अध्यायः 003 भीमेन युधिष्ठिरं प्रति स्वस्य सूदवेषपरिग्रहेण विराटभवने निवासकथनम् ॥ अर्जुनेन युधिष्ठिरं प्रति स्वेन नपुंसकवेषपरिग्रहेण राजकन्यानाटनादिकथनम् ॥

वैशम्पायन उवाच । 001
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् । 001a
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ॥ 001c
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि । 002a
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ॥ 002c
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात् । 003a
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ॥ 003c
बकं राक्षसराजानं भीषणं पुरुषादकम् । 004a
जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम । 004c
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ॥ 004e
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम् । 005a
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ॥ 005c
आपदं चापि सम्प्राप्ता द्रौपदी चारुहासिनी । 006a
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ॥ 006c
मत्स्यराजान्तिके तात वीर्यपूर्णोऽत्यमर्षणः । 007a
वृकोदर विराटस्य बलीयान्दुर्बलीयसः । 007c
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ॥ 007e
भीम उवाच । 008
सूदोऽहं वललो नाम्ना सूपकारो नराधिप । 008a
उपस्थास्यामि राजानं विराटमिति रोचये ॥ 008c
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा । 009a
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ॥ 009c
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः । 010a
तान्यप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ॥ 010c
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् । 011a
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ॥ 011c
आहरिष्यामि दारूणां पाटितानां शतंशतम् । 012a
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ॥ 012c
ये च तस्य महामल्लाः समरेष्वपराजिताः । 013a
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ॥ 013c
रङ्गोपजीविनः सर्वे परेषां च भयावहाः । 014a
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ॥ 014c
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम् । 015a
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ॥ 015c
वृषो वा महिषो वापि नागो वा षाष्टिहायनः । 016a
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ॥ 016c
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान् । 017a
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ॥ 017c
आरालिका वा सूदा वा येऽस्य युक्ता महानसे । 018a
तानहं प्रीणयिष्यामि मनुष्यान्स्तेन कर्मणा ॥ 018c
आरालिको गोविकर्ता सूपकर्ता नियोधकः । 019a
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ॥ 019c
आत्मानमात्मना रक्षंश्चरिष्यामि विशाम्पते । 020a
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा । 020c
विराटनगरे च्छन्नो विराटस्य समीपतः ॥ 020e
युधिष्ठिर उवाच । 021
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत । 021a
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ॥ 021c
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह । 022a
तस्मै ब्राह्मणरूपाय हुताशाय महायशाः । 022c
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥ 022e
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् । 023a
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ॥ 023c आशीविषसमस्पर्शो नागानामिव वासुकिः । 024a
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ॥ 024c
समुद्र इव सिन्धूनां शैलानां हिमवानिव । 025a
महेन्द्र इव देवानां दानवानां बलिर्यथा ॥ 025c
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा । 026a
कुबेर इव यक्षाणां मृगाणां केसरी यथा ॥ 026c
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः । 027a
रुद्राणामिव कापाली विष्णुर्बलवतामिव ॥ 027c
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः । 028a
वायुवेगबलोद्धृतो गरुडः पततामिव ॥ 028c
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा । 029a
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ॥ 029c
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः । 030a
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ॥ 030c
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा । 031a
गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः । 031c
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ॥ 031e
यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर । 032a
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥ 032c
सोयमिन्द्रादनवमो वासुदेवाच्च भारत । 033a
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि । 033c
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ॥ 033e
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसम्मतः । 034a
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ॥ 034c
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् । 035a
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ॥ 035c
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् । 036a
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ॥ 036c
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ । 037a
दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा ॥ 037c
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ । 038a
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ॥ 038c
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः । 039a
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ॥ 039c
किंरूपधारी किङ्कर्मा किञ्चेष्टः किम्परायणः । 040a
बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः । 040c
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ॥ 040e
अर्जुन उवाच । 041
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् । 041a
नित्यं कञ्चुकसञ्छन्नौ नान्यथा गोप्तुमुत्सहे ॥ 041c
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ॥ 042a
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ । 043a
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ॥ 043c
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके । 044a
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ॥ 044c
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । 045a
प्रजानां समुदाचारं बहुनर्मकृतं वदन् । 045c
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ॥ 045e
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा । 046a
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ॥ 046c
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः । 047a
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ॥ 047c
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका । 048a
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य सम्मता ॥ 048c
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम् । 049a
शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात् । 049c
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 049e
एतेन विधिना छन्नः कृतकेन यथा नलः । 050a
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ॥ 050c
युधिष्ठिर उवाच । 051
वासुदेवसमो लोके यशसा विक्रमेण च । 051a
सोयं राज्ये विराटस्य भवने भरतर्षभः ॥ 051c
मेरुः प्रच्छादित इव वसन्वज्रेण मुष्टिना । 052a
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ॥ ॥ 052c
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ॥