अध्यायः 006
पाण्डवैर्धौम्यविसर्जनपूर्वकं विराटनगरसमीपगमनम् ॥
वैशम्पायन उवाच KK04-01-006-001
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् । KK04-01-006-001a
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ KK04-01-006-001c
युधिष्ठिर उवाच KK04-01-006-002
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन । KK04-01-006-002a
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ KK04-01-006-002c
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति । KK04-01-006-003a
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ KK04-01-006-003c
वैशम्पायन उवाच KK04-01-006-004
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् । KK04-01-006-004a
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा । KK04-01-006-004c
ततः पावकमुज्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ KK04-01-006-004e
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः । KK04-01-006-005a
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ KK04-01-006-005c
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः । KK04-01-006-006a
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ KK04-01-006-006c
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु । KK04-01-006-007a
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ KK04-01-006-007c
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः । KK04-01-006-008a
ततः प्रत्यक्प्रयातास्ते सङ्क्रामन्तो वनाद्वनम् ॥ KK04-01-006-008c
वसाना वनदुर्गेषु रमणीयेषु धन्विनः । KK04-01-006-009a
पल्वलेषु च रम्येषु नदीनां सङ्गमेषु च ॥ KK04-01-006-009c
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् । KK04-01-006-010a
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ KK04-01-006-010c
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः । KK04-01-006-011a
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ KK04-01-006-011c
विध्यन्तो मृगजातानि महेष्वासा महाबलाः । KK04-01-006-012a
उषित्वा द्वादशसमा वने परपुरञ्जयाः । KK04-01-006-012c
लुब्धान्ब्रुवाणा मात्स्यस्य विषयं प्राविशंस्तदा ॥ KK04-01-006-012e
तत्र धौम्यं महेष्वासाः पाण्डवेया व्यसर्जयन् । KK04-01-006-013a
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ KK04-01-006-013c
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु । KK04-01-006-014a
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः । KK04-01-006-014c
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ KK04-01-006-014e
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ KK04-01-006-015ac
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः । KK04-01-006-016a
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ KK04-01-006-016c
व्यक्तं दूरे विराटस्य राजधानी भविष्यति । KK04-01-006-017a
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ KK04-01-006-017c
युधिष्ठिर उवाच KK04-01-006-018
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन । KK04-01-006-018a
मुहूर्तं परिगृह्यैनां बाहुभ्यां नकुल व्रज ॥ KK04-01-006-018c
ततोऽदूरे विराटस्य नगरं भरतर्षभ । KK04-01-006-019a
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ KK04-01-006-019c
नकुल उवाच KK04-01-006-020
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने । KK04-01-006-020a
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ KK04-01-006-020c
विषमा ह्यतिदुर्गा च वेगवत्परिधावता । KK04-01-006-021a
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ KK04-01-006-021c
युधिष्ठिर उवाच KK04-01-006-022
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय । KK04-01-006-022a
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ KK04-01-006-022c
सहदेव उवाच KK04-01-006-023
अहमप्यस्मि तृषितः क्षुधया परिपीडितः । KK04-01-006-023a
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ KK04-01-006-023c
युधिष्ठिर उवाच KK04-01-006-024
एहि वीर विशालाक्ष वीरसिंह इवार्जुन । KK04-01-006-024a
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ KK04-01-006-024c
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज । KK04-01-006-025a
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ KK04-01-006-025c
वैशम्पायन उवाच KK04-01-006-026
गुरोर्वचनमाज्ञाय सम्प्रहृष्टो जितेन्द्रियः । KK04-01-006-026a
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् । KK04-01-006-026c
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ KK04-01-006-026e
जटिलो वल्कलधरः शततूणीधनुर्धरः । KK04-01-006-027a
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् । KK04-01-006-027c
आनीय नगराभ्याशमवातारयदर्जुनः ॥ KK04-01-006-027e
04-01-006-012 आत्मन. लुब्धान्मृगयून्ब्रुवाणाः सन्तः प्राविशन्नित्यन्वयः ॥ इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः ॥ 6 ॥