अध्यायः 005 पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ॥ 1 ॥ पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ॥ 2 ॥
युधिष्ठिर उवाच । 001
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ । 001a
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥ 001c
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु । 002a
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ 002c
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् । 003a
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ 003c
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका । 004a
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥ 004c
सर्वैरपि च वक्तव्यन् न प्राज्ञायन्त पाण्डवाः । 005a
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि । 005c
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥ 005e
वैशम्पायन उवाच । 006
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् । 006a
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥ 006c
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् । 007a
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥ 007c
धौम्य उवाच । 008
विदितं वै यथा सर्वं लोके वृत्तमिदन् नृप । 008a
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥ 008c
अतोऽहमभिवक्ष्यामि हेतुमात्रन् निबोधत । 009a
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः । 009c
यथा राजकुलम् प्राप्य चरन्प्रोष्य न रिष्यति ॥ 009e
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि । 010a
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥ 010c
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् । 011a
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥ 011c
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥ 012a
असूयन्ति हि राजानो जनाननृतवादिनः । 013a
तथैव चावमन्यन्ते मन्त्रिणं वादिनम् मृषा ॥ 013c
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि । 014a
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥ 014c
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान । 015a
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥ 015c
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् । 016a
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥ 016c
क्षत्रियञ् चैव सर्पञ् च ब्राह्मणञ् च बहुश्रुतम् । 017a
नावमन्येत मेधावी कृशानपि कदाचन ॥ 017c
एतत्रयञ् च पुरुषं निर्दहेदवमानितम् । 018a
राजा तस्माद्बुधैर्नित्यम् पूजनीयः प्रयत्नतः ॥ 018c
नातिवर्तेत मर्यादाम् पुरुषो राजसम्मतः । 019a
व्यवहारम् पुनर्लोके मर्यादाम् पण्डिता विदुः ॥ 019c
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम । 020a
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥ 020c
गच्छन्नपि पराम् भूतिम् भूमिपालनियोजितः । 021a
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥ 021c
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् । 022a
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥ 022c
यत्रोपविष्टः सङ्कल्पं नोपहन्याद्बलीयसः । 023a
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥ 023c
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् । 024a
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥ 024c
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ । 025a
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥ 025c
परासनगतं ह्येनम्परस्य परिचारकाः । 026a
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥ 026c
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनम् मतम् । 027a
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥ 027c
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः । 028a
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः । 028c
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥ 028e
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः । 029a
सङ्ग्रहार्थम् मनुष्याणां नित्यमाभाषिता भवेत् ॥ 029c
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् । 030a
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥ 030c
नास्य युग्यन् न पर्यङ्कं नासनन् न रथन् तथा । 031a
आरोहेत्सम्मतोऽस्मीति यो राजवसतिं वसेत् ॥ 031c
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् । 032a
उत्थाने नित्यसङ्कल्पो निस्तन्द्रीः संयतात्मवान् ॥ 032c
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् । 033a
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥ 033c
अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् । 034a
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥ 034c
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा । 035a
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥ 035c
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः । 036a
मानम् प्राप्तो न हृष्येत न व्यथेच्च विमानितः । 036c
ऋजुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥ 036e
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः । 037a
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥ 037c
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा । 038a
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥ 038c
इतिहासपुराणज्ञः कुशलः सत्कथासु च । 039a
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥ 039c
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् । 040a
यञ् चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥ 040c
नैषां कर्मसु संयुक्तो धनङ् किञ्चिदुपस्पृशेत् । 041a
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥ 041c
तुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः । 042a
