KK04-01-007-044a
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ KK04-01-007-044c
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः । KK04-01-007-045a
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ KK04-01-007-045c
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः । KK04-01-007-046a
रज्जुभिः सुकृतं प्राज्ञ विनिर्बध्नीहि पाण्डव ॥ KK04-01-007-046c
यानि चात्र विशालानि रूढमूलानि मन्यसे । KK04-01-007-047a
तेषामुपरि बध्नीहि इदं विप्रकलेवरम् ॥ KK04-01-007-047c
वैशम्पायन उवाच KK04-01-007-048
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ KK04-01-007-048ac
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च । KK04-01-007-049a
ब्रह्माणमिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ KK04-01-007-049c
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च । KK04-01-007-050a
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा । KK04-01-007-050c
वसूंश्च मरुतश्चैव ज्वलनं चातितेजसम् ॥ KK04-01-007-050e
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि । KK04-01-007-051a
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेषां शरणं गतोऽहम् ॥ KK04-01-007-051c
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै । KK04-01-007-052a
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ KK04-01-007-052c
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके । KK04-01-007-053a
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ KK04-01-007-053c
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः । KK04-01-007-054a
आमर्षान्नित्यसङ्क्रुद्धो धृतराष्ट्रसुतान्प्रति । KK04-01-007-054c
अपूर्णकाले प्रहरेत्क्रोधसञ्जातमत्सरः ॥ KK04-01-007-054e
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा । KK04-01-007-055a
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ KK04-01-007-055c
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः । KK04-01-007-056a
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ KK04-01-007-056c
वैशम्पायन उवाच KK04-01-007-057
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम् । KK04-01-007-057a
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ KK04-01-007-057c
आगोपालाविपालेभ्यः कर्षकेभ्यः परन्तप । KK04-01-007-058a
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ KK04-01-007-058c
अशीतिशतवर्षेयं माताऽस्माकमिहान्तिके । KK04-01-007-059a
बहुकालपरीणामा मृत्योस्तु वशमेयुषी । KK04-01-007-059c
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ KK04-01-007-059e
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया । KK04-01-007-060a
तमेवमूचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ KK04-01-007-060c
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् । KK04-01-007-061a
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ KK04-01-007-061c
वने विचरमाणानां लुब्धानां वनचारिणाम् । KK04-01-007-062a
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ KK04-01-007-062c
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च । KK04-01-007-063a
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ KK04-01-007-063c
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा । KK04-01-007-064a
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ KK04-01-007-064c
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा । KK04-01-007-065a
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ KK04-01-007-065c
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः । KK04-01-007-066a
जयो जयेशो विजयो जयत्सेनो जयद्बलः । KK04-01-007-066c
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ॥ KK04-01-007-066e
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् । KK04-01-007-067a
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ ॥ KK04-01-007-067c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

गाण्डीवमभयकरम् इति क.थ.ध. पाठः ॥ 20॥