अध्यायः 004 युधिष्ठिरम् प्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ॥ 1 ॥ सहदेवेन गोपालकतया स्वस्य निवासकथनम् ॥ 2 ॥ द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ॥ 3 ॥

वैशम्पायन उवाच । 001
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः । 001a
वाक्यं तथासौ विरराम भूयो नृपोऽपरम् भ्रातरमाबभाषे ॥ 001c
किङ्कर्मा किंसमाचारो नकुलोऽयम् भविष्यति । 002a
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ 002c
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः । 003a
सोयमार्तश्च शान्तश्च किन्नु रोचयतात्त्विह ॥ 003c
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि । 004a
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ॥ 004c
नकुल उवाच । 005
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः । 005a
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ॥ 005c
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि । 006a
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ॥ 006c
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने । 007a
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥ 007c
न मां परिभविष्यन्ति किशोरा वडवास्तथा । 008a
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ॥ 008c
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः । 009a
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ 009c
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा । 010a
इति तस्य पुरे छन्नश्चरिष्यामि महीपते । 010c
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 010e
वैशम्पायन उवाच । 011
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः । 011a
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ॥ 011c
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः । 012a
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ॥ 012c
न चास्य स्खलितं किञ्चिद्ददृशुस्तद्विदो जनाः । 013a
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ॥ 013c
अधिको मातुरस्माकङ् कुन्त्याः प्रियतमः सदा । 014a
सहदेव कथङ्कर्म तस्य राज्ञः करिष्यसि । 014c
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ 014e
सहदेव उवाच । 015
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये । 015a
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम् । 015c
तन्त्रीपालेति मे नाम स्वयम् प्रोक्तम् भविष्यति ॥ 015e
अरोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः । 016a
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्बिषाः ॥ 016c
नष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः । 017a
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ॥ 017c
भविष्यन्ति मया गुप्ता विराटनगरे तदा । 018a
निपुणत्वञ् चरिष्यामि प्रीतिरत्र परा हि मे ॥ 018c
अहं हि भवता गोषु प्रहितः सततम् पुरा । 019a
तत्र मे कौशलं सर्वमनुबद्धं विशाम्पते ॥ 019c
लक्षणञ् चरितञ् चैव गवां यच्चापि मङ्गलम् । 020a
सत्सर्वम् मे सुविदितमन्यच्चापि विशाम्पते ॥ 020c
वृषभानपि जानामि राजन्पूजितलक्षणान् । 021a
येषाम् मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 021c
सोऽहमेवञ् चरिष्यामि प्रीतिरत्र परा हि मे । 022a
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ॥ 022c
तोषयिष्ये च राजानम् मा भूच्चिन्ता तवानघ । 023a
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव । 023c
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 023e
युधिष्ठिर उवाच । 024
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति । 024a
न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ 024c
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च । 025a
एतान्येवाभिजानाति यथाजाता च भामिनी ॥ 025c
पतिव्रता महाभागा कथन्नु विचरिष्यति । 026a
इयन्तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी ॥ 026c
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च । 027a
सुकुमारी सुशीला च राजपुत्री यशस्विनी । 027c
कथं वत्स्यति कल्याणी विराटनगरे सती ॥ 027e
द्रौपद्युवाच । 028
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव । 028a
यथा ते मत्कृते शोको न भवेन्नृपते शृणु । 028c
यथा तु मान्न जानन्ति यत्करिष्याम्यहम् प्रभो ॥ 028e
छन्ना वत्स्याम्यहं यन्मान्न विजानन्ति केचन । 029a
वृत्तन्तच्च समाख्यास्ये शर्म तेस्तु विशाम्पते ॥ 029c
सैरन्ध्रीजातिसम्पन्ना नाम्नाऽहं व्रतचारिणी । 030a
भविष्यामि महाराज विराटस्येति मे मतिः ॥ 030c
सैरन्ध्र्यो रक्षिताः स्त्रीणाम् भुजिष्याः सन्ति भारत । 031a
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ॥ 031c
साऽहम् ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि । 032a
प्रमदाहरिका लोके पुरुषाणाम् प्रवासिनाम् ॥ 032c
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका । 033a
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत । 033c
आत्मगुप्ता चरिष्यामि यन्मां त्वम् परिपृच्छसि ॥ 033e
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि । 034a
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ॥ 034c
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् । 035a
सा रक्षिष्यति माम् प्राप्ताम् मा ते भूद्दुःखमीदृशम् ॥ 035c
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी । 036a
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 036c
युधिष्ठिर उवाच । 037
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः । 037a
कुर्यास्तथा त्वङ् कल्याणि लक्षयेयुर्न ते जनाः ॥ 037c
कल्याणम् भाषसे कृष्णे यथा कौलेयकी तथा । 038a
न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥ 038c