अन्यम् पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥ 042c
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि । 043a
पापीयांसम् प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥ 043c
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथञ्चन । 044a
रक्षणन् तु न सेवेत यो राजवसतिं वसेत् ॥ 044c
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् । 045a
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥ 045c
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः । 046a
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥ 046c
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् । 047a
नातिगाढम् प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ 47 ॥ 047c
हर्षाद्धि मन्दः पुरुषः स्वैरङ् कुर्वीत वैकृतम् । 048a
तदस्यान्तःपुरे वृत्तमीक्षाङ् कुर्वीत भूमिपः ॥ 048c
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः । 049a
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥ 049c
तस्माद्गम्भीरमात्मानङ् कृत्वा हर्षं नियम्य च । 050a
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥ 050c
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् । 051a
एवमन्तःपुरे वृत्तं श्रूयमाणम् बहिर्भवेत् ॥ 051c
या तु वृत्तिरबाह्यानाम् बाह्यानामपि केवलम् । 052a
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥ 052c
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा । 053a
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥ 053c
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् । 054a
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥ 054c
अराजानं हि रत्नानि राजकान्तानि राजवत् । 055a
भुञ्जानन् तन् नरं राजा न तितिक्षेत जीवितम् ॥ 055c
तस्मादव्यक्तभोगेन भोक्तव्यम् भूतिमिच्छता । 056a
तुल्यभोगं हि राजा तु भृत्यङ् कोपेन योजयेत् ॥ 056c
न चापत्येन सम्प्रीतिं राज्ञः कुर्वीत केनचित् । 057a
अधिक्षिप्तमनर्थञ् च द्वेष्यञ् च परिवर्जयेत् ॥ 057c
एतां हि सेवमानस्य नरसीमाञ् चतुर्विधाम् । 058a
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥ 058c
एतैस्तु विपरीता या नरसीमा नराधमैः । 059a
तथा कुर्वीत संसर्गन् न विरोधङ् कथञ्चन ॥ 059c
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः । 060a
साधु मन्येत संसर्गन् न विरोधङ् कथञ्चन ॥ 060c
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः । 061a
प्रथमञ् छिद्यते मूलम् द्वितीयञ् जायते भयम् ॥ 061c
उद्धतानाञ् च यो वेषः कुहकानाञ् च यो भवेत् । 062a
राजवेषञ् च विस्पष्टं सेवमानो न वर्धते । 062c
इतराभ्यान् तु वेषाभ्याम् परिहास्येत बान्धवैः ॥ 062e
अपुम्भिश्चैव पुम्भिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः । 063a
शक्ये सति न सम्भाषां जातु कुर्वीत कर्हिचित् ॥ 064a
प्रतिसम्भाषमाणो हि त्रिभिरेतैरचेतनः । 064c
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥ 064e
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव । 065a
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥ 065c
न चान्याचरिताम् भूमिमसन्दिष्टो महीपतेः । 066a
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥ 066c
न च सन्दर्शने राज्ञां प्रबन्धमभिसञ्जपेत् । 067a
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ 067c
अर्थकामा च या नारी राजानं स्यादुपस्थिता । 068a
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥ 068c
तस्मान्नारीन् न निध्यायेत्तथायुक्तां विचक्षणः । 069a
तथा क्षुतञ् च वातञ् च निष्ठीवञ् चाचरेच्छनैः ॥ 069c
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता । 070a
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥ 070c
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् । 071a
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥ 071c
भ्रुकुटिञ् च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् । 072a
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥ 072c
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च । 073a
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥ 073c
अथ सन्दृश्यमानेषु प्रियेषु च हितेषु च । 074a
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥ 074c
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् । 075a
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥ 075c
अप्रमत्तो हि राजानं रञ्जयेच्छीलसम्पदा । 076a
उत्थानेन तु मेधावी शौचेन विविधेन च ॥ 076c
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते । 077a
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥ 077c
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः । 078a
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 078c
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः । 079a
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥ 079c
कृतज्ञम् प्राज्ञमक्षुद्रं दृढभक्तिञ् जितेन्द्रियम् । 080a
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥ 080c
एष वः समुदाचारः समुद्दिष्टो यथाविधि । 081a
यथार्थान्सम्प्रपत्स्यन्ते पार्थ राजोपजीविनः ॥ 081c
संवत्सरमिमं तावदेवंशीला बुभूषथः । 082a
ततः स्वविषयम् प्राप्य यथाकामञ् चरिष्यथ ॥ 082c
वैशम्पायन उवाच । 083
तन् तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् । 083a
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परन्तपाः ॥ 083c
तेषाम् प्रतिष्ठमानानाम् मन्त्रांश्च ब्राह्मणोऽजपत् । 084a
भवाय राज्यलाभाय वीर्याय विजयाय च ॥ 084c
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च । 085a
स्वद्रव्यप्रतिलाभाय शत्रूणाम् मर्दनाय च ॥ 085c
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् । 086a
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता । 086c
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥ ॥ 086e
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